This page has been fully proofread once and needs a second look.

(नामधेयनिरूपणम् ]
 
सारविवेचनी व्याख्यांसंवलितः
 
१९७
 
(नामधेयनिरूपणम्
)
 

 
नामधेयानां
 
2
 
विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । तथा हि- 'उद्भि
-
दा यजेत पशुकामः' इत्यत्र उद्भिच्छब्दो यागनामधेयम् । तेन च विधे
-
यार्थपरिच्छेदः क्रियते । अनेन हि वाक्येनाप्राप्तत्वात्फलोद्देशेन यागो

विधीयते । यागसामान्यस्य चाविधेयत्वाद्यागविशेष एव विधीयते । तत्र
। तत्र
कोऽसौ विशेषः ? इत्यपेक्षायां उद्भिच्छन्दादुद्भिद्रपो याग इति ज्ञायते

उद्भिदा यागेनेति सामानाधिकरण्येन नामधेयान्वयात्
 

 
तस्य च यजिना सामानाधिकरण्यं न नीलोत्पलादिशब्दवत् । तत्र हि

उत्पलशब्दस्यार्थादुत्पलादन्यो नोनीलशब्दस्य चावाच्योर्थोऽस्ति नीलगुणः
 

 
[commentary]
 
(नामधेयनिरूपणम् )
 
"
 
>
 

 
एतावता मन्त्राणां प्रयोजनवत्वमुपवर्ण्य इदानीमवसर प्राप्तं कर्मनामधेयानां प्रयोजन

वत्वमुपपादयितुमारभते-नामधेयानामिति । ननु नामधेयानां न धर्मे प्रामाण्यं सम्भ-

वति, तेषां त्र्यंशानन्तःपातित्वात, तथा हि - -न तावदेतेषां फलबोधकत्वम्, कामशब्दा-

द्यभावेन तृतीयान्तत्वेन च फलप्रतिपादकत्वासम्भवात् । नापि साधनबोधकत्वम् समा
-
नपदोपात्तेनं घाधात्वर्थेनाव<error>रू</error><fix>रु</fix>द्धायां भावनायां पदान्तरोपात्तानां तथात्वासम्भवात् । नापि

गुण विधायकत्वेनार्थभावनेतिकर्तव्यतान्तर्भावः, उद्भिदादिपदवाच्यस्य कस्यचित् गुणस्या
-
प्रसिद्धेः । नापि विधेयार्थस्तावकत्वेन प्रामाण्यम् उद्भिदादिपदमात्रेण कस्या अपि

स्तुतिबुद्धेरनुयात् दयात्। नापि मन्त्रान्तर्भावः उद्भिदादिपदेषु मन्त्रप्रसिद्धेरभावात् । अतो.
-
ऽन्यस्य कस्यापि धर्मप्रामाण्यप्रकारस्याभावात् न नामधेयानां धर्मप्रामाण्य सम्भव इत्यत
श्रा

ह-विधेयार्थपरिच्छेदकतयेति । विधेयो यो घाधात्वर्थो यागादिः किक्रियारूपः तत्प-

रिच्छेदकतया इतरेभ्यो व्यवच्छेदकतयेत्यर्थः । विधिविषयीभूतधात्वर्थनिष्ठ वै जात्यबोध.
-
कत्वेनेति यावत् । तेन त्व्रीह्या दिपदेषु नातिव्याप्तिः । उदाहरति- तथा होति । परिच्छे-
.

दनस्वरूप मेवाह - [-अनेन हीति । यागसामान्यस्य चाविधेयत्वादिति । विधेयत्वं

चाप्रवृत्तप्रवृत्तिविषयत्वरूपम्, तत्र च यावन्न विशेषोऽवगम्यते, तावत् क्वचिदपि पुरुषस्य

प्रवृत्यनुदयात् विधेः प्रवर्त्तकस्वरूपं विधायकत्वमेव भज्येतेति भावः । प्रतभ। अतश्च यजेतेत्यनेन

याग विशेषस्य विहितत्वात् विशेषस्वरूपजिज्ञासायां उद्भित्पदं तादृशविशेषस्वरूपबोधक-

मित्याह - -कोऽसाविति । ननु अत्रोद्भिस्त्पदं यागवाचकमेवेत्यत्र किं प्रमाणम् ?
श्रा
अत
ह- सामानाधिकरण्येनेति । एवञ्च उद्भिद्यजिपदयोः सामानाधिकरण्येनैकार्थवाचि
-
त्वावगमात् तदन्यथानुपपत्या उद्भित्दस्य यागवाचित्वमङ्गीकर्तव्य मेवेति भावः
 
-
 
"
 

 
नन्वत्र सामानाधिकरण्याङ्गीकारे उभयत्रापि भिन्नेन प्रवृत्तिनिमित्तेन भाव्यम्

भिन्नप्रवृत्ति निमित्तयोरे कार्थबोधकत्वस्यैव सामानाधिकरण्यात् प्रकृते च उद्भिन्च्न्द-
ब्द-
वाच्यस्यार्थान्तरस्य कस्यचित् प्रसिद्धस्याभावात् प्रवृत्ति निमित्तस्यैवाभावेन तद्भेदस्य दूरा-

पास्तत्वात् । अतः कथमन्त्र सामानाधिकरण्यम् ? इत्यत आह-तस्य चाते ॥
कुन्
चेति।
उद्भिच्छब्
दस्येत्यर्थः । नीलगुण इति
 
a
 
उद्भि-