2023-02-20 11:46:10 by ambuda-bot
This page has not been fully proofread.
व्याख्यातुर्निवेदनम् ।
प्रथेदानीमयमापदेवकृतो न्यायप्रकाशाख्यो मीमांसाप्रकरणप्रन्थो मुद्राप्य प्रकाश्यते
सव्याख्यो मीमांसाशास्त्रं प्रविविक्षणामुपकृतये । सुदृढमिदमभिधातुं शक्यते शास्त्रेऽ.
स्मिन् नैतादृशः प्रकरणग्रन्थोऽध यावत् प्रकाशं नीतः । किं बहुना नाद्याप्येतादृशो ग्रन्थो
विरचित इत्यपि वक्तुं शक्यते । सन्ति च कानिचन प्रकरणानि भाट्टभास्करमुखान्या
यावदमुद्रितानि तानि तु नानेन सह समं सोपानमारोढुं प्रभवन्ति । योऽयमिदानीमु-
पलभ्यतेऽस्माभिरर्थसंग्रहाख्यो प्रत्थः स प्रायेणात्य प्रतिकृतिरेवेति करबदरसमानमेतत् ।
ग्रन्थकृदय मतिकठिनानामपि विषयाणामनतिविस्तृतया हृदयज्ञमयैव शैल्योपपादने विष
यस्यै फस्योपपादनावसरे विषयान्तराणामपि प्रसादानयने चानितरसाधारण नैपुणीमाव
इति । यद्यप्यनेनान तिबृहत्यस्मिन् ग्रन्थे बहवो विषया विचारिताः ये सर्वत्रास्मिन् शास्त्रे
शास्त्रान्तरे चात्यन्तमुपयुक्ताः स्थानान्तरं प्रत्यतिदेशाः तथापि ते प्रायशः पूर्वषट्कान्त-
गंता एव । उत्तरषट्कान्तर्गता ऋतिदेशोहवाधादयोऽस्यल्पमिह निरूपिताः, तेऽपि प्रस-
जादेव । पूर्वषट्केऽपि च प्रथमतृतीयपञ्चमाध्यायीया एव प्राधान्येन निरूपिताः । एव-
श्चात्र ग्रन्थे कियन्ति कानि चाधिकरणान्युपात्तानि केषां चाधिकरणानां निरूपिता विषया
इत्यनन्तरप्रदर्शितया सूच्या व्यक्ती भविष्यति ।
ग्रन्थस्यास्य मूलभूताः ग्रन्थाः
प्रन्थोऽयं तन्त्रवार्तिकादिकान् स्वप्राचीनान् भाट्टमतानुयायिनो ग्रन्थानवलम्ब्य प्रवृ-
तोऽपि प्राधान्येन शास्त्रदीपिकां न्यायरत्नमालां न्यायसुर्धाच राणकापरनामधेयामवलम्ब्यैव
प्रवृत्तः । तेषामेव च सिद्धान्ताः प्रायेणात्र निरूपिताः । तत्रापि मिश्रपार्थसारथिसिद्धान्तेषु
प्रन्थकृतः प्रेमातिशय इत्यवगम्यते । अत एव तत्तद्विषयनिरूपणावसरे प्रथमतो न्याय-
सुधाकृन्मतमुपपादयति, अनन्तरं च सिद्धान्तरूपतया शास्त्रदीपिकाकारमतम् । श्रपि च
"अभ्ये त्वाचार्या प्राहुः ( न्या. प्र. पृ. १३४ ) "अन्ये त्वाचार्या आहुः" (न्या. प्र.
पृ. १५०) इति पार्थसारथिमिश्रानेवाधिकमाचार्यपदेन व्यपदिशन् तत्रैव स्वस्य गौरवाति-
शयमाविष्करोति । न्यायरत्नमालायाः श्रीपार्थसारथिमिश्रकृतायाः न केवलं सिद्धान्तो-
ऽनुसृतोऽनेन, क्वचिच मिश्रपार्थसारथेः पङ्क्तयोऽपि तथैवोद्धृत्य किञ्चिद्विपरिणतिपूर्वकं
ग्रन्थेऽत्र निवेशिताः ।
यथा-
( न्यायरत्नमाला )
a
तत्र विधात्री लिब्ाद्या । अभि
घात्री व्रीह्यादिश्रुतिः । विनियोक्त्री त्रिधा -
एकाभिधानं, एकं पदं, विभक्तिरिति ।
यस्य हि शब्दस्य श्रवणादेव सम्बन्धः
प्रतीयते सा विनियोगश्रुतिः" ( न्या.
र. पृ. १२३ )
( न्यायप्रकाशः >
तत्र विधात्री लिङाद्यात्मिका । अ-
भिधानी व्रीह्यादिश्रुतिः । यस्य च शब्द-
. स्य श्रवणादेव सम्बन्धः प्रतीयते सा
विनियोक्त्री । सा च त्रिघा-विभक्तिरूपा,
समानाभिवानरूपा, एकपदरूपा चेति ।
( न्या. प्र. पृ. २६ )