2023-02-20 11:47:33 by ambuda-bot
This page has not been fully proofread.
१३८
[ फर्मनामधेय-
नुपपत्तिश्च । (१) पशुकामपदस्थापि स्वरसतः फलपरस्य कामनानुवादत्वे
नर्थ क्यापत्तेध । नच नियमतः पश्वर्जनकामना भवति, कामनातः प्रागेव
केनचित् दत्ते पशौ तदभावात् । तथा च पशुकामपदस्य नित्यवच्छ्रवणबाधः।
दैक्षस्योत्पत्तिशिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्वविधानानुपपत्तेच; श्रामिक्षा-
यागानुवादेन वाजिनविधानवत् । 'कृष्णसारङ्गोनोषीमीयः' इति विशेष वि.
हितेन स्वसन्निधिपठितेन च कृष्णलारङ्गवर्णेनावरुद्ध चित्रत्वस्यानारभ्या-
मीमांसान्यायप्रकाशः
स चाने कविधानकृतवाक्यभेदापेक्षया लघुभूत एव, विध्यावृत्तिरूपस्य दोषस्यात्राभावा.
दिव्यत आह-कारकस्यापोति । "धेनुर्दक्षिणे" त्यादौ हि करणकारकस्याप्राप्तत्वात्
युक्तं तत्राने कगुणविशिष्टैककारक विधानम् । प्रकृते तूपत्तिवाक्यादेव करणकारकस्यापि
प्राप्तत्वात् विहितस्य पुनर्विधानं न सम्भवतीति भावः । पशुकामपदमप्यस्मिन् पक्षेऽनर्थ •
प्रायमेवेत्याह - पशुकामेति । यत्र यत्र कामशब्दः तत्र सर्वत्रापि फलपरत्वमेव तस्य दृष्टं
स्वर्गकामः, स्वाराज्यकाम इत्यादौ, प्रकृते च तत् बाधित्वा अर्जनकामनानुवादकत्वे स
एवैको दोषः, कामनायाः प्राप्तत्वेन चाप्रवृत्ति विशेष करोऽनुवादोऽप्यपरो दोष इत्यर्थः ।
सापि च कामना न नियमेन सम्भवति, यतस्सान्द्येत, किन्तु कदाचित् भवति कदाचि-
न्नेति कथमनुवादोऽपि घटत इत्याह - नचेति । तद्भावात् कामनाया अभावात् ।
स्तु पक्षप्राप्ताया एवानुवादः ? तत्राह - नित्यवदिति । नित्येन तुल्यं नित्यवत् तथा
अवणम् । तस्य बाधः अपाक्षिकस्थले यथा श्रवणं तद्वदेवात्रापि श्रूयते, तद्वाभ्येतेत्यर्थः ।
ननु 'श्रीहिभिर्यजेते'त्यादौ ब्रीहीणां इतरनैरपेक्ष्येण श्रुतस्यापि यागकरणत्वस्य
"यवैर्यजेते" ति वाक्यान्तरपर्यालोचनया यथा पाक्षिकत्वमशीक्रियते एवमत्रापि पाक्षि-
क्या एव कामनाया भवत्खनुवादः इत्यत आह - दैक्षस्येति । आामिक्षेति । "वैश्वदे-
व्यामिक्षा" इत्यत्रोत्पत्तिवाक्य विहितेनामिक्षाद्रव्येणावरूद्धे यागे यथा नोसन्नशिष्टस्य
वाजिनस्य निवेशो घटते, तथोत्पत्तिवाक्यविहितपुंस्त्वावरुद्धे यागे स्त्रीत्वविधानं न घटत
इत्यर्थः । ननु उत्पत्तिवाक्ये पशुपदस्यैव श्रवणात् तस्य च स्त्रियामपि प्रयोगसम्भवात्
'छागस्य वपाया मेदसः' इति मन्त्रवर्णे छागपदोत्तरं श्रयमाणस्यापि पुंस्त्वस्थाना-
भ्याघीतेनापि प्रत्यक्षेण विधिना विहितस्त्रीत्वबाघकत्वासम्भवात् भवत्येव स्त्रीत्व विधान
मित्यत आह- कृष्णसारङ्ग इति । एवं च स्त्रीत्वमात्र विधिसम्भवेऽपि प्रातिपदिकार्थस्थ
चित्रत्वस्याप्राप्तत्वात् नानुवादो घटते, प्राकरणिक गुणावरुद्धत्वाच्च न विधिस्सम्भवति ।
वस्तुतस्तु उत्पत्तिवाक्यगतपशुशब्दस्य स्त्रीपुमुभयसाधारण्येऽपि 'प्रजोऽग्नीषोमीय'
इति प्राकरणिकवाक्येन पुंस्त्वस्य विहितत्वात् नानेन स्त्रीत्वविधानं सम्भवति । न च
तस्या जत्वरूपगुण विधायकत्वमेव कुतो न स्यादिति वाच्यम्, तस्य मन्त्रवर्णादेव प्राप्त
त्वात् । 'प्राप्ते शास्त्रमर्थव दिति न्यायात् । अतश्चानर्थ क्यमेवापयेतेति भावः ।
सामान्यशास्त्रेणेति । सामान्यशास्त्रस्य विशेषव्यतिरिक्त विषयत्वस्य दशमाष्टमे निर्णी-
१ कामप.