This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
११८
 
[ नामचैय-
लक्षणया तु नीलशब्दस्य द्रव्यपरत्वेन सामानाधिकरण्यम् । उद्भिच्छन्ब्दस्य तु

यज्यवगतयागविशेषान्नान्यो वाच्योऽर्थोऽस्ति, विशेषवाचित्वात्तस्य। अत-
श्वात्तस्य । अत-
वा
चार्थान्तरवाचित्वाभावेन न नामधेयस्य नीलशब्दवत् सामानाधिकरण्यम्,
कि

किं
तर्हि १ 'वैश्वदेव्यामि क्षे'त्यत्रामिक्षा शब्दवत् । वैश्वदेवीशब्दस्य हि

देवतातद्धितान्तत्वात्तद्धितस्य च 'सास्य देवता' इति सर्वनामार्थे स्मर-
या

णा
त्, सर्वनाम्नां चोपस्थित विशेषवाचित्वेन विशेषपरत्वम् । तत्र कोऽसौ

वैश्वदेवीशब्दोपात्तो विशेषः ? इत्यपेक्षायां श्रामिक्षापदसान्निध्यादामिक्षा-

रूपो विशेष इत्यवगम्यते । यथाहुः -
 
,
 
मा

 
मिक्षां देवतायुक्तां वदत्येवैष तद्धितः
 

 
[commentary]
 
"अन्वयव्यतिरेकाभ्यां यो यमर्थं न मुञ्चति ।
 

स एव तस्य वाच्योऽर्थो गुणं चैष न मुञ्चति"
 
-
 

 
स्य त्यरुस्णाधिकरणवार्त्तिकोत्क्तरीत्या नीलशब्दस्य गुण एव शक्तिः । न तु तद्विशिष्ट-

द्रव्ये, विशिष्टे शक्तिकल्पनायां गौरवादिति भावः । यद्येवमुभयोभिन्नार्थकत्वात् कथं

सामानाधिकरण्यमित्यत आह - लक्षणया विति । यत्र द्रव्यप्रतीतिरप्यावश्यकी तत्र

सा लक्षणयापि भवितुमर्हतीति न तदर्थ शक्तिकल्पनमिति भावः । प्रकृते तद्वैपरीत्य-

माह - उद्भिदिति । वैश्वदेव्यामिक्षेति । तप्ते पयसि दधन्यासिक्के सति तत्पयो

द्विषा परिणामति - घनीभूतत्वेन द्रवीभूतत्वेन च तंत्र यत् घनीभूतं तदामिक्षापदवाच्यम् ।

यत् द्रवीभूतं तत् वाजिनम् । अत्र प्रथमा तृतीयान्ततया विपरिणम्यते, यजेतेस्यध्याहि

यते, विश्वदेवदेवता केनामिक्षाद्रव्य केण यागेनेष्टं भावयेदिति वाक्यार्थः । श्रामिक्षा-

शब्दवदिति । यथा वैश्वदेवी शब्दोपात्त विशेषसमर्पकत्वेनामिक्षाशब्दस्य तेन सह सामा•

नाधिकरण्यं तद्वदित्यर्थः । वैश्वदेवीशब्दस्य च कथं विशेषवाचित्वम् ? अत आह-देव-

तातद्धितान्तत्वादिति । सामान्यस्य त्यागविषयत्वासम्भवेन प्रवृत्तिविशेषाजनकत्वेना-

किश्चित्करश्वात् ।
 

 
"नैव हि द्रव्यमात्रस्य तद्धितैदैवतोच्यते ।
 

 
अस्य शब्दाभिधेयस्य विशेषस्यैव देवता" ॥
 

 
इति वार्तिकोतरीत्या तद्धितघटक सर्वनाम्ना द्रव्यविशेषस्यैवोकत्वात् युद्धं वैश्वदे.

वीशब्दस्य विशेष परस्वमिति भावः । ननु तद्धितान्तपदेनैव द्रव्यविशेषस्याथ्युतत्वात्

श्रामिक्षा पदवैयर्थ्यापत्तिरियत ग्राह- तत्रेति । एवञ्च तद्धितान्तपदेन देवतोपसर्जन.

कद्रव्यविशेषप्रत्यये सजाते कः पुनरसौ द्रव्य विशेष इत्याकाङ्क्षोपजायते । उत्पन्नायां

चाकाडूंचायाँ स्ववाक्योपात्तमामिक्षा पदमामिक्षारूप विशेष समर्पकम् । अत नात्र सामा•

न्य विशेष भूतयोरर्थयो विशेषण विशेष्यभावः, किन्तु शब्दयोरेव स इत्याद्याशयः ।
 

 
तत्र वार्तिकं प्रमाणयति — आमिक्षामिति । प्रत्रैवकारो भिन्नक्रमः । एषः "सा.

स्य देवता" इत्यधिकारे विहितः अप्रत्ययरूपः तखित एव देवतायुक्तमामिक्षारूपं