This page has not been fully proofread.

निरूपणम् ]
 
सार विवेचिनीव्याख्यासंचलितः
 
१२५
 
लतायां रूढत्वेन यागनामधेयत्वानुपपत्ते
रगत्या लक्षणाश्रयणात् । उद्भिच्छ-
ब्दस्य तु नैवं वाच्योऽर्थः कश्चित्प्रसिद्धः । उद्भिद्यतेऽनेनेति योगस्य तु गुण
इव यागेऽपि फलोद्भेदनकारिरायुपपत्तेः । तत्सिद्धमुद्भिच्छन्दस्य मत्वर्थल
क्षणाभयाद्यागनामधेयत्वम् ॥
 
( वाक्यभेदभयात् कर्मनामधेयत्वनिरूपणम् )
'चित्रया यजेत पशुकामः' इत्यत्र चित्राशब्दस्य वाक्यभेदभयात् कर्म-
नामधेयत्वम् । तथा हि-
दस्य कर्मनामधेयत्वमेवानीक्रियता मित्याशङ्कते- न चैवमिति । लतायां रूढत्वेनेति ।
उक्तं हि भाष्यकृता- 'सोमशब्दः क्षोरियां लतायां प्रसिद्धः' इति,
 
"श्यामलाऽस्ला च निष्पत्रा क्षीरिणी त्वचि मांसला ।
श्लेष्मला वमनी वल्लो सोमाख्या छागभोजनम् ॥
इति चान्यत्र । अयं भावः - प्रसिद्धस्यैव पदस्य प्रसिद्धपदसमभिव्याहारेणार्थनि
र्णयः क्रियते। नतु प्रसिद्धमपि पदं समभिव्याहारमात्रेण लाघवादिना वा स्वार्थादपकृष्यते ।
 
"पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथकक्षुति ।
 
निर्गीयते निरूढं तु न स्वार्थादपनीयते"
 
इति न्यायात् । अतश्च दघिसोमादीनामर्थविशेषेऽत्यन्तरूढत्वेन यजिसामानाधिक-
रण्यस्यैवाभावेन नामधेयश्वाङ्गीकरणं सुदुष्करमिति गत्यन्तराभावात् लक्षणैवाश्रितेति ।
प्रगत्येति । नामधेयस्वाङ्गीकरणरूपगतेरभावादिस्यर्थः । नन्वेवं उद्भिच्छब्दस्याप्यवयव -
शक्त्या खनित्रादौ रूढत्वात् यजिसामानाधिकरण्याभावेन यागनामधेयत्वं न स्यात् इत्यत
आह—उद्भिद्यत इति । 'भिदिर विदारणे' इत्यनेन उत्पूर्वक भिद्धातोः ऊर्ध्वविदार
णरूपार्थकत्वावगमेऽपि बातू ना मनेकार्यश्वात् "वैडूर्यभूमेर्नवमेघशब्दादु द्भिनया
रत्नशलाकयेव" इति प्रयोगात् उत्पादनार्थकत्वस्याप्यवगतेः येनैव रूपेण फलोत्पाद
कस्वरूपेण गुणे वृत्तित्वं, तेनैव योगेन कर्मण्यपि प्रवृत्तिसम्भवात् दध्यादिपदवत् अर्थवि-
शेषे रूढ्यभावात् श्रप्रसिद्धार्थकस्य तस्य यजिसामानाधिकरण्येन लाघवानुगृहीतेनः कर्म०
नांमधेयत्वाशीकरणमेव युक्तमिति भावः । यथोक्तम्-
विशिष्टविधिपक्षे तु भवेन्मर्थत्वलक्षणा ।
 
सोमादौ गत्यभावात् सा न त्वत्र गतिसम्भवात् ॥ इति ।
एवञ्च विशिष्टविण्यङ्गीकारे मत्वर्थलक्षणारूपदोषापत्या तत्परिहारार्थमेवोद्भित्सदस्य
कर्मनामधेयत्वाशी
करणमित्युपसंहरति- तत्सिद्धमिति ॥
 
( वाक्यभेदभयात् कर्मनामधेयत्वनिरूपणम् )
 
इदानीं यत्र वाक्यमेदभयात् कर्मनामस्वं तदुपपादयति - चित्रयेति । विचित्रद्रव्य-
कत्वात् चित्रासंज्ञकयेष्टया पशुरूपं फलं भावयेत् इति वाक्यार्थः । ननु चित्राशब्दस्य
चित्रगुणवाचकत्वेन लोके प्रसिद्धत्वात् तादृशगुण विशिष्टकर्मान्तरमेव विधीयताम् । अथ
वा यत्र कर्मणि द्रव्यमपि प्राप्तं तत्र तदनुवादेन चित्रत्वरूपो गुणो विधीयताम् । प्राप्तः
कर्मानुवादेन गुणमात्रविधाने वाक्यमेदोऽपि न भवतीति किमर्थं प्रवृत्तिविशेषानापादक-