This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
याभिहितस्य करणकारकस्य क्रियान्वययोग्यस्य करणत्वेनान्वयायोग्य.
-
त्वात् । करणशब्देनाभिहितं हि करणकारकं तत्त्वेनान्वययोग्यं न तृती-

याभिहितम् । करणशब्दादिव तृतीयातस्तृतीयोत्पत्तिप्रसङ्गात् । अतश्च कर.
-
णत्वेनान्वययोग्यगुणनिष्ठकरणखोत्वोपस्थितिर्लक्षणयैव वाच्या
 
१२३
 

 
लक्षणया चोपस्थित करणत्वस्य करणीभूतस्य वा गुणस्य फलभा-

वनायां यत्करणत्वं तदपि लक्षणयैव वाच्यम्, श्रूयमाणया तृतीयया गुण-

मात्रस्य यागं प्रति करणत्वाभिधानात्
 

 
अतएव (२) [^१]तन्त्ररत्ने चतुर्थीथे करणीभूतगोदोहनादेः पश्वर्थत्वं समभिव्याहा-

 
[commentary]
 
करणत्वस्य कारकत्वावश्यंभावात् कारकस्य च तस्य क्रियाभिनेन करणत्वेनान्यो न

सम्भवतीति भावः । करणकारकस्येति । करणत्वरूपं यत् कारकं तस्येत्यर्थः । ननु

नायं नियमस्सम्भवति, बाणेन करणेन हृतः, दध्ना करणेन होमः सम्पाद्यते, इत्यादी
दौ
करणकारकस्यापि क्रियाभिन्नेन करणत्वेनान्वयस्य शतशस्स्वीकारात्, अत आइ-कर-
ह-कर-
शब्देनेति । सत्यमङ्गीक्रियते, परन्तु तन्न तृतीयाभिहितम्, किन्तु करण शब्दाभि-

हितम् । करणशब्देन हि कृदन्तेन द्रव्योपसर्जनीभूतस्यैव करण कारकस्याभिघाधानात् युक्तः

तस्य
पदार्थान्तरेणाप्यन्वयः । तृतीयया तु अन्यानुपसर्जनीभूतस्यैव तस्याभिघानात् न
धानात् न
तस्य क्रियातिरिक्तेनान्वयस्सम्भवतीत्यर्थः । तथात्वे अनिष्टमापादयति- करणशब्दा-

दिति । अतोऽपरिहार्या लक्षणेत्युपसंहरति-अतश्चेति
 
-
 

 
एवं गुणनिष्ठ करणत्वस्य प्रतीतिर्लक्षणयैव भवितुमर्हतीति निरूप्य तादृशकराव-
रणत्व-
स्यान्वययोग्यं यत् करणत्वं तस्याप्युपस्थितिर्लक्षणयैव वक्तव्येत्या - ह-लक्षणयेति

ननु गुणफल सम्बन्ध विधिस्थले तृतीयावगतकरणत्वस्य धात्वर्थनिरूपितत्वे गुणस्य तत्क-
रा

रण
त्वस्य वा यत्फलभावनाकरणत्वं तद्द्बोकस्य शब्दस्याभावात् तत्प्रतीतिरेव न स्यात्,

न हि तृतीया तल्लक्षिका, तथा गुण निष्ठ करणत्वस्य लक्षितत्वेन लक्षणाद्वयासम्भवात्,

इत्यता त आह--अत एवेति । एतादृशदोषभियैवेत्यर्थः । गोदोहनादेरिति । "गोदो-

हनेन पशुकामस्य प्रणयेत्" इत्यादिना विहितानां गोदोहनादीनां गुणानामित्यर्थः

दर्शपूर्णमा सप्रकरणे- 'चम सेनापः प्रणयेत्' इति अप्प्रणयनाङ्गत्वेन चमसाख्यः पात्र विशेषो

दारूरुनिर्मितो विहितः । यदि पशुरूपफलेच्छा, तदा तदेव प्रणयनं गोंगोदोहनेन कर्तव्यमिति,

यस्मिन् पाने गौदु॑र्दुह्यते तत्पात्रं गोदोहनशब्दार्थः । पश्चर्थत्वं पशुरूपफलार्थत्वम्

समभिव्याहारादिति । अयं हि तत्रव्त्यो प्ग्रन्थः- "यद्यपि पशुकामपदसमभिव्या-

हारात् पुरुषार्थत्वं तस्य, तथापि क्रत्वर्थप्रणयनाश्रयणात् तन्मुखेन क्रतूपका-

रकत्वं तावदवश्याङ्गोगीकर्तव्यम्" इति । एवञ्च लक्षणातो बिभ्यद्भिरेव तन्त्ररत्न का रैः

गुणफलसम्बन्धविधिस्थले गुणस्य फलाङ्गता समभिव्याहारेणेत्युक्तमिति भावः । अत-

श्रोचोद्भिच्छब्दस्य गुणसमर्पकत्वे तद्वाक्यस्य गुणफल सम्बन्ध विधायकत्वाङ्गीकारापातात्

तत्र च धातुपारार्थ्यादिदोषबहुत्वात् तदपेक्षया वरं गुण विशिष्टघाधात्वर्थविधिस्वीकरण मि
-
 
 
[^
.] *तन्त्ररत्नम् भी* श्रीपार्थसारथिमिश्रकृतो व्याख्यान विशेषः श्रीकुमारिलस्वामिकृतायाः टुपूटीकायाः
 
D
 
-