2023-02-20 11:47:33 by ambuda-bot
This page has not been fully proofread.
१२६
मोमांसान्यायप्रकाशः
[ कर्मनामधेय-]
न तावत्र गुणविशिष्टयागविधानं संभवति, 'दधि मधु घृतं पयो धाना
उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यम्' इत्यनेन विहितत्वाद्यागस्य विशिष्टवि
धानानुपपत्तेः । (१) प्राप्तस्य च यागस्य फललम्बन्धे गुणसंबन्धे च विधीय-
माने वाक्यभेदः ।
अथ चित्राशब्दात् चित्रत्व स्त्रीत्वयोः प्रतिपत्तेः स्त्रोत्वस्य च स्वभावतः
प्राणि धर्मत्वात् प्रकृते दध्यादिद्रव्यके कर्मणि निवेशायोगान्नानेन वाक्येन
चित्रावाक्ये
नामधेयत्वाङ्गोकरणमित्याशङ्कअनूद्य परिहर्तुमारभते-न तावदित्यादिना ।
गुणविशिष्टयागविधानमिति । चित्ररव स्त्रीत्वावच्छिन्नद्रव्यविशि.
ष्टय यागस्य विधानमित्यर्थः । ननु गुण विशिष्टयागविधानाङ्गीकारेऽपि चित्रापढ़ें
मत्वर्थलक्षणाङ्कीकारापत्त्या ततो नामधेयत्वाङ्गीकरणस्यैव युतत्वात् पूर्वोक्त विषयत्व
मेवास्यापतितमिति कथं ततः पृथगुक्तिरिति चेत् - न; ये शब्दाः क्वचिदप्यर्थविशेषे
न रूढाः उभयत्र तुल्यववृत्तिकाः त एवं पूर्वोद हरण विषयाः, न त्वर्थविशेषे
रूढाश्चित्रादिशब्दाः, अत एव सोमादिशब्दाना मर्थविशेषे रूढत्वादेवागत्या मत्वर्थ-
लक्षणामप्यङ्गीकृत्य विशिष्टविधिरेवाश्रितः, अतश्च युक्तैव पृथगुक्तिः । मधु माक्षि
कम्, धानाः भ्रष्टाः यबतण्डुलाः । तदिति दध्यादिद्रव्य सप्तकपरामर्शि, मिंश्रितद-
ध्यादिसमुदायः प्रजापतिदेवताक इत्यर्थः । विहितत्वात् यागस्यत्येकवचनं प्रयुक्त.
वतः प्रन्थकारस्यात्र न्यायसुधाकृमिमतः दध्याद्यनेकद्रव्य कैकयागपक्ष एवाभिप्रेत
इत्यवगम्यते । नवीनास्तु - "सप्तदश प्राजापत्या" नित्यादिवत् अत्राप्यनेकया गपक्ष..
मेवानी कुर्वन्ति । अत्र चैकयागपक्षनिराकरण पूर्व कमने कया गपक्ष स्थिरीकरणं कौस्तुभे
चित्राधिकरणे द्रष्टव्यम् । विस्तरभयान्नेह प्रपञ्च्यते । ननु अनुमत्यादिवाक्यैः पृथक्
पृथक् स्वरूपतः प्राप्तानामपि कर्मणां "राजा राजसूयेन स्वाराज्यकामो यजेत"
इत्यनेन राजकर्तृविशिष्टत्वेन यथा फले विधानम् तद्वदत्रापि प्राप्तस्यापि कर्मण: पुनर्गुण-
विशिष्टत्वेन फलोद्देशेन विधानमस्वित्यताह-प्राप्तस्येति । वाक्यमेद इति । श्रयं
भावः - एकादशे हि द्रव्यदेवतादीनां उत्पत्तिविध्यन्वयित्वम् देशकाल कर्त्रादीनां च
प्रयोगान्वयित्वम् । तद्यत्रोत्पत्स्यन्वयिगुणः श्रूयते तत्र कर्मणामुत्पत्तिविधिः, यत्र च प्रयो
गान्वयिगुणः श्रूयते तत्र प्रयोगविधिश्चाङ्गीक्रियते । अत एव च यत्र वाक्यद्वये प्रयोगा-
न्वयिगुणश्रवणं तत्र विनिगमना विरहादुभयन्त्र प्रयोगविधिः, तत्राविरोघे समुच्चयः, विरोधे
विकल्प इत्यादि स्पष्टमुपपादितम् । अत एव च राज्ञः प्रयोगान्वयिगुणस्वात् युज्यते
तत्रोलन्नस्यापि कर्मणः पुनः प्रयोगविधिः, प्रकृते तु चित्रत्वस्य प्रयोगान्वयित्वासम्भवात्
न तद्विशिष्टप्रयोगविधिस्सम्भवतीत्युभयोविंधाने वाक्यमेदो दुष्परिहर इति ।
2
पूर्वपक्षी प्रकारान्तरेण गुणविधित्वं साधयितुमुपक्रमते- अथेति । चित्रत्व स्त्रीत्व
योरिति । प्रकृत्यंशेन चित्रत्वस्य टाबंशेन स्त्रीत्वस्य च प्रतिपत्ते रित्यर्थः । अत्र च नीला.
दिव्यक्तेरेकत्वं नित्यत्वं च श्रयं शुक्नोऽयमपि शुक्लः इत्यादिभेदप्रतीतिस्तु विभिन्नगुणाश्र
यमैदाधीनः, एवमेवातिनीलः ईषन्नीलः इत्यादिप्रतीतिरप्याश्रयभेदकृत एव । एवञ्च
१. 'प्राप्तस्य' नास्ति. क.
3