This page has been fully proofread once and needs a second look.

१२२
 
मीमांसान्यायप्रकाशः
 
[ कर्मनामधेय-
पद्यते स आश्रयः, तत्त्वं बाचाश्रयत्वम् । करणाचं। करणत्वं च निष्कृष्टा शक्ति

रिति लाघवम्
 

 
किञ्च गुणफलसम्बन्धविधाने करणीभूतोंतो गुणः तन्निष्ठं वा करणत्वं

फलोद्देशेन विधेयम् । तत्राद्ये पक्षे करणत्वस्य गुणोपसर्जनत्वेन प्रती
-
तिर्लक्षणयैव वाच्या । तस्य तृतीया प्रत्ययार्थत्वात् प्राधान्येनोपस्थितेः
 

 
यदापि गुणनिष्ठं करणत्वं फलोद्देशेन विधेयं तदापि फलभावना-

यां करणत्वेनान्वययोग्य गुणनिष्ठ करणत्वोपस्थितिर्लक्षणयैव वाच्या । तृती-

 
[commentary]
 
निरूपितपूर्वमिदम् । निष्कृष्टेति । "विभक्तयो हि कारकशक्तितिं निष्कृष्याभिधाय

क्रियां विशिशिंषन्ति" "कारकं चाभिदधत् प्रत्ययः शक्तिमात्ररूपेणाभिदध्यात्,

न द्रव्यरूपेण; तस्याकारकत्वात् । यस्यापि द्रव्यं कारकं तेनापि शक्तिविशेषण-
स्

त्
वेनावश्यमभ्युपगन्तव्या। तद्रहितद्रव्यव्यापारासम्भवात् । ततश्चाकृत्यधि-

करणात् शक्तेरेवाभिधानम्" इति "तस्मात् शक्तिमद्रव्यकारकपक्षेऽपि

अवश्यं निष्कृय शक्तिमात्रं सुप्तिङ्भ्यामभिधेयम्" इति च वार्तिकोक्त्या

तृतीयादिविभकत्यभिहितानां करणत्वादिरूपकारकाणां निष्कृष्टाखण्डशक्तिरूपत्वावगमात्

तस्याश्च फलोद्देश्य कगुणनिष्ठ करणता निरूपक त्वरूप निर्वचनसापेक्षाश्रयत्वापेक्षया अत्यन्त-

लघुभूतस्त्वादिस्त्यर्थः
 
,
 

 
करणीभूत इति । दध्नेति तृतीयान्तं दघिधिपदमत्र श्रूयते । तत्र प्रकृत्यर्थो दधिरूपो

गुणः, प्रत्ययार्थः करणत्वम्, तत्र प्रत्ययार्थस्य प्रकृत्यर्थगुणोपसर्जनत्वेनान्वयमङ्गीकृत्य
करणत्व

करणत्व
विशिष्टस्य दग्ध्नः फलभावनाकरणत्वेनान्वयः, अथ वा प्रकृत्यर्थस्य दध्नः प्रत्यया.
-
र्थ करणत्वेऽन्वय ञ्जीङ्गीकृत्य दघिनिष्ठकरणत्वस्य फलभावनाकरणत्वेनान्वय इति द्वेधाप्य
-
न्वयो भवतानीङ्गीकर्तुं शक्यः इत्यर्थः । तन्निष्टंठं गुणनिष्ठम् । तत्र द्वयोरन्वययोर्मध्ये । आद्यं

पक्षं दूषयति मा-आद्य इति । गुणोपसर्जनत्वेन प्रकृत्यर्थरूपद्रव्यादिविशेषणश्त्वेन । तस्य
करणस्वस्य
। तस्य
करणस्वस्य
। प्राधान्येनेति । "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः तयोस्तु

प्रत्ययः प्राधान्येन" इति स्मृत्या प्रत्ययार्थस्य प्राधान्यस्मरणादिति भावः । एवञ्च

प्राधान्येनोपस्थितियोग्यस्य करणत्वस्यान्योपसर्जनत्वेनोपस्थितिर्लक्षणामन्तरा न सम्भव-

तीत्यवश्यमङ्गीकार्या लक्षणेति भावः
 

 

 
यद्येवं तर्ह्यस्तु द्वितीयः पक्षः, तत्र करणत्वस्य गुणोपसर्जनस्त्वाभावेन प्राधान्येनैवो
-
पस्थितेः लक्षणाया अभावात् इत्यत श्राह- यदापीति । सत्यं करणत्वस्य गुणोपसर्ज
-
नत्वं नास्ति, तथापि तृतीयाभिहितकरणत्वस्य कारकत्वात्, कारकस्य च साक्षात् क्रिय.
-
यैवान्वयस्य व्युत्पन्नत्वेन करणत्वेनान्वययोग्य करणत्वस्य तृतीयातः उपस्थितिर्लक्षणाम.
-
न्तरा न सम्भवतीत्यस्मिन्नपि पक्षे लक्षणा दुर्वारेत्या- ह-तदापीत्यादि । ननु तृती.
-
यया शक्त्याभिहितस्यैव करणत्वस्य करणत्वेनान्वयो भवतु, किमर्थं लक्षणेत्यत ग्राह-

तृतीयेति । "कारके" इत्यधिकृत्य "साधकतमं करणम्" इति करण संज्ञा विधा-

नातूत्, तत्र च "कर्तृकरणयोस्तृतीया" इति तृतीयाविधानात् तादृशतृतीयाभिहितस्य
 
6
 
6