2023-02-20 11:47:32 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोव्याख्यासंवलितः
याभिहितस्य करणकारकस्य क्रियान्वययोग्यस्य करणत्वेनान्वयायोग्य.
त्वात् । करणशब्देनाभिहितं हि करणकारकं तत्त्वेनान्वययोग्यं न तृती-
याभिहितम् । करणशब्दादिव तृतीयातस्तृतीयोत्पत्तिप्रसङ्गात् । अतश्च कर.
णत्वेनान्वययोग्यगुणनिष्ठकरणखोपस्थितिलक्षणयैव वाच्या ।
१२३
लक्षणया चोपस्थित करणत्वस्य करणीभूतस्य वा गुणस्य फलभा-
वनायां यत्करणत्वं तदपि लक्षणयैव वाच्यम्, श्रूयमाणया तृतीयया गुण-
मात्रस्य यागं प्रति करणत्वाभिधानात् ।
अतएव (२) तन्त्ररत्ने चतुर्थी करणीभूतगोदोहनादेः पश्वर्थत्वं समभिव्याहा-
करणत्वस्य कारकत्वावश्यंभावात् कारकस्य च तस्य क्रियाभिनेन करणत्वेनान्धयो न
सम्भवतीति भावः । करणकारकस्येति । करणत्वरूपं यत् कारकं तस्येत्यर्थः । ननु
नायं नियमस्सम्भवति, बाणेन करणेन हृतः, दध्ना करणेन होमः सम्पाद्यते, इत्यादी
करणकारकस्यापि क्रियाभिन्नेन करणत्वेनान्वयस्य शतशस्वीकारात्, अत आइ-कर-
शब्देनेति । सत्यमङ्गीक्रियते, परन्तु तन्न तृतीयाभिहितम्, किन्तु करण शब्दाभि-
हितम् । करणशब्देन हि कृदन्तेन द्रव्योपसर्जनीभूतस्यैव करण कारकस्याभिघानात् युक्तः
पदार्थान्तरेणाप्यन्वयः । तृतीयया तु अन्यानुपसर्जनीभूतस्यैव तस्याभिघानात् न
तस्य क्रियातिरिक्तेनान्वयसम्भवतीत्यर्थः । तथात्वे अनिष्टमापादयति- करणशब्दा-
दिति । अतोऽपरिहार्या लक्षणेत्युपसंहरति-अतश्चेति ।
-
एवं गुणनिष्ठ करणत्वस्य प्रतीतिर्लक्षणयैव भवितुमर्हतीति निरूप्य तादृशकराव-
स्यान्वययोग्यं यत् करणत्वं तस्याप्युपस्थितिर्लक्षणयैव वक्तव्येत्या - लक्षणयेति ।
ननु गुणफल सम्बन्ध विधिस्थले तृतीयावगतकरणत्वस्य धात्वर्थनिरूपितत्वे गुणस्य तत्क-
रात्वस्य वा यत्फलभावनाकरणत्वं तद्द्बोषकस्य शब्दस्याभावात् तत्प्रतीतिरेव न स्यात्,
न हि तृतीया तल्लक्षिका, तथा गुण निष्ठ करणत्वस्य लक्षितत्वेन लक्षणाद्वयासम्भवात्,
इत्यता त एवेति । एतादृशदोषभियैवेत्यर्थः । गोदोहनादेरिति । "गोदो-
हनेन पशुकामस्य प्रणयेत्" इत्यादिना विहितानां गोदोहनादीनां गुणानामित्यर्थः ।
दर्शपूर्णमा सप्रकरणे- 'चम सेनापः प्रणयेत्' इति अप्प्रणयनाङ्गवेन चमसाख्यः पात्र विशेषो
दारूनिर्मितो विहितः । यदि पशुरूपफलेच्छा, तदा तदेव प्रणयनं गोंदोहनेन कर्तव्यमिति,
यस्मिन् पाने गौदु॑ह्यते तत्पात्रं गोदोहनशब्दार्थः । पश्चर्थत्वं पशुरूपफलार्थत्वम् ।
समभिव्याहारादिति । अयं हि तत्रव्यो प्रन्थः- "यद्यपि पशुकामपदसमभिव्या-
हारात पुरुषार्थत्वं तस्य, तथापि ऋत्वर्थप्रणयनाश्रयणात् तन्मुखेन ऋतूपका-
रकत्वं तावदवश्याङ्गोकर्तव्यम्" इति । एवञ्च लक्षणातो बिभ्यद्भिरेव तन्त्ररत्न का रैः
गुणफलसम्बन्धविधिस्थले गुणस्य फलाङ्गता समभिव्याहारेणेत्युक्तमिति भावः । अत-
श्रोद्भिच्छब्दस्य गुणसमर्पकत्वे तद्वाक्यस्य गुणफल सम्बन्ध विधायकत्वाङ्गीकारापातात्
तत्र च धातुपारार्थ्यादिदोषबहुरवात तदपेक्षया वरं गुण विशिष्टघात्वर्थविधिस्वीकरण मि
१. *तन्त्ररत्नम् भीपार्थसारथिमिश्रकृतो व्याख्यान विशेषः श्रीकुमारिलस्वामिकतायाः टुपूटीकायाः ।
D