This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सार विवेचिनीव्याख्यासंचलितः
 
१२५
 
लतायां रूढत्वेन यागनामधेयत्वानुपपत्ते
रगत्या लक्षणाश्रयणात् । उद्भिच्छ-

ब्दस्य तु नैवं वाच्योऽर्थः कश्चित्प्रसिद्धः । उद्भिद्यतेऽनेनेति योगस्य तु गुण

इव यागेऽपि फलोद्भेदनकारिराण्युपपत्तेः । तत्सिद्धमुद्भिच्छन्ब्दस्य मत्वर्थल
-
क्षणाभयाद्यागनामधेयत्वम्
 

 
( वाक्यभेदभयात् कर्मनामधेयत्वनिरूपणम् )

'चित्रया यजेत पशुकामः' इत्यत्र चित्राशब्दस्य वाक्यभेदभयात् कर्म-

नामधेयत्वम् । तथा हि-
-
 
[commentary]
 
दस्य कर्मनामधेयत्वमेवानीङ्गीक्रियता मित्याशङ्कते- न चैवमिति । लतायां रूढत्वेनेति

उक्तं हि भाष्यकृता- 'सोमशब्दः क्षोषीरिण्यां लतायां प्रसिद्धः' इति,
 

 
"श्यामलाऽस्म्ला च निष्पत्रा क्षीरिणी त्वचि मांसला

श्लेष्मला वमनी वल्लोली सोमाख्या छागभोजनम् "

 
इति चान्यत्र । अयं भावः - --प्रसिद्धस्यैव पदस्य प्रसिद्धपदसमभिव्याहारेणार्थनि
-
र्णयः क्रियते। नतु प्रसिद्धमपि पदं समभिव्याहारमात्रेण लाघवादिना वा स्वार्थादपकृष्यते
 

 
"पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथकक्षुति ।
 
क्श्रुति।
निर्गीणीयते निरूढं तु न स्वार्थादपनीयते"
 

 
इति न्यायात् । अतश्च दघिधिसोमादीनामर्थविशेषेऽत्यन्तरूढत्वेन यजिसामानाधिक-

रण्यस्यैवाभावेन नामधेयश्त्वाङ्गीकरणं सुदुष्करमिति गत्यन्तराभावात् लक्षणैवाश्रितेति
प्र

गत्येति । नामधेयस्त्वाङ्गीकरणरूपगतेरभावादिस्त्यर्थः । नन्वेवं उद्भिच्छब्दस्याप्यवयव -

शक्त्या खनित्रादौ रूढत्वात् यजिसामानाधिकरण्याभावेन यागनामधेयत्वं न स्यात् इत्यत

आह--उद्भिद्यत इति । 'भिदिर् विदारणे' इत्यनेन उत्पूर्वक भिद्धातोः ऊर्ध्वविदार
-
णरूपार्थकत्वावगमेऽपि बाधातू ना नामनेकार्यश्थत्वात् "वैडूर्यभूमेर्नवमेघशब्दादु द्भिनया
न्नया रत्नशलाकयेव" इति प्रयोगात् उत्पादनार्थकत्वस्याप्यवगतेः येनैव रूपेण फलोत्पाद
-
कस्वरूपेण गुणे वृत्तित्वं, तेनैव योगेन कर्मण्यपि प्रवृत्तिसम्भवात् दध्यादिपदवत् अर्थवि-

शेषे रूढ्यभावात् श्रप्रसिद्धार्थकस्य तस्य यजिसामानाधिकरण्येन लाघवानुगृहीतेनः कर्म०
नां
न कर्म-
ना
मधेयत्वाशीङ्गीकरणमेव युक्तमिति भावः । यथोक्तम्-
-
 
विशिष्टविधिपक्षे तु भवेन्मर्थत्वलक्षणा
 

सोमादौ गत्यभावात् सा न त्वत्र गतिसम्भवात् ॥ इति ।

 
एवञ्च विशिष्टविण्ध्यङ्गीकारे मत्वर्थलक्षणारूपदोषापत्त्या तत्परिहारार्थमेवोद्भित्सदस्य
पदस्य
कर्मनामधेयत्वाशी
ङ्गीकरणमित्युपसंहरति- तत्सिद्धमिति ॥
 

 
( वाक्यभेदभयात् कर्मनामधेयत्वनिरूपणम् )
 

 
इदानीं यत्र वाक्यमेदभयात् कर्मनामस्त्वं तदुपपादयति - -चित्रयेति । विचित्रद्रव्य-

कत्वात् चित्रासंज्ञकयेष्टया पशुरूपं फलं भावयेत् इति वाक्यार्थः । ननु चित्राशब्दस्य

चित्रगुणवाचकत्वेन लोके प्रसिद्धत्वात् तादृशगुण विशिष्टकर्मान्तरमेव विधीयताम् । अथ

वा यत्र कर्मणि द्रव्यमपि प्राप्तं तत्र तदनुवादेन चित्रत्वरूपो गुणो विधीयताम् । प्राप्तः

कर्मानुवादेन गुणमात्रविधाने वाक्यमेदोऽपि न भवतीति किमर्थं प्रवृत्तिविशेषानापादक-