2023-02-20 11:47:31 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
( परिसंख्या विधिनिरूपणम् )
उभयस्य युगपत् प्राप्तौ इतरव्यावृत्तिपरो विधिः परिसङ्ख्याविधिः ।
यथा 'पञ्च पञ्चनखा भक्ष्याः' इति । इदं हि वाक्यं न भक्षण विधिपरम्,
तस्य रागतः प्राप्तत्वात् । नापि नियमपरम्, पञ्चनखापञ्चनखभक्षणस्य
युगपत्प्राप्तेः पक्षेऽप्राप्त्यभावात् । अत इदं ( १ ) पञ्चातिरिक्तपञ्चनखभक्षणनिवृ-
त्तिपरमिति भवति परिसङ्ख्या विधिः ।
[ परिसंख्याविधि-
( परिसंख्याविधिनिरूपणम् )
उत्तरार्ध व्याचष्टे - उभयस्येति । अत्र च युगपत् प्राप्तिरौत्सर्गिकी, न नियता,
मत "नानृतं वदे" दित्यादौ, सत्यानृतयोः एकस्मिन् वदनव्यापारे युगपदप्राप्तावपि
न विरोधः । इतरव्यावृत्तिपर इति । एवञ्च नियमविधौ प्राप्तांशपूरणरूपस्य नियम-
स्य विधेयगतत्वेन सन्निहितत्वात् स एव वाक्यार्थः फलं वा, नान्यनिवृत्तिः, तस्याः च
रमोपस्थितत्वात्, अविधेयगतत्वेन विप्रकृष्टत्वाच्च । परिसंख्यायां तु द्वयोरपि नित्यप्रा.
सत्वेन स्वरूप प्राप्तेनियमस्य वा फलस्वायोगात् इतरनिवृत्तिरेव वाक्यार्थः फलं वा । श्रय•
मेव भेदो नियम विधिपरिसंख्या विध्योरिति सूचितम् । परिसंख्याविधिरिति । परिसं•
ख्या वर्जनबुद्धिः, तज्जनको विधिः परिसंख्या विधिरित्यर्थः । उदाहरति यथेति । पञ्च
पञ्चनखा इति । नखपञ्चक विशिष्टा शल्यकगोधाश्वा विट्कुर्मशशाः पञ्चैवेत्यर्थः । इदं
हि वाक्यं श्रीमद्वाल्मीकिरामायणे भगवन्तं श्रीरामचन्द्रं प्रति वालिनोकम् । "ब्रह्मक्षत्रेण
राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः" इति श्लोकावशिष्टांशः । कुतो.
Sयमपूर्वविधिर्न भवति ? तश्रा - इदं होति । शास्त्रप्रवृत्तेः पूर्वमेव भक्षणस्य
रागतः प्रबृत्तत्वात्, रागतः पूर्वं शास्त्रप्रवृत्त्या विधिविषयत्वाङ्गीकारे पूर्वप्रवृत्तेः फलकल्प
नापतिरूपगौरवापत्तेरिति भावः । तर्हि नियमविधित्वम्, परिसंख्यापेक्षया तत्र
लाघवात् श्रत आइ-नापीति । पक्षेऽप्राप्त्यभावादिति । पाक्षिके सतीत्यनेन
वस्तुनः कदाचित् प्राप्तौ कदाचिच्चाप्राप्तौ सत्यामेवाप्राप्तांशपूरकत्वस्य नियम विधिव्यापा.
रत्खादिति विवक्षितम् । यद्यप्यत्र शशादीनां भक्षणे कदाचित् पक्षेऽपि प्राप्तिः सम्भवतीति
नियम विधिश्वमपि सम्भाव्यते तथापि नियमविधित्वे शशाद्यभक्षणे दोषप्रसक्तेः भक्षणस्य
च फलकलनारूपगौरवापत्त्या पूर्वोत्तरपर्यालोचनया चास्य प्रकरणस्याभक्ष्यनिरूपणरूप-
•त्वावगमेन तद्बाघापत्तेश्च नियमविधित्वं परित्यज्य परिसंख्या विधित्व मेवाङ्गीकृत मिति
ध्येयम् । अत्रापञ्चनखेत्यस्य पञ्चातिरिक्तपञ्चन स्वेत्यर्थो बोध्यः । अन्यथा यथाश्रुतार्थ स्वीकारे
वाक्यस्यास्य अपञ्चनखव्यावृत्तावेव तात्पर्यस्याज्ञीकार्यतया पञ्चपदवैयर्थ्यापत्तिः श्वादि•
पञ्चनखभक्षणे दोषाप्रसक्त्या तत्र प्रायश्चित्तविधानानुपपत्तिश्च प्रसज्येयाताम् । अत
एव च विधिरसायने "पूर्वाक्षेपप्रकारः प्रभवति" इति श्लोकव्याख्यानाव.
9
-
१. अत्रापञ्चनख भक्षण निवृत्तिपरमित्येव पाठ: उपलभ्यते मुद्रितपुस्तकेषु प्रायशः तथापि अपञ्च-
नखेस्यस्य पञ्चातिरिक्तपञ्चनखेत्येव व्याख्यातव्यतया क्लिष्टकल्पनापत्तेः पञ्चातिरिक्तपञ्चनखेत्येव पाठं
मैसुरपुरे तैलङ्गाक्षरेषु मुद्रितपुस्तके लिखित पुस्तकेषु चोपलब्धवद्भिरस्माभिः स एव पाठो मूले निवेशितः ।