This page has not been fully proofread.

[ १० ]
 
वर्यैः" इति एड्गर्टन् ( Edgerton ) महाशयो वदति ( १ ) । तन्न यथातथम् । मूल-
कत॒णां पुत्रैरनन्तदेवैरेव खलु विभज्य व्याख्या कृता भाट्टालङ्कारका रैः । तदनुरोधेनैन
च आचार्यपादैरपि विभागः कृतः । तमनालोक्यैव (२) एड्गटन महोदयैर्यत्किञ्चिदुच्यते ।
श्रतस्सर्वथा तदुपेक्षार्ह प्रेक्षावताम् ।
 
मन्थकर्तुंर्देशकाल कुलादिविषये प्रथमसंस्करणभूमिकायां यदुक्तं गुरुवर्यैः न
ततोऽधिकं किञ्चिद्वक्तव्यमवशिष्यते । इदमनेन प्रतीयते काश्यां षोडश सप्तदशशताब्योर्दा.
क्षिणात्येषु विद्वत्कुलेषु मीमांसाद्वयपारदृश्वनां कुलद्वयं सुप्रसिद्धमासीत् एकं भट्टकुलम्,
अन्यच्च देवकुलम् । तत्र भट्टकुलमलडर्वाणा श्रासन् नारायणभटूटप्रभृतयः, यैर्बहवो.
ऽनुत्तमा मीमांसाग्रन्था धर्मशास्त्रग्रन्थाम रचिता प्रभावलीपर्यन्ताः
देवकुलमलङ्कुर्वाणा
रुद्रदेवखण्डदेवादयः, यैर्भाटदीविकाप्रभृतयः सर्वातिशायिनो ग्रन्था विरचिताः । तदुः
भयकुलीनातिरिक्कोऽयं न्यायप्रकाशकारः आपदेव इति । एतस्कुलीना श्रपि पूर्वोत्तरमीमां-
सयोर्धर्मशास्त्रेष्वपि नैकशो ग्रन्थान् जग्रन्थुरिति प्रमाणतोऽवगम्यते ।
 
ग्रन्थस्थास्य संशोधनकार्ये सज्जतो मम मध्ये मध्ये श्रादर्शान्वेषणे पुस्तकान्तराव-
लोकने च साह्यमाचरितवते श्रीमते कृष्णमूर्तिशर्मणे गुरुचरणानां सुपुत्राय मदन्तेवसते
च स्वाशिषः प्रयुञ्जानः, सावधानेनाsपि कृतेऽस्मिञ्चोधनकार्ये पुरुषबुद्धिसाधारणाः तत्र
तत्र सम्भावितास्त्रुटीरशुद्धीच कृपया परिमार्ष्ट विबुधगणानभ्यर्थयन् अन्ततः सर्वतः श्रेयो.
वहां गुरुचरणकृपामेव परमां मन्वानो मदीयं कार्यमिदं परमेश्वरस्य चरण कमलयो-
स्समर्पयन् विरमामि ।
 
संस्कृत महाविद्यालय:
काशी हिन्दू विश्वविद्यालयः
वाराणसी
२४-३-४९
 
इति
विद्वज्जनवशंवदः-
-
 
अ० मु० रामनाथदीक्षितः
 
(1) Even the division into two parts, is found in neither of the other
editions and was probably made by Chinnaswami himself. P. 4, L, 20
in the Introduction of Mimansa Nyaya Prakasa, Printed in the Oxford
University Press.
 
(2) He says this Anantadeva worte a commentary on । his father's
Mimansa Nyaya Prakasa, called Bhattalankara, which according to Chi-
nnaswami (P 5 ) has been edited and printed by Mahamahopadhyaya
Pandit. Lakshmana Sastri; I regret to say that I have not had access
to it ( P. 18. ) Intro,