This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ पूर्वविधि
 
(पूर्व विधिनिरूपणम् )
 
अस्थायमर्थः यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो
विधिः सोऽपूर्वविधिः । यथा- 'यजेत स्वर्गकामः' इत्यादिः । यागस्य हि स्वर्गा
या एव वक्तव्यत्वात् तस्याश्च त्रिदोषप्रस्तत्वात उपदिष्टाज्यभागवजे प्रयाजादीनामतिदेशः
इति षष्ठः ।
 
विकृतिभावनायाः उपकारापेक्षायां लाघवात् एकस्यैवातिदेशस्य कल्पनीयतया तस्य
च प्रयाजादीतरामविषयकत्ववत् आज्यभागविषयकत्वस्याप्युपपत्तौ तद्वर्जने प्रमाणा•
भावात् प्राकृतसर्वाजविषयकस्यातिदेशस्यानेन विशेष विषय केणोपसंहारः साप्तदश्यवत्
इति सप्तमः ।
 
उपसंहारस्य क्रत्वङ्गभूतविशेषपदार्थगोचरत्वेन प्रतिदेशागोचरत्वात् क्लृप्तोपकारैः
प्राकृतैराज्यभागादिभिः गृहमेघीयस्य नैराकांदयात् तस्यापूर्वत्वज्ञापनार्थमिदं वचनम् ।
अप्राप्तपरिसंख्यात्वाच्च न त्रैदोण्यमपीति - सिद्धान्तः । एवञ्चाज्यभागयोस्तदितराङ्गाणां
च युगपत् प्राप्तौ सत्यां इतराजपरिसंख्येति । पञ्चमपक्षे प्राप्तपरिसंख्यात्वात् स्वार्थत्यागा-
दिरूपं त्रैदोग्यम् । अष्टमपक्षे चाऽप्राप्त परिसंख्यात्वान्न तदिति ध्येयम् ।
 
तत्र चान्यत्र च प्राप्ते इत्यमुमेव च पाठं मनसि निघायोदाहृतं वार्तिक का रैः,
व्याख्यातञ्च न्यायसुधायाम् । अत एव दीक्षितेन्द्रैः मीमांसकमूर्धन्यैः "प्राप्ति
श्शेषिद्धये चेदि"ति विधिरसायनमूल व्याख्यानावसरे – "तत्र चान्यत्र चेति
सप्तम्योः प्राप्त इति सप्तम्याश्च सामानाधिकरण्यविवक्षायां गर्दभरशनाग्रह.
●णादिपरिसङ्ख्यायामेव लक्षणं न स्यात् । वैयधिकरण्येनान्वयविवक्षायां
शंखिडोत्तगङ्गकलापादिपरिसंख्यायामेव न स्यात् । अत एव न्यायसुधायां
'तत्र चान्यत्र च प्राप्ते' इत्यस्य शेषान्तरपरिसंख्यायां सामानाधिकरण्येन
'शेष्यन्तरपरिसंख्यायां वैयधिकरण्येन च योजना दर्शिता" इत्यादि सुखोप
योजिन्यामुक्तम् । इमामेव च योजनां मनसि निघाय सिद्धान्तलेशसङ्ग्रहे तैरेव
विधिविचारावसरे "द्वयोश्शेषिणोरेकस्य शेषस्य वा, एकस्मिन् शेषिणि द्वयो.
शेषर्योर्वा नित्यप्राप्ती शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधि
स्तृतीयः" इत्येव परिसख्या लक्षणमुक्तम् । एवञ्च सति तत्र चान्यत्र च प्राप्तौ इति
बहुत्र पाठ उपलभ्यते स लेखकप्रमादकृत इति भाति । स्वयमेव वार्तिकार्थं विवृणोति-
अस्येति ।
 

 
प्रथमपादं व्याचष्टे-यस्येति । प्रमाणान्तरेणेति । एतद्वाक्यातिरिक्तेन वैदिकवा.
क्यान्तरेण प्रत्यक्षादिना वेदातिरिक्तेन प्रमाणेन चेत्यर्थः । तदर्थत्वेनेति । श्रप्राप्तार्थ
प्रापकत्वेनेत्यर्थः । अत्र च एतद्विध्यप्रवृत्तिदशायामिति विध्यन्त प्रवृत्ति सहकृतै तद्विध्य.
प्रवृत्तिदशायामिति चाप्राप्तिविशेषणं बोध्यम् । एवमेव नियमपरिसंख्याविध्योः पाक्षिका.
प्राप्तौ समुच्चित्य प्राप्तौ च विशेषणं योजनीयम् । एवञ्च विध्यन्त राप्रवृत्तिसहितायां केव
लायां वा तत्तद्विध्यप्रवृत्तौ यस्य प्राप्तिरात्यन्तिकी तत्प्रापको यो विधिः सोऽपूर्वविधिः,
तन्मात्रविध्यप्रवृत्तदशायौ विध्यन्तराप्रवृत्ति सहकृतैत द्विध्यप्रवृत्तिदशायां वा या अवहन-