This page has been fully proofread once and needs a second look.

लक्षणया तु नीलशब्दस्य द्रव्यपरत्वेन सामानाधिकरण्यम्। उद्भिच्छब्दस्य तु
यज्यवगतयागविशेषान्नान्यो वाच्योऽर्थोऽस्ति, विशेषवाचित्वात्तस्य। अत-
श्चार्थान्तरवाचित्वाभावेन न नामधेयस्य नीलशब्दवत् सामानाधिकरण्यम्,
किं तर्हि १ 'वैश्वदेव्यामिक्षे'त्यत्रामिक्षाशब्दवत्। वैश्वदेवीशब्दस्य हि
देवतातद्धितान्तत्वात्तद्धितस्य च 'सास्य देवता' इति सर्वनामार्थे स्मर-
णात्, सर्वनाम्नां चोपस्थितविशेषवाचित्वेन विशेषपरत्वम्। तत्र कोऽसौ
वैश्वदेवीशब्दोपात्तो विशेषः ? इत्यपेक्षायां आमिक्षापदसान्निध्यादामिक्षा-
रूपो विशेष इत्यवगम्यते। यथाहुः -
 
आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः।
 
[commentary]
 
"अन्वयव्यतिरेकाभ्यां यो यमर्थं न मुञ्चति ।
स एव तस्य वाच्योऽर्थो गुणं चैष न मुञ्चति"॥
 
इत्यरुणाधिकरणवार्त्तिकोक्तरीत्या नीलशब्दस्य गुण एव शक्तिः। न तु तद्विशिष्ट-
द्रव्ये, विशिष्टे शक्तिकल्पनायां गौरवादिति भावः । यद्येवमुभयोर्भिन्नार्थकत्वात् कथं
सामानाधिकरण्यमित्यत आह - -लक्षणया विति त्त्विति। यत्र द्रव्यप्रतीतिरप्यावश्यकी तत्र
सा लक्षणयापि भवितुमर्हतीति न तदर्थं शक्तिकल्पनमिति भावः । प्रकृते तद्वैपरीत्य-
माह - --उद्भिदिति । वैश्वदेव्यामिक्षेति । तप्ते पयसि द<error></error><fix>धि</fix>न्यासिक्केते सति तत्पयो
द्विषाधा परिणामति - -घनीभूतत्वेन द्रवीभूतत्वेन च तं। तत्र यत् घनीभूतं तदामिक्षापदवाच्यम्
यत् द्रवीभूतं तत् वाजिनम् । अत्र प्रथमा तृतीयान्ततया विपरिणम्यते, यजेतेस्त्यध्याहिह्रि
यते, विश्वदेवदेवता केनामिक्षाद्रव्य केण यागेनेष्टं भावयेदिति वाक्यार्थः । श्रा। आमिक्षा-
शब्दवदिति । यथा वैश्वदेवी शब्दोपात्त विशेषसमर्पकत्वेनामिक्षाशब्दस्य तेन सह सामा-
नाधिकरण्यं तद्वदित्यर्थः । वैश्वदेवीशब्दस्य च कथं विशेषवाचित्वम् ? अत आह-देव-
तातद्धितान्तत्वादिति । सामान्यस्य त्यागविषयत्वासम्भवेन प्रवृत्तिविशेषाजनकत्वेना-
किश्चित्करश्वात् त्वात्
 
"नैव हि द्रव्यमात्रस्य तद्धितैदैर्देवतोच्यते

अस्य शब्दाभिधेयस्य विशेषस्यैव देवता"
 
इति वार्तिकोक्तरीत्या तद्धितघटक सर्वनाम्ना द्रव्यविशेषस्यैवोक्तत्वात् युद्धंक्तं वैश्वदे.-
वीशब्दस्य विशेष परस्वमिति भावः । ननु तद्धितान्तपदेनैव द्रव्यविशेषस्याप्युक्तत्वात्
आमिक्षापदवैयर्
थ्युतत्वात्
श्रामिक्षा पदवैयर्थ्
यापत्तिरियत ग्राह- -तत्रेति । एवञ्च तद्धितान्तपदेन देवतोपसर्जन.-
कद्रव्यविशेषप्रत्यये सञ्जाते कः पुनरसौ द्रव्य विशेष इत्याकाङ्क्षोपजायते । उत्पन्नायां
चाकाडूंचायाँङ्क्षायां स्ववाक्योपात्तमामिक्षा पदमामिक्षारूप विशेष विशेषसमर्पकम् । अतश्च नात्र सामा
न्य विशेष
-
न्यविशेष
भूतयोरर्थयो र्विशेषण विशेष्यभावः, किन्तु शब्दयोरेव स इत्याद्याशयः
 
तत्र वार्तिकं प्रमाणयति--आमिक्षामिति । प्र। अत्रैवकारो भिन्नक्रमः । एषः "सा.-
स्य देवता" इत्यधिकारे विहितः अण्प्रत्ययरूपः तखिद्धित एव देवतायुक्तमामिक्षारूपं