This page has been fully proofread once and needs a second look.

१०८
 
मीमांसान्यायप्रकाशः
 
[ अधिकारिविधि-
ये तु पत्नीमात्रकर्तृकाः पदार्थाः आज्यावेक्षणादयस्ते ज्ञानं विनाश-)

क्यानुष्ठाना इति तद्विधीनां तदाक्षेपकत्वं स्वीक्रियते । तत्लिसिद्धमध्ययन विधि-

सिद्धज्ञानस्याधानसिद्धाग्निमत्तायाश्चोत्तरकर्मसु अधिकारि विशेषणत्वमिति

एवं सामर्थ्यस्यापि अधिकारिविशेषणत्वम् । असमर्थं प्रति विध्य-

प्रवृत्तेः । 'श्रख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी' ति न्यायात्
 

 
तच्च सामर्थ्यं काम्ये कर्मणि अङ्गप्रधानविषयम् । न ह्यङ्गासमर्थः प्र
-
धानमात्रसमर्थम्यश्च काम्ये कर्मण्यधिकारो री। प्रधानविधेरङ्गविध्येकवाक्य-

तापन्नस्य साङ्गकर्मसमर्थं प्रत्येव प्रवृत्तेः । यथाविनियोगमधिकारात्

यदि हि समर्थं प्रत्येष प्रवृत्तौ कयाचित् श्रुत्या विरोध: स्यात् तदाऽस-

मर्थस्याप्यधिकारः स्यात् । न च विरोधोऽस्ति । स्वर्गकामश्रुतेः समर्थ प्र
थं प्र-
त्येव प्रवृत्तौ विरोधाभावात् । प्रत्युतासमर्थं प्रति प्रवृत्ता प्रधानविधेरङ्ग-

वाक्यैकवाक्यतया प्रतिपन्नस्याङ्गसाहित्यस्य बाधापत्तेः । नित्यवत् श्रुतानाम-

ङ्गानां पाक्षिकत्वप्रसङ्गाच्च । अतः साङ्गे प्रयोगे समर्थस्यैव काम्ये कर्मण्यधिकारः।

 
[commentary]
 
जातिविशेषः। नन्वेवं यथात्र विधिना ज्ञानाक्षेपात् तदौपयिकज्ञानसम्पादनेन निषादस्या
-
घिकारोऽङ्गीक्रियते, एवमेव स्त्रिया अपि विधिना ज्ञानाक्षेपात् तदर्थमध्ययनं कुतो न

स्यात् ? इत्यत श्राह-एतावांस्त्वति विति। एवञ्च सत्यां गतौ नोत्तरक्रतुविधीनां ज्ञानाक्षेप-

कत्वशक्तिकल्पनं युक्तिसहमिति भावः
 

 
एवश्वञ्च ये यजमानकर्तृकाः पदार्थाः, तत्र यजमानज्ञानेनैव कार्यसिद्धावपि ये तावत्

यजमानेनासम्भवदनुष्ठानाः पत्नीमात्रकर्तृकाः तत्रागत्या तद्विघेधेर्ज्ञानाक्षेपकत्वशक्तिरङ्गी.
-
क्रियत एवेत्याह- ये त्त्विति। नैतावता सर्वेषामुत्तरक्रतुविधीनां ज्ञानाक्षेपकत्व शक्तिकल्पन
-
मुचितमिति भावः । अग्नि विद्ययोरधिकारिविशेषणत्वनिरूपणमुपसंहरति- तत्सिद्ध मिति

एवमग्निविद्ययोरधिकारिविशेषणत्वमुपवर्ण्य इदानीं सामर्थ्यस्यापि तदुपपादयति- एव-

मिति । विध्यप्रवृत्तेरिति । अत एवासमर्थत्वात् तिरश्चामनधिकारः, देवादीनां विप्र-
ग्र-
हाद्यभावादेव नाधिकारः इत्यादि बोध्यम् । अङ्गप्रधान
विषयमिति । सकलाङ्गानुष्टान-
ठान-
समर्थः प्रधानानुष्ठानसमर्थश्च यः स एव काम्ये कर्मण्य धिकरोतीत्यर्थः । तदेवाद-
न विति
ह-
न त्विति
। कुत एतत् ? अत आ -प्रधानेति । अयमाशयः - श्र-अङ्ग विध्येकवाक्यता.
-
पन्नः प्रधानविधिः प्रयोगविधिरित्युक्तम् । स च यथाप्रधानमनुष्ठापयति एवमङ्गविषयेऽप्यनु-

ष्ठापको भवतीति यत्किञ्चिदङ्गालोपेऽपि प्रधानस्य सर्वाङ्गसाहित्याभावेन वैगुण्यापत्त्या फला-

नुत्पत्तिप्रसङ्ग इति । यथाविनियोगमिति । साङ्गस्यैव प्रधानस्य फले विनियोगात्

तत्रैव चाधिकारोऽपि क्तव्य इत्यर्थः । ननु यथा नित्यनैमित्तिकयोः यथाशक्त्युपबन्धा.
-
नुसारेण सङ्कोचोंचोऽङ्गीक्रियते, तद्वत् काम्ये ऽपि कुतो न स्यात् ? श्रत श्राअत आ - -यदि

होति । ननु मास्तु कस्यापि प्रमाणस्य बाघःधः, तथापि सर्वाङ्गोपसंहाराभावे कस्यापि

प्रमाणस्य बाघो विधेः आनर्क्यं वा यावत् न स्यात् तावत् दुःखात्म के कर्मणि कथं
 
C
 
-
 

प्रवृत्तिः स्यात् प्रेक्षावताम् ? श्रत बाअत आ -
 
9
 
--प्रत्युतेति । ननु षोडशिप्ग्रहणाग्रहणवत्
 

विकल्पाजीङ्गीकारे कथमात्यन्तिको बाघःधः ? श्रत ग्रअत आ - --नित्यवदिति