This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनी व्याख्या संवलितः
 
१०६
 
नित्यकर्मणां तुङ्गेषु यथाशक्तिन्यायः । तानि हि यावजीवश्रुत्या
यावज्जीवं कर्तव्यत्वेन चोदितानि । न च यावज्जीवं केनापि साङ्गः प्रयोगः
कर्तुं शक्यते । अतो नित्यकर्मसु प्रधानमात्र समर्थोऽधिकारी । अङ्गानि तु
यावन्ति कर्तुं शक्यन्ते तावन्ति कार्याणीत्यास्तां (१) बहुक्त्या, सूरिभिः
पराक्रान्तत्वात् । तत्सिद्धं फलस्वाम्यबोधको विधिरधिकारविधिरिति ।
तदेवं निरूपितं चतुविधभेद निरूपणेन विधेः प्रयोजनवदर्थपर्यवसानम् ॥
इत्यापदेवकृतौ मामांसान्यायप्रकाशे पूर्वभागः
 
काम्य कर्मवैलक्षण्यं नित्यकर्मणां दर्शयति-नित्यकर्मणामिति । अङ्गेष्विति ।
श्रयमाशयः - अङ्गानां हि विधिविहितत्वादुपादानम्, निमित्तानुरोधाद्वा त्यागः, उभ-
यानुग्रहार्थं वा शकं प्रत्युपादानमशक्तं प्रति त्यागः, इति प्रथ्येव गतिर्भवितुमर्हति ।
तत्र उभयानुग्रहो यदि सम्भवति तर्हि स एव न्याय्यः । सम्भवश्च यथाशक्ति श्रीहीन्
सम्पादयेत् यथाशक्ति न्यादित्यादि । तत्रापि न सर्वेषामङ्गानां यथाशक्तिन्याय-
विषयत्वं सम्भवति, किन्तु यानि शक्तौ सत्यां प्रयोग विधिरनुष्ठापयति तेषामेव, न तु
कालादीनाम् तेषामनुपादेयत्वात् । नचैवं एकस्यैव विधेः शक्तं प्रत्यनुष्ठापकत्वम् शतं
प्रति न इति वैरूप्यापत्तिरिति वाच्यम् । यथाशक्ति कुर्यादित्येकेनैव वचनेनोभयोपसङ्ग्र
हादिति । तानि अङ्गानि । यावज्जीवश्रुत्येति "यावज्जीवमग्निहोत्रं जुहोति"
"यावज्जोवं दर्शपूर्णमासाभ्यां यजेत" इत्यादि श्रुत्येत्यर्थः । यावज्जीवं कर्तव्यत्वे
नेति । श्रुतिघटकं यावज्जीवपदं 'धातुसम्बन्धे प्रत्ययाः' इत्यधिकारे "यावति
विन्दजोवो" रित्यनेन विहितणमुलूप्रत्ययान्तम् । तेन च जीवनस्य प्राणधारणरूपस्य
स्ववाक्यसमभिव्याहृतधात्वर्थ प्रति निमित्तता गम्यते । निमित्तस्य चायं स्वभावः यत्
स्वाव्यवहितोत्तरकालानुष्ठापकत्वम् । अतश्च निमित्तवशात् साङ्गस्यैव यागादेः कर्तव्य-
तोच्यते तदा सर्वाङ्गोपसंहारासमर्थं पुरुषं प्रति विधेरप्रवृत्तेः निमित्तसङ्कोचापत्तिः । न
चेष्टापत्तिः, निमित्तस्य उद्देश्यरूपत्वेन प्राधान्यात् गुणभूतनैमित्तिकानुसारेण प्रधानसको
चस्यान्याय्यत्वात् । अतः प्रधानानुरोघेनाङ्गसङ्कोच एव युक्त इति । तदेतदाह-यावज्जीवं
केनापोत्यादिना । यद्यप्यत्र जीवनरूपनिमित्तसम्बन्धात् नैमित्तिकत्वमेव प्रतीयते । तथापि
 
मन् शास्त्रे नियतनिमित्तकानां नित्यत्वव्यवहारः, अनियतनिमित्तकानां नैमित्तिकत्व-
व्यवहारः इति तदनुसारेणैवेदमुक्तमिति ध्येयम् । सूरिभिः पराक्रान्तत्वादिति । तन्त्र-
रत्नन्यायरत्नमालादी पार्थसारथिमिश्रप्रभृतिभिः, निपुणतरमुपपादितत्वादित्यर्थः ।
अधिकारिविधि निरूपणमुपसंहरति - तत्सिद्धमिति ।
 
>
 
प्रथमोपक्रान्तं विधेः प्रयोजनवत्वमुपसंहरति- तदेवमिति ॥
 
इति वेदविशारदेन महामहोपाध्यायेन चिन्नस्वाम्यपरनाम्ना बेङ्कटसु-
ब्रह्मरायशर्मणा विरचितायां सारविवेचिन्याख्यायां मीमांसा.
 
mo न्यायप्रकाशव्याख्यायां पूर्वभागः ॥
 
१, तावत् !