2023-02-20 11:47:30 by ambuda-bot
This page has not been fully proofread.
॥ ॥ श्रीः ॥
अथोत्तरभागः
( मन्त्र प्रयोजननिरूपणम् )
मन्त्राणां च
प्रयोगसमवेतार्थस्मारकतया ऽर्थवत्वम् । न तु तदुच्चारण
मदृष्टार्थम्, दृष्टे संभवति : अदृष्टस्याऽन्याय्यत्वात् । न च दृष्टस्य प्रकारा
न्तरेणापि संभवान्मन्त्रास्नानमनर्थकम् । मन्त्रैरेव स्मर्तव्यमिति नियमवि
ध्याश्रयणात् ।
.
( नियम विधिनिरूपणम् )
साधनद्वयस्य पक्षप्राप्तौ अन्यतरस्य साधनस्याप्राप्ततादशायां यो विधिः
स नियमविधिः । यदाहुः -
॥ श्रीविश्वेशश्शरणं मम ॥
वामाङ्गविलसद्वामावक्त्रनिक्षिप्तचक्षुषम् ।
श्राश्रयं सर्वजगतामनाश्रयमुपास्महे ॥
एवं विधेः प्रयोजनवदर्थविधायकत्वेन प्रयोजनवत्वं निरूप्येदानीं क्रमप्राप्तं मन्त्राणां
प्रयोजनवस्वनिरूपणमारभते-मन्त्राणामिति । प्रयोगोऽनुष्ठानं तत्समवेतः तद्विषयीभूतो
योऽर्थः, तत्स्मारकत्वेनेस्यर्थः । कर्मणां स्मरणपूर्वकानुष्ठानस्यैव सर्वत्र विहितत्वात्
तादृशस्मारकपदार्थापेक्षायां मन्त्राणामेव तादृशस्मृतिजनकत्वेनोपयोगस्य समुचितत्वा-
दिति भावः । ननु न मन्त्राणां प्रयोगसमवेतार्थस्मारकत्वं सम्भवति । तत्तत्प्रकरण-
पठितानामपि प्रयोगासमवेतार्थाभिधायिनां मन्त्राणां बहूनां सत्वात, हुंफडा दिस्तोभमन्त्राणां
श्रर्थस्यैवाभावाच्च, जपादिमन्त्राणां केवलादृष्टार्थस्वस्य द्वादशे वदयमाणत्वाच्च । अतश्व
तेषामदृष्टार्थत्वेऽवश्याभ्युपगन्तव्ये श्रवैरूप्याय सर्वेषामदृष्टार्थत्वमेव युक्तम्, न तु केष।श्चित्
दृष्टार्थत्वं, केषाश्चिददृष्टार्थंतेति वैरूप्याङ्गीकरणमुपपत्तिमदित्माशङ्कथाह -न त्त्विति ।
तन हेतुमाह - द्वष्ट इति । एवञ्च यत्र हृष्टप्रयोजनमर्थप्रकाश्चनरूपं न सम्भवति तत्रादृष्टा-
थंत्वं हुंफडादिष्वङ्गीक्रियताम् । नैतावता सर्वश्रादृष्टार्थता युक्ता । द्वादशाधिकरणं तु न
जपमन्त्राणामदृष्टार्थतापरम्; किन्तु तेषामपि अर्थप्रकाशन रूपढष्टार्थ तैव,
परमदृष्टार्थंमित्येवं परमिति भावः । ननु यद्यर्थस्मरणमेव प्रयोजनं मन्त्राणाम्,
ध्यानेन उपद्रष्टृवचनादिना वा सिध्यत्येवेति मन्त्रास्नानं व्यर्थमेव भवेदित्याशङ्कयाह-न
चेति । नियमविध्याश्रयणादिति । एवञ्च नियमविधिबलात् नियमादृष्टं किञ्चिदुपद्यत
इत्यङ्गीक्रियते, नैतावता मन्त्रोच्चारणस्यादृष्टार्थतेति भावः ॥
प्रकाशन
तर्हि
( नियम विधिनिरूपणम्)
तत्
अथ प्रसङ्गात् विधित्रयमपि निरूपयिष्यन् अत्र उपस्थित नियम विधि निरूपणाय
नियमविधि प्रथमतो लक्षयति-साधनद्वयस्येति । अत्र द्वयशब्दोऽनेकमात्रपरः । द्वयोर्ब-
चूनां वा साघनानां विकल्पेनैकस्मिन् कार्ये प्राप्तौ सत्यां तत्र एकस्य साधनस्य प्रासिदशायां