This page has been fully proofread once and needs a second look.

मोमांसान्यायप्रकाशः
 
[
(अपूर्वविधि
 
(पूर्व
विधिनिरूपणम् )
 

 
अस्थायमर्थः -यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो

विधिः सोऽपूर्वविधिः । यथा- 'यजेत स्वर्गकामः' इत्यादिः । यागस्य हि स्वर्गा
-
 
[commentary]
 
या एव वक्तव्यत्वात् तस्याश्च त्रिदोषप्रस्तत्वातग्रस्तत्वात् उपदिष्टाज्यभागवजेर्जं प्रयाजादीनामतिदेशः

इति षष्ठः ।
 

 
विकृतिभावनायाः उपकारापेक्षायां लाघवात् एकस्यैवातिदेशस्य कल्पनीयतया तस्य

च प्रयाजादीतराङ्गविषयकत्ववत् आज्यभागविषयकत्वस्याप्युपपत्तौ तद्वर्जने प्रमाणा
-
भावात् प्राकृतसर्वाङ्गविषयकस्यातिदेशस्यानेन विशेष विषय केणोपसंहारः साप्तदश्यवत्

इति सप्तमः
 

 
उपसंहारस्य क्रत्वङ्गभूतविशेषपदार्थगोचरत्वेन प्रतिदेशागोचरत्वात् क्लृप्तोपकारैः

प्राकृतैराज्यभागादिभिः गृहमेघीधीयस्य नैराकांक्ष्यात् तस्यापूर्वत्वज्ञापनार्थमिदं वचनम्

अप्राप्तपरिसंख्यात्वाच्च न त्रैदोण्ष्यमपीति - --सिद्धान्तः । एवञ्चाज्यभागयोस्तदितराङ्गाणां

च युगपत् प्राप्तौ सत्यां इतराजपरिसंख्येति । पञ्चमपक्षे प्राप्तपरिसंख्यात्वात् स्वार्थत्यागा-

दिरूपं त्रैदोग्ष्यम् । अष्टमपक्षे चाऽप्राप्त परिसंख्यात्वान्न तदिति ध्येयम्
 

 
तत्र चान्यत्र च प्राप्ते इत्यमुमेव च पाठं मनसि निघाधायोदाहृतं वार्तिक का रैः,

व्याख्यातञ्च न्यायसुधायाम् । अत एव दीक्षितेन्द्रैः मीमांसकमूर्धन्यैः "प्राप्ति

श्शेषिद्ये चेदि"ति विधिरसायनमूल व्याख्यानावसरे--"तत्र चान्यत्र चेति

सप्तम्योः प्राप्त इति सप्तम्याश्च सामानाधिकरण्यविवक्षायां गर्दभरशनाग्रह.
-
णादिपरिसङ्ख्यायामेव लक्षणं न स्यात् । वैयधिकरण्येनान्वयविवक्षायां

शंखिय्विडोत्तराङ्गकलापादिपरिसंख्यायामेव न स्यात् । अत एव न्यायसुधायां

'तत्र चान्यत्र च प्राप्ते' इत्यस्य शेषान्तरपरिसंख्यायां सामानाधिकरण्येन
'

शेष्यन्तरपरिसंख्यायां वैयधिकरण्येन च योजना दर्शिता" इत्यादि सुखोप
-
योजिन्यामुक्तम् । इमामेव च योजनां मनसि निघाधाय सिद्धान्तलेशसङ्ग्रहे तैरेव

विधिविचारावसरे "द्वयोश्शेषिणोरेकस्य शेषस्य वा, एकस्मिन् शेषिणि द्वयो.
-
स्
शेषर्योर्वा नित्यप्राप्तीतौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधि

स्तृतीयः" इत्येव परिसङ्ख्या लक्षणमुक्तम् । एवञ्च सति तत्र चान्यत्र च प्राप्तौ इति

बहुत्र पाठ उपलभ्यते स लेखकप्रमादकृत इति भाति । स्वयमेव वार्तिकार्थं विवृणोति-

अस्येति
 

 

 
प्रथमपादं व्याचष्टे-यस्येति । प्रमाणान्तरेणेति । एतद्वाक्यातिरिक्तेन वैदिकवा.
-
क्यान्तरेण प्रत्यक्षादिना वेदातिरिक्तेन प्रमाणेन चेत्यर्थः । तदर्थत्वेनेति । श्र। अप्राप्तार्थ
-
प्रापकत्वेनेत्यर्थः । अत्र च एतद्विध्यप्रवृत्तिदशायामिति विध्यन्त राप्रवृत्ति सहकृतै तद्विध्य.
-
प्रवृत्तिदशायामिति चाप्राप्तिविशेषणं बोध्यम् । एवमेव नियमपरिसंख्याविध्योः पाक्षिका.
-
प्राप्तौ समुच्चित्य प्राप्तौ च विशेषणं योजनीयम् । एवञ्च विध्यन्त राप्रवृत्तिसहितायां केव
-
लायां वा तत्तद्विध्यप्रवृत्तौ यस्य प्राप्तिरात्यन्तिकी तत्प्रापको यो विधिः सोऽपूर्वविधिः,

तन्मात्रविध्यप्रवृत्तदशायौयां विध्यन्तराप्रवृत्ति सहकृतैत द्विध्यप्रवृत्तिदशायां वा या अवहन-