2023-03-07 11:19:58 by Veera Raagavan
This page has not been fully proofread.
तत्र चान्यत्र च प्राप्ते परिसङ्ख्येति गीयते ॥ इति ।
निरूपणम्
[commentary]
या इतरस्याप्राप्तिः, तत्प्रापको विधिर्नियम
माणयति-विधिरिति
यति सोऽप्राप्तप्रापकत्वात् विधिरित्युच्यते । यत्र प्रागेतद्वचनात् पाक्षिकी प्राप्तिः सम्भा-
व्यते तत्राप्राप्तिपक्षं यो नियमयति स विधिः नियामकत्वात् नियम इत्युच्यते । अत्रोभय●
त्रोदाहरणं मूल एवस्पष्टीकृतम् । तत्र चान्यत्र चेति सप्तमीद्वयेन साकं प्राप्ते इत्यस्य
वैयधिकरण्येन सामानाधिकरण्येन च द्वेधा अन्वयस्सम्भवति । तत्र वैयधिकरण्येनान्वये
तस्मिन् अन्यस्मिंच शेषिणि एकः शेषः यदि प्राप्नुयात् तत्रान्यतरशेषिणः परिसंख्येति
शेषिपरिसंख्या । सामानाधिकरण्येनान्वये तु स चान्यश्च शेषः एकस्मिन् शेषिणि प्राप्नु -
याच्चेत् अन्यतरस्य शेषस्य परिसंख्या शेषपरिसंख्येति । एवञ्च एकस्मिन् प्रधान
द्वयसम्बन्धे नियतप्राप्ते, एकस्मिथ प्रधाने प्रशद्वयसम्बन्धे नियतप्राप्ते सति [अन्यतर-
निवृत्तिफलको विधिः परिसंख्याविधिरिति फलितम् ।
रशनाप्रकाशनरूपात् मन्त्रलय
आधस्योदाहरणम् – "इमामगृभ्णन्त्रशनामृतस्येत्यभ्वाभिधानीमादत्ते"
इति । अत्र इमामगृभ्णन् रशनामिति लिङ्गादेव
सन्निहितायामश्वरशनायामिव गर्दभरशनायामपि प्राप्तौ सत्यां विधिरत्यन्ताप्राप्तमर्थ प्राप
यति । किन्तु गर्दभरशनातो मन्त्रस्य निवृत्ति बोधयति ।
(
द्वितीयस्थ तूदाहरणम्-गृह मेधीयाधि करणे पञ्चमे पक्षे "श्राज्यभागौ यजती" ति
श्राज्यभागयोः तदितराज्ञानां च युगपदेकस्मिन् गृहमेघीये प्राप्तौ आज्यभागातिरिकाज्ञानां
परिसंख्या । तथा हि- चातुर्मास्येषु साकमेधाख्यं तृतीयं पर्व । तच्च दिनद्वयानुष्ठेयम् ।
तत्र प्रथमदिनानुष्ठेयतया गृहमेघीयेष्टिं विघाय श्रुतं "आाज्यभाग। यजति यज्ञतायै"
इति वाक्यमुदाहृत्य विचारितं दशमसप्तमे । तत्राऽष्टौ पक्षा उक्ताः ।
तत्र दर्शपूर्णमासतोऽतिदेशप्राप्तयोराज्यभागयोः श्रनुवादमात्रमिद मिति- प्रथमः पक्षः
अनुवादमात्रत्वे वैयर्थ्यापत्तेः तत्परिहारार्थे तत्र विहितयोरेवाज्यभागयोः इहाभ्यु-
दय कारित्वकल्पनया पुनर्विधानं श्राज्यभागवत्वसादृश्येन प्रकृतिनियमार्थमिति-द्वितीयः ।
उभाभ्यामपि विधानेऽदृष्टार्थत्वापत्तेः "यज्ञताया" इति स्तुतिदर्शनात प्रकृतगृह मे•
घीय स्तुत्यर्थं सार्थवादकं वचन मिति तृतीयः ।
-
[सम्बन्धिवाचनिक गुणव्यवहितेन गृहमेधीयवाक्येन एकवाक्यत्वाभावेन तरस्ताव-
कत्वानुपपत्तेः अभ्यासात् ज्यभागधर्मक कर्मान्तर विधानार्थमिति चतुर्थः ।
आज्यभागशब्दस्य घर्मलक्षणार्थत्वापत्तेः कर्मान्तर विध्ययोगात् अतिदेशेनाज्यभाग-
योः तदितरेषु च प्रयाजादिषु प्राप्तेषु श्राज्यभागपुनःभवणं तदितरप्रयाजादिपरिसंख्या-
र्थमिति पञ्चमः ।
अस्य च चोदकात् पूर्व प्रवृत्यभावात् फलतः परिसंख्यात्वानुपपत्तेः प्राप्त परिसंख्या•