2023-02-20 11:47:31 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनोव्याख्यासंवलितः
११३
त्वं न प्रमाणान्तरेण (१) प्राप्तम्, किन्त्वनेनैव विधिनेति भवत्ययें-
मपूर्वविधिः ।
( नियम विधिनिरूपणम् )
पऽप्राप्तस्य तु यो विधिः स नियमविधिः । यथा 'व्रीहो नवहन्ति'
इत्यादिः । मनेन हि विधिना श्रवघातस्य न वैतुष्यार्थत्वं बोध्यते, मन्वय-
व्यतिरेक सिद्धस्वात् । किन्तु नियमः स चाप्राप्तांशपूरणम्; वैतुष्यस्य
हि नानोपायसाध्यत्वात् यस्यां दशायामवघातं, परिहृत्योपायान्तरं ग्रहीतु-
मारभते तस्यां दशायामवघातस्या (२) प्राप्तत्वेन तद्विधानात्मकमप्राप्तांश-
1
विधिना क्रियते । अतश्च नियमविधावशाप्तांशपूरणात्मको
पूरणमेवाने
नियम एव वाक्यार्थः । पक्षेऽप्राप्ततादशायामवघात विधानमिति यावत् !
न त्वपूर्व विधाविवारयन्ताप्राप्ततया विधानमिति ॥
नादेः पाक्षिकी प्राप्तिः, तादृशाप्राप्तांशपूरको यो विधिः स नियम विधिः, तन्मात्रविध्य
प्रवृत्तिदशायां विध्यन्तराप्रवृत्ति सहकृतैतद्विध्यप्रवृत्तिदशायां वा या उभयोः समुच्चित्य
प्राप्तिः तत्रान्यतव्यावर्तको यो विधिः स परिसंख्याविधिः इति फलितम् । एतेषामपि
लक्षणानां क्वचिदध्याप्पयादिदोष दूषितत्वात्- यद्धर्मावच्छिन्न प्रतियोगिता का भावाभावत्वं
यस्य शास्त्रस्य तारपर्यविषयतावच्छेदकता पर्याप्त्यधिकरणं तस्य तद्धर्मवन्नियम विधि-
त्वम्, यद्धर्मावच्छिन्न प्रतियोगिताकाभावत्वं यस्य शास्त्रस्य तात्पर्य विषयतावच्छेदकता-
पर्याप्त्यधिक शस्त्रस्य तद्धर्भवत्परिसंख्याविधित्वम्, नियमपरिसंख्याति-
रिक्तफल कवि घिरवम पूर्वविधित्वमिति विधित्रयलक्षणं परिष्कृतं मीमांसा कौस्तुभे मन्त्रा-
धिकरणे। तत्पदप्रयोजनानि च तत्रैवोक्तानि तत एवावगन्तव्यानि विस्तरभयान्नात्र
विलिखितानि ।
( नियम विधि निरूपणम् )
पक्षेऽप्राप्तस्येति । कदाचित् प्राप्तस्य कदाचिदप्राप्तस्येत्यर्थः । वितुषीभावरूपं
प्रयोजनं हि अवहननेन नखविदलनेन अश्मकुट्टनादिना वेत्यनेकैरुपायैः साधयितुं
शक्यते । तत्र नखविदलनादिभिः वितुषीभावं यदा सम्पादयितुमारभते, तदा अवहननस्य
प्राप्त्यभावात् अस्ति तस्य कादाचित्की प्राप्तिः, तस्याञ्च दशायां या अप्राप्तिः तदंशेऽप्य-
वघातप्रापको यो विधिः स नियम विधिरित्यर्थः । तदुपपादयति - अनेनं हीति । अन्व
येति । साधनान्तराभाव सहकृतावघात सरखे वैतुष्य सत्वम् ; तादृशावघाताभावे वैतुष्याभावः,
इस्यन्वयव्यतिरेकेत्यर्थः । अप्राप्तांशपूरणमिति । नखविदलनादिदशायां योऽवघातां-
शोऽप्राप्तः तत्प्राशिसम्पादनमित्यर्थः । एवञ्च नापूर्वविधाविव सर्वथा अत्यन्ताप्राप्तप्रापकत्वं
विधेः, किन्तु यः पक्षे प्राप्तोऽशः तन्मात्रपूरकत्व मिति । एतेन सर्वांशे प्राप्तप्रापकापूर्व.
'विध्यपेक्षया किञ्चिदंशेऽप्राप्तप्रापक नियमविधौ लाघवमपि सूचितं भवति ।
२. स्यांशेऽप्रा
: १. ज्ञायते
१५ मो० न्या०