This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ नामधेय -
 
(मस्वर्थलक्षणा भयात् कर्मनामधेयत्व निरूपणम् )...
तत्र "उद्भिदा यजेत पशुकाम" इत्यत्र उद्भिच्छन्दस्य यागनामधेयत्वं
मत्वर्थलक्षणाभयात् । तथा हि-fo
 
उद्भिच्छन्दस्य गुणसमर्पकत्वे यागानुवादेन तावत्र (१) गुणविधानं
युज्यते, फलपदानर्थक्यापत्तेः । न चानेन वाक्येन फलं प्रति यागविधानं
(२) तस्मिंश्च गुणविधानं युज्यते, वाक्यभेदापत्तेः ।
 
नापि गुणफलसम्बन्धविधानं सम्भवति, परपदार्थविधानेन विप्रकृष्टा
 
१२०
 
( मस्वर्थ लक्षणा भयात् कर्मनामधेयत्व निरूपणम् )
 
तंत्र तावत् प्रथमं निमित्तमुदाहरति-उद्भिदेति । उद्धि संज्ञकेन यागेन पशुरूपं
फलं
भावयेदिति वाक्यार्थः । नन्वत्र उद्भिच्छन्दस्य गुणसमर्पकत्वे सम्भवति किमर्थम प्रवृत्ति-
विशेषकरनाम घेयत्वाङ्गीकरणमित्यत श्राइ- मत्वर्थलक्षणाभयादिति । गुणविधित्व-
स्वीकारे मत्वर्थ लक्षणाजीकरणरूपो यो दोषः तद्भयादित्यर्थः । गुणसमर्पकत्वे मत्वर्थ:
लक्षणारूपदोषापत्तिमेवोपपादयति-तथा हीति ।
 
उद्भिद्यते उर्ध्वं विदार्यते भूमिरनेनेति व्युत्पत्या भूमेरूवं विदारण साधनं खनि
श्रादिः पूर्वपक्षेऽथ वेदितव्यः । यागानुवादेनेति । सोमेन यजेतेत्यनेन यो विंडितो
ज्योतिष्टोमः तदुद्देशेनेत्यर्थः । यद्यपि ताण्डके षष्ठेऽध्याये श्रग्निष्टोमंविधानात् एकोनविंशे
चोद्भिद्वलभिदादीनां द्वन्द्वानां ऋतूनां विधानात् मध्ये च साद्यस्कादीनां बहूनां क्रतूनां
विधानेन तैः व्यवधानात् अत्र प्रकरणशव नोदेतीत्यप्रकृतस्य यागस्योद्देश्यत्वकथनं न
युक्तम्, तथापि षष्ठे विहितस्याप्यग्निष्टोमस्य दक्षिणा दिविधानार्थं षोडशेऽध्याये पुनरु-
पादानात् तदुत्तरपठिताना मेकाहादीनामप्युदाहरणस्वा दुपस्थितिरस्ती त्यभिन्धायेदमुक्तं वा-
त्तिकादौ; तदेवात्रापि ग्रन्थकृतानूदित मिति वेदितव्यम् । फलपदानर्थक्यापत्तेरिति ।
यागानुवादेन गुण विधाने यागस्यैवोद्देश्यत्वेन फलस्य तदनापत्या तस्याप्युद्देश्यत्वानी कारे
वा कोद्देश्यत्व निबन्धनवाक्यमेदापत्या परिशेषात् फलपदस्यानर्थक्यमेवापाद्येतेति
मावः । नन्वेवं तर्हि वाक्यस्यास्य गुणसमर्पकरवं फलसमर्पकत्वं चेत्युभयमङ्गक्रियते,
फलोहेशेन यागविधानात् न फलपदानर्थक्यम्, यागोद्देशेन गुणविधानाच न गुणपदान.
र्थक्यमपीत्याशङ्कायामाह-न चेति । वाक्यभेदापत्तेरिति । तथात्वे यागस्य तन्त्रेण
युगपदुभयत्र सम्बन्धोऽङ्गीकर्तव्यः, स च न सम्भवतीत्युपपादितमधस्तात् । अतो विधेरा-
वृत्तिमङ्गीकृत्य यागेन फलं भावयेत्, सोमेन यागं भावयेत् इत्येव वाक्यार्थोऽङ्गीकार्यः,
ततश्च विध्यावृत्तिलक्षणो वाक्यभेद इत्यर्थः
 
ननु "दध्नेन्द्रियकामस्य जुहुया"दित्यादौ यथा प्रकृतं अग्निहोत्रहो ममाश्रित्य
इन्द्रिय प्राप्ति रूपफलोद्देशेन दधिरूपगुण विधानमनी क्रियते तद्वदत्रापि प्रकृतं ज्योतिष्टोम.
माश्रित्य पशुरूप फलोद्देशेनोद्भिद्रूपगुण विधिरङ्गीक्रियताम्, न भविष्यति वाक्यभेदः इत्यत
श्राह-नापीति । परोति । धास्वर्थादतिरिक्तः यः उद्भिद्गुणरूपः पदार्थ: तद्विधानेने-
१० गुणणे विधीयते. क. २. तस्मिश्च गुणविधानमिति नास्ति. क.