This page has not been fully proofread.

[ ६ ]
 
-
 
एवं साधारणतः प्रसरमुपेयुषामपि भाट्टमतीयानां ग्रन्थानां वातिकादीनां यथावद
वगतिरतिकठिनाल्पमतीनामिति मत्वा महामहोपाध्यायपार्थसारथिमिश्रः भाट्टमतमवलम्ब्य
विषयसंशयादिकमेकत्र संगृह्याधिकरणरूपेण समग्रमपि शास्त्रं समगृहात्, सैव शास्त्र-
दीपिका । अयमेव चैवंरूपेण प्रवृत्त एतच्छास्त्रे प्राथमिको ग्रन्थः । एतदनन्तर कालिका
एव जैमिनीयन्यायमाला न्याय बिन्दुः - भाट्ट दीपिकादयोऽधिकरण सङ्ग्रहात्मिका ग्रन्थाः
प्रादुरभूवंस्तद्वथाख्यानानि च । तदनन्तरमेव च मीमांसापदार्थसंग्रहारमकाः न्यायरल•
माला वेदप्रकाश - न्यायप्रकाश - साट्टभास्कर - अर्थ सङ्ग्रह - मीमांसापरिभाषाप्रभृतयः
प्रकरणप्रन्थाः, येष्वन्यतमोऽयं मीमांसान्यायप्रकाशो नाम । अत्र चाधिकतरं लोकवेद-
योरुपयुक्तानां न्यायानां स्वरूपं निपुणतरमुपपादितम् । प्रन्थकर्तुरस्य 'विचारचातुरी
हृदयङ्गमा गभीरा च । ग्रन्थकारोऽयं पार्थसारथीयमतमेव स्वग्रन्थे पर्यपुष्णादिति सभ्य-
गेवोपपादितं व्याख्या तृभिराचार्यचर प्रथम संस्करणोपोद्धाते । पार्थसारथिमिश्रा हि
तन्त्रवार्तिकं, टुप्टीकां च मूलीकृत्यैव स्वीयाम्प्रन्थान्चयामासुः । यथोक्तं तैरेव
 
-
 
:
 
"न्यायाभासत मशास्त्रतरवार्थदशिनीम् ।
कुमारिलमतेनाहं करिष्ये शास्त्रदीपिकाम्" ॥
इति शास्त्रदीपिकायाम् ।
 
20
 
"मीमांसार्णवसंभूतैः कुमारस्वामिना कृतैः ।
न्यायरत्नैरहं मालां सह प्रथ्नामि मनोरमाम् " !
इति च न्यायरत्नमालायाम् । तथापि तत्र विध्यर्थे, आाख्यातायें तत्प्रख्यन्याये
अर्थवादलक्षणविषये पर्युदासोपसंहारयोः अन्येषु चैषमादिविषयेषु केषुचिरस्वमनीषितं
मतं किंचिदन्वारुय तदेव प्रमाणैरुपष्टमयति । एवं तन्त्रवार्तिकं व्याचक्षाणेनापि । भट्ट-
सोमेश्वरेण स्वेषितं ग्रन्थारूढीक्रियते । तयोर्मध्ये पार्थसारथिमिश्रमेवानुसरत्ययं न्याय-
प्रकाशकारः । तच्च तत्र तत्र व्याख्यान एवं स्पष्टीकृतम् ।
 
ग्रन्थकारोऽयं प्राभाकरमतं क्वचिदपि मनागपि न स्पृशति । तन्मतावलम्बी नैको·
ऽपि प्रन्थहसमप्रो द्वादशाध्यायव्यापी मुद्रितः । तौतातितमततिलको योऽध्यायत्रयात्मकः
स तावति प्रन्थे तन्मतमुपापादयत् । उपरि त्वन्धकार एव । प्रकरणपञ्चिकापि यावदुप
लभ्यमेव मुद्रितेति तत्रापि समग्रतायां सन्दिग्धमेव मनः । सेयं दुरवस्था प्राभाकरमतस्य ।
सावश्यं परिमार्जनमर्हति ।
 
न्यायरत्नमाज्ञां पार्थसारथिमिश्रीयामनुरुन्यानोऽप्ययं प्रन्थकारी नोत्तरघट कीयेषु तथा
प्रक्रमते यथा पूर्वषटकीयेषु विषयेषु । एनमेवानुसरति पदे पदेऽर्थसङ्ग्रहकारः । अतः
स्सर्व विषयव्यापिनः सुललितपदगुम्फितस्य सुखेनाध्यैतृहृदयावगाहिनः भाट्टमते कस्य चन
प्रन्थस्याद्ययावदनुपलम्भेन क्लिश्यतामधीतिनां क्लेशं दूरीकर्तु तन्त्रसिद्धान्तरत्नावल्याख्यो
प्रन्थो निरमाथि सारविवेचिनी का रै रस्मच्छ्वशुरचरणैः साधु सम्पादितच श्रीमद्भिः पण्डि.
तप्रवरैः पट्टाभिरामशास्त्रि महोदयैः । स सुदूरमाकर्षति सुमनसां मनांसीति न तिरोहितम् ।
 
,
 
पत्र मूले व्याख्यायां च पूर्वोत्तरभागरूपेण द्विघा विभागः कृतो व्याख्यातृभि
श्शास्त्रिपादै: " " स च विभागोन ग्रन्थाकाराभिमतः, किन्तु स्वकपोलकल्पितश्शास्त्रि.
(क) मी० न्या०