This page has not been fully proofread.

१०८
 
मीमांसान्यायप्रकाशः
 
[ अधिकारिविधि-
ये तु पत्नीमात्रकर्तृकाः पदार्थाः आज्यावेक्षणादयस्ते ज्ञानं विनाश-)
क्यानुष्ठाना इति तद्विधीनां तदाक्षेपकत्वं स्वीक्रियते । तत्लिद्धमध्ययन विधि-
सिद्धज्ञानस्याधानसिद्धाग्निमत्तायाश्चोत्तरकर्मसु अधिकारि विशेषणत्वमिति ।
एवं सामर्थ्यस्यापि अधिकारिविशेषणत्वम् । असमर्थ प्रति विध्य-
प्रवृत्तेः । 'श्रख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी' ति न्यायात् ।
 
तच्च सामर्थ्य काम्ये कर्मणि अङ्गप्रधानविषयम् । न ह्यङ्गासमर्थः प्र
धानमात्रसमर्थम्य काम्ये कर्मण्यधिकारो । प्रधानविधेरङ्गविध्येकवाक्य-
तापन्नस्य साङ्गकर्मसमर्थं प्रत्येव प्रवृत्तेः । यथाविनियोगमधिकारात् ।
यदि हि समर्थ प्रत्येष प्रवृत्तौ कयाचित् श्रुत्या विरोध: स्यात् तदाऽस-
मर्थस्याप्यधिकारः स्यात् । न च विरोधोऽस्ति । स्वर्गकामश्रुतेः समर्थ प्र
त्येव प्रवृत्तौ विरोधाभावात् । प्रत्युतासमर्थं प्रति प्रवृत्ता प्रधानविधेरङ्ग-
वाक्यैकवाक्यतया प्रतिपन्नस्याङ्गसाहित्यस्य बाधापत्तेः । नित्यवत् श्रुतानाम-
ङ्गानां पाक्षिकत्वप्रसङ्गाच्च । अतः साङ्गे प्रयोगे समर्थस्यैव काम्ये कर्मण्यधिकारः।
जातिविशेषः। नन्वेवं यथात्र विधिना ज्ञानाक्षेपात् तदौपयिकज्ञानसम्पादनेन निषादस्या•
घिकारोऽङ्गीक्रियते, एवमेव स्त्रिया अपि विधिना ज्ञानाक्षेपात् तदर्थमध्ययनं कुतो न
स्यात् ? इत्यत श्राह-एतावांस्त्वति । एवञ्च सत्यां गतौ नोत्तरकतुविधीनां ज्ञानाक्षेप-
कत्वशक्तिकल्पनं युक्तिसहमिति भावः ।
 
एवश्व ये यजमानकर्तृकाः पदार्थाः, तत्र यजमानज्ञानेनैव कार्यसिद्धावपि ये तावत्
यजमानेनासम्भवदनुष्ठानाः पत्नीमात्रकर्तृकाः तत्रागत्या तद्विघेर्ज्ञानाक्षेपकत्वशक्तिरङ्गी.
क्रियत एवेत्याह- ये विति। नैतावता सर्वेषामुत्तरक्रतुविधीनां ज्ञानाक्षेपकत्व शक्तिकल्पन
मुचितमिति भावः । अग्नि विद्ययोरधिकारिविशेषणत्वनिरूपणमुपसंहरति- तत्सिद्ध मिति ।
एवमग्निविद्ययोरधिकारिविशेषणत्वमुपवर्ण्य इदानीं सामर्थ्यस्यापि तदुपपादयति- एव-
मिति । विध्यप्रवृत्तेरिति । अत एवासमर्थत्वात् तिरश्चामनधिकारः, देवादीनां विप्र-
हाद्यभावादेव नाधिकारः इत्यादि बोध्यम् । अङ्गप्रधान
विषयमिति । सकलाङ्गानुष्टान-
समर्थः प्रधानानुष्ठानसमर्थश्च यः स एव काम्ये कर्मण्य धिकरोतीत्यर्थः । तदेवाद-
न विति । कुत एतत् ? तह प्रधानेति । अयमाशयः - श्रङ्ग विध्येकवाक्यता.
पन्नः प्रधानविधिः प्रयोगविधिरित्युक्तम् । स च यथाप्रधानमनुष्ठापयति एवमङ्गविषयेऽप्यनु-
ष्ठापको भवतीति यत्किञ्चिदङ्गालोपेऽपि प्रधानस्य सर्वाङ्गसाहित्याभावेन वैगुण्यापत्त्या फला-
नुत्पत्तिप्रसङ्ग इति । यथाविनियोगमिति । साङ्गस्यैव प्रधानस्य फले विनियोगात्
तत्रैव चाधिकारोऽपि बक्तव्य इत्यर्थः । ननु यथा नित्यनैमित्तिकयोः यथाशक्त्युपबन्धा.
नुसारेण सङ्कोचोंऽङ्गीक्रियते, तद्वत् काम्ये ऽपि कुतो न स्यात् ? श्रत श्राह - यदि
होति । ननु मास्तु कस्यापि प्रमाणस्य बाघः, तथापि सर्वाङ्गोपसंहाराभावे कस्यापि
प्रमाणस्य बाघो विधेः आनर्यक्यं वा यावत् न स्यात् तावत् दुःखात्म के कर्मणि कथं
 
C
 
-
 
प्रवृत्तिः स्यात् प्रेक्षावताम् ? श्रत बाह -
 
9
 
प्रत्युतेति । ननु षोडशिप्रहणाग्रहणवत्
 
विकल्पाजीकारे कथमात्यन्तिको बाघः ? श्रत ग्रह - नित्यवदिति ।