This page has been fully proofread once and needs a second look.

विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्ते परिसङ्ख्येति गीयते ॥ इति ।
 
[commentary]
 
या इतरस्याप्राप्तिः, तत्प्रापको विधिर्नियमविधिरित्यर्थः। विधित्रयलक्षकं वार्तिकं प्र-
माणयति-विधिरिति। एतद्विध्यप्रवृत्तिदशायां प्रमाणान्तरेणात्यन्तमप्राप्तमर्थं यः प्राप-
यति सोऽप्राप्तप्रापकत्वात् विधिरित्युच्यते । यत्र प्रागेतद्वचनात् पाक्षिकी प्राप्तिः सम्भा-
व्यते तत्राप्राप्तिपक्षं यो नियमयति स विधिः नियामकत्वात् नियम इत्युच्यते । अत्रोभय-
त्रोदाहरणं मूल एवस्पष्टीकृतम् । तत्र चान्यत्र चेति सप्तमीद्वयेन साकं प्राप्ते इत्यस्य
वैयधिकरण्येन सामानाधिकरण्येन च द्वेधा अन्वयस्सम्भवति । तत्र वैयधिकरण्येनान्वये
तस्मिन् अन्यस्मिंच शेषिणि एकः शेषः यदि प्राप्नुयात् तत्रान्यतरशेषिणः परिसंख्येति
शेषिपरिसंख्या । सामानाधिकरण्येनान्वये तु स चान्यश्च शेषः एकस्मिन् शेषिणि प्राप्नु -
याच्चेत् अन्यतरस्य शेषस्य परिसंख्या शेषपरिसंख्येति । एवञ्च एकस्मिन् प्रधान
द्वयसम्बन्धे नियतप्राप्ते, एकस्मिथमिंश्च प्रधाने प्रशअङ्गद्वयसम्बन्धे नियतप्राप्ते सति [अन्यतर-
निवृत्तिफलको विधिः परिसंख्याविधिरिति फलितम्
 
रशनाप्रकाशनरूपात् मन्त्रलय

 
द्यस्योदाहरणम्--"इमामगृभ्णन्त्रशनामृतस्येत्यभ्श्वाभिधानीमादत्ते"
इति । अत्र इमामगृभ्णन् रशनामिति लिङ्गादेव रशनाप्रकाशरूपात् मन्त्रस्य
सन्निहितायामश्वरशनायामिव गर्दभरशनायामपि प्राप्तौ सत्यां विधिरत्यन्ताप्राप्तमर्थ प्राप
यति
थं प्राप-
यति
। किन्तु गर्दभरशनातो मन्त्रस्य निवृत्तितिं बोधयति
 
(

 
द्वितीयस् तूदाहरणम्-गृह मेधीयाधि करणे पञ्चमे पक्षे "श्राज्यभागौ यजती" ति
श्रा
ति
ज्यभागयोः तदितराज्ञाङ्गानां च युगपदेकस्मिन् गृहमेघीधीये प्राप्तौ आज्यभागातिरिकाज्ञाक्ताङ्गानां
परिसंख्या । तथा हि- चातुर्मास्येषु साकमेधाख्यं तृतीयं पर्व । तच्च दिनद्वयानुष्ठेयम्
तत्र प्रथमदिनानुष्ठेयतया गृहमेघीधीयेष्टिं विघाधाय श्रुतं "आाज्यभाग।गां यजति यज्ञतायै"
इति वाक्यमुदाहृत्य विचारितं दशमसप्तमे । तत्राऽष्टौ पक्षा उक्ताः
 
तत्र दर्शपूर्णमासतोऽतिदेशप्राप्तयोराज्यभागयोः श्रनुवादमात्रमिद मिति- प्रथमः पक्षः
अनुवादमात्रत्वे वैयर्थ्यापत्तेः तत्परिहारार्थे तत्र विहितयोरेवाज्यभागयोः इहाभ्यु-
दय कारित्वकल्पनया पुनर्विधानं श्राज्यभागवत्वसादृश्येन प्रकृतिनियमार्थमिति-द्वितीयः
उभाभ्यामपि विधानेऽदृष्टार्थत्वापत्तेः "यज्ञताया" इति स्तुतिदर्शनात् प्रकृतगृह मे
घीय
-
धीय
स्तुत्यर्थं सार्थवादकं वचन मिति -तृतीयः
 
-
 
[

 
सम्बन्धिवाचनिक गुणव्यवहितेन गृहमेधीयवाक्येन एकवाक्यत्वाभावेन तत्स्ताव-
कत्वानुपपत्तेः अभ्यासात् ज्यभागधर्मक कर्मान्तर विधानार्थमिति चतुर्थः
 
आज्यभागशब्दस्य र्मलक्षणार्थत्वापत्तेः कर्मान्तर विध्ययोगात् अतिदेशेनाज्यभाग-
योः तदितरेषु च प्रयाजादिषु प्राप्तेषु श्राज्यभागपुनःश्रवणं तदितरप्रयाजादिपरिसंख्या-
र्थमिति पञ्चमः
 
अस्य च चोदकात् पूर्वं प्रवृत्यभावात् फलतः परिसंख्यात्वानुपपत्तेः प्राप्त परिसंख्या
 
-