This page has been fully proofread once and needs a second look.

प्रकृते कर्मणि गुणविधानम्, किन्तु प्राणिद्रव्यके कर्मणि, तत्रास्य वाक्यस्या-
नारभ्याधीतत्वात्, अनारभ्याधीतानां च 'प्रकृतौ वाऽद्विरुक्तत्वात्' इति न्या-
येन प्रकृतिगामित्वात् प्राणिद्रव्यकाणां च[^१] यागानां 'दैक्षस्य चेतरेषु' इति
न्यायेनानीषोमीयप्रकृतिकत्वात्तदनुवादेनानेन वाक्येन गुणो विधीयते।
दैक्षस्य च ज्योतिष्टोमाङ्गत्वेन स्वतन्त्रफलाकाङ्क्षाया अभावात् पशुकामपदं न
फलसमर्पकम; किंतु अग्नीषोमोयपश्वर्जनाङ्गतया प्राप्तकामनानुवादः। तथाच
न वाक्यभेद इति चेत्--
 
तथापि दैज्ञाक्षानुवादेन चित्रश्त्वस्त्रीत्व विधाने वाक्यभेदः । विशिष्टकारकवि-
धानेऽपि गौरवलक्षणोंणो वाक्यभेद व। कारकस्यापि प्राप्तत्वेन विशिष्ट विधाना-
 
[commentary]
 
नीला देरेवानुगतप्रतीति विषयत्वसम्भवात् न रूपत्वातिरिका नीलस्त्वादिजा तिरङ्गी कर्तव्या
इत्येकं मतम् । अत एव वार्तिककृता शब्दनित्यत्वाधिकरणे-
-
 
"एतयैव दिशा वाच्या शुक्लादेरपि नित्यता
संसर्गमात्रभेदेन स्यात् तत्रापि हि भेदधीः
स्वरूपं तु तदेवेति को जातितिं कल्पयिष्यति"

इस्युक्तम् । अस्मिन् पक्षे चित्रत्वमित्यस्य चित्रगुणविशिष्टत्वमित्यर्थः । तच्च चित्रगुण
एव पर्यवस्यति । यदि तु नीलादिगुणानां भिन्नत्वमनिस्त्यत्वं चेति नैयायिकमत एवाग्रहः
तर्हि चित्रत्वेत्यस्य रूपत्वव्याप्यचित्रत्वजा तिरेवार्थः इति बोध्यम् । अस्य वाक्यस्य
चित्रावाक्यस्य । ननु प्राणिद्रव्य कस्यापि प्रकृतिविकृत्युभयात्मकस्य कर्मणो बहुत्वात्
कुत्रास्य निवेश इत्याशङ्कायामाह-अनारभ्याघीधीतत्वादिति । अनारम्याघीभ्याधीतानां
प्रकृतिगामित्वं दैक्षस्य सर्वपशुयागप्रकृतित्वं च पूर्वमेव निरूपितम् । ननु अग्नीषोमीय-
पश्वनुवादेन चित्रगुणसम्बन्धः पशुरूपफल सम्बन्धश्च विधेय इति पूर्वोक्तदोषतादवस्थ्य मि
व्यतात्यत आ - --दैक्षस्येति । 'इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्या' दिति प्रपूर्व-
सुत्रात् प्रवृत्तिरित्यनुषज्यते । इतरेषु सवनीयादिषु पशुयागेषु, दक्षस्थायाग्नीपोमौषोमीयस्य
पशोः अज्ञाङ्गानां प्रवृत्तिः स्यादिति सूत्रार्थः । स्वतन्त्रफलाकाङ्क्षाया अभावादिति
प्रधानफले नै वास्यापि फलवत्वलाभादिति भावः । एवं तर्हि पशुकामपदस्य वैयर्थ्यापत्ति-
रित्यत ग्आह प्राह प्राप्तका मनेति । अर्जनाङ्गतयेति । नात्र 'उद्भिदा यजेत पशुकामः'
इत्यादिवत् पशुकामपदं फलत्वेन साध्यतापन्नपशुबोधकम्। किन्तु यागाङ्गत्वेन विहित-
पशुसम्पादनाय या पशुविषयिणीच्छा तद्बोधकम् । तस्याश्च पूर्वमेव प्राप्तवात् तदनुवादः
परमत्र क्रियत इति नानेकविधानकृतदोष इति भावः
यद्यप्यस्मिन् पतेक्षे न तथापि प्रकारान्तरेणापतन् वाक्यमेदो दुरुद्धर
एवेत्याह - --तथापोति । ननु नास्मामिः पृथक पृथक् चित्रत्वस्त्रीस्वयोर्विधिरङ्गीक्रियते,
यतो वाक्यभेद श्राशङ्क्येत, किन्तु "धेनुर्दक्षिणे" तिवत् प्राप्तकर्मानुवादेन चित्रत्व-
विशिष्टैककरण कारकस्यैव तृतीयोपात्तस्य विधानमङ्गीक्रियते, तदा न भविष्यति वाक्य-
भेदः इत्याशङ्कयाह - -विशिष्टकारकविधानेऽपोति पीति। अस्तु गौरवलक्षणो वाक्यभेदः,
 
J
 
वाक्यभेदः,

 
[^१] 'यागानां' नास्ति. क.