2023-02-20 11:47:31 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवैचिनोव्याख्यासँवलितः
( परिसंख्यामेदाः )
सा च परिसङ्ख्या द्विविधा - श्रौती लाक्षणिकी चेति । तत्र 'अत्र होवा-
चपन्ति' इत्यत्र श्रौती परिसङ्ख्या एवकारेण (१) पवमानातिरिक्तस्तो-
श्रभ्यावृत्तेरभिधानात् ।
सरे "तरफलभूतायाः शशादिपञ्चकव्यतिरिक्तपञ्चनखभक्षणनिवृत्तेः" इत्येवोक्तम् । किश्चास्य
वचनस्यापञ्चन खभक्षणमात्र निवर्तकत्वे वालिनोऽपि पञ्चनखत्वेन तद्भक्षणेऽपि दोषानापत्या
तेन स्वस्थाभक्षणीयत्वकथनं एव च कारणात् स्वस्याहन्तव्यत्वबोधकं "सोऽयं
पञ्चनस्त्रो हतः" इत्यादिकं च सर्वथा विरुद्धमापद्येत । अतः पूर्वोक्तविधयैव व्याख्येयम् ॥
( परिसंख्याभेदाः )
यत्र
परिसंख्यां विभजते-सा चेति । यत्र वाचकः शब्दः श्रूयते नञ् एवकारी वा सा
श्रौतीपरिसंख्येत्यर्थः । लाक्षणिकीति । यत्र शतशब्दो नास्ति, निवृत्तिबोधनं तु लक्ष-
गया, सा लाक्षणिकीत्यर्थः । आद्यमुदाहरति-भत्र ह्येवावपत्तीति । अत्रार्य
विषयःः - ज्योतिष्टोमनाम के सोमयागे सर्वसोमयागप्रकृतिभूते सन्ति चरवार: स्तोमा:-
त्रिवृत्, पश्चदशः, सप्तदशः, एकविंशः, इति । प्रगीतमन्त्रसाध्य गुणिनिष्ठगुणाभिधानं
स्तोत्रम् । तद्गता संख्या स्तोमशब्देनोच्यते । ज्योतिष्टोमविकृतिभूतेषु सोमयागेषु मध्ये
केचन प्रकृतितो विवृद्धस्तो मकाः, - 'एकविंशेनातिरात्रेण प्रजाकामं याजयेत्' 'त्रिणवेनौ-
जस्कामम्' इत्यादयः । केचनाविवृद्धस्तोमकाः 'त्रिवृदग्निष्टुदग्निष्टोम' इत्यादयः । तत्र
ऋतौ स्तोमविवृद्धिराम्नाता, तत्र संख्यासम्पत्त्यर्थं स्थानान्तरादानीतानां साम्रां (२)प-
वमानस्तोत्रेषु तदितरस्तोत्रेषु च समुच्चयेनावापः प्राप्तः, एवं यत्राविवृद्धस्तोमकेषु प्राकृ-
तसमसंख्याकस्तोमकता, तन्यूनस्तोमकता वा तत्र विशेषविहितानां साम्नां निवेशार्थे
यतः कुतश्चिदनियमेन सामोद्वापः प्राप्तः । तत्रेदमुच्यते - "त्रोणि ह वै यज्ञस्योदराणि
गायत्री बृहत्यनुष्टुप् अत्र ह्येवावपन्ति, अत एवोद्वपन्ति" इति । अस्यार्थ:-
यज्ञस्य त्रीणि गायत्रीबृहत्यनुष्टुब्रूपाणि छन्दांसि उदरस्थानी यानि । अतः एतत्रितयातिरि-
तेषु पवमानस्तोत्रसम्बन्धिषु छन्दसु पवमानातिरिक्तेषु स्तोत्रेषु वा न सामावापः कार्यः ।
एवमुद्वापोऽपि एतेभ्य एव कार्य इति । एवञ्च - "अोवावपति" इति वाक्यं विबृ-
द्व स्तोमकेषु पवमानातिरिकस्तोत्रेषु सामावापपरिसंख्यापकम् । "श्रत एवोद्वपन्ती" ति
तु] अविवृद्धस्तोमकेषु गायत्र्याद्यधिकरण नियमपरमिति ।
>
वस्तुतस्तु श्रावापविधिरेव विवृद्धस्तोम केषु परिसंख्यापरः श्रविवृद्धस्तोमकेषु निय-
मपरः । उद्वापस्त्वर्थसिद्धोऽनुवाद एवेत्यन्यत्र विस्तरः । श्रावापः प्रक्षेपः । उद्वापः
उद्धारः निष्कासनमिति यावत् । अतश्चात्र एवकारेण श्रुत्यैवान्यनिवृत्तेरभिधानादियं श्रौती
परिसंख्यैति । अत्र यद्यपि पवमानशब्दो न श्रूयते तथापि गायत्र्यादीनां तत्रैव सत्वात्
१. गायत्रीबृहत्यनुष्टुबितरव्यावृत्तेः इति कस्मिंश्चित् लिखितपुस्तके पाठः।
२ ज्योतिष्टोमे सन्ति द्वादशस्तोत्राणि-बहिष्पवमानमेकं स्तोत्रम्, चत्वार्याज्यानि, चरवारि पृष्ठानि,
माध्यन्दिनपवमानमेकम् यज्ञायशियमेकमिति । तेषां तथैव विकृतावतिदेशेन प्राप्तौ तत्र श्रुताषिकसं-
ख्यासम्पत्यर्थं सर्वेष्वपि स्तोत्रेष्नविशेषात् श्रावापः प्राप्तः इति ।
.9