This page has been fully proofread once and needs a second look.

निरूपणम्
]] सार
 
विवेचिनोव्याख्यासंवलितः
 
१०७
 
धिकारः । सहाधिकारत्वे च यजमानविद्ययैव पत्न्या अपि कार्यसिद्धेनंर्न ज्ञानं

विना तस्या अधिकारानुपपत्तिः
 

 
'पाणिग्रहणात्तु सहत्वं कर्मसु, तथा पुण्यफलेषु' इति वचनेन स्त्रि
-
या अधिकार निर्णयाच्च निषादस्थपतेरिवाध्ययन विधिसिद्धज्ञानविरहिणोऽपि

'एतया निषादस्थपतितिं याजयेत्' इति वचनान्निषादेष्ट्याम्
 

 
निषादस्थपतिशब्दे हि निषादं स्थपतितिं चेति कर्मधारयो न तु निषादानां

स्थपतिरिति षष्ठीतत्पुरुषः, षष्ठ्यर्थे लक्षणापत्तेः । एतावांस्तु विशेष:- निषा-
निषा-
दस्याध्ययनसिद्धज्ञानाभावेन एतस्यैव विधेस्तत्कर्मौपयिकज्ञानाक्षेपकत्वम्
पर

पत्
न्यास्तु तादृशज्ञानाभावेऽपि यजमानेन सहाधिकारात्तस्य च तादृशज्ञान.
-
वत्त्वात्तेनैव च तस्याः कार्यसिद्धेनोंत्तरकर्नोत्तरक्रतुविधीनां ज्ञानाक्षेपकत्वम्
 

 
[commentary]
 
अध्ययन निषेधेन तत्सिद्धविद्याभावात् "न ह्यविद्वान् विहितोऽस्ति" इति न्यायेन

विदुष्यास्तस्याः अधिकार निषेधात् अधिकाराभावस्तदवस्थ एवेत्यत श्राह- यजमान
-
विद्ययैवेति
 

 
ननु श्राज्यावेक्षणादीनां अन्यथानुपपत्या तावत्स्वेवाङ्गेषु अधिकारकल्पनेऽपि न

सर्वत्राधिकारकल्पने प्रमाणमस्तीत्यत - आह--पाणिग्रहणादिति । कर्मस्वित्यविशेषेण

कर्मपदश्रवणेन सर्वेष्वेवाङ्गप्रघाधानेषु साहित्यमवगम्यते, नाज्यावेक्षणादिमानेत्रे । किञ्च पुण्य-

फलेष्वपि साहित्यं गम्यते । तच्च फलभोक्तृत्वं कर्मस्वधिकारमन्तरा न सम्भवतीति सर्वे-
ब्

ष्
वपि कर्मस्वधिकारस्सिद्ध एवेति । एवञ्च वैतानिके कर्मणि स्त्रीणां सहाधिकारः तद्धर्म
-
वत्सु च केषुचित् एकाग्निसाध्येषु कर्मसु सहाधिकारः, न तु सन्ध्यावन्दनजपादौ स्वत
-
न्त्राधिकारिके स्त्रिया अधिकारः नापि सावित्रीव्रतादौ पुंसोऽधिकारः, पूर्तादौ तु स्वात-

न्त्र्येण द्वयोरधिकार इति सिद्धम् । तत्र दृष्टान्तमाह - निषादेति । एवञ्च यथा निषा
-
दस्थपते: वचनबलात् निषादेष्ट्यामधिकारोऽङ्गीक्रियते, एवमत्रापि वचनबलादेवाधिका-

राङ्गीकरणमिति भावः
 
-
 

 
तदेव निरूपयति--निषादेति । अयं भाव:- "([^)] रौद्रं वास्तुमयं चरुं

निर्व॑पे" दितीष्टिं काञ्चन विधाय श्रूयते "एतया निषादस्थपतितिं याजये "दिति । वास्तुमयं

वास्तुशाकप्रकृतिकमित्यर्थः । केचित्तु वास्तुमध्य इति पठन्ति । तदा वास्तुमध्ये गृहमध्य

इत्यर्थः । तत्र निषादस्थपतिशब्दस्य निषादानां स्थपतिरिति तत्पुरुषसमासमाश्रित्य त्रैव
-
र्णि
केष्वेव यो निषादानामधिपतिः तदधिकारिकेयमिष्टिः ? उत निषादभाश्चासौ स्थपति-
ये

श्चे
ति कर्मधारयमङ्गीकृत्य निषाद एव सन् यः स्थपतिः, तदधिकारिका ? इति सन्दिह्य

षष्ठीतत्पुरुषाङ्गीकरणे पूर्वपदे लक्षणा भवति । अतो लक्षणानापादक कर्मधारयाङ्गीकरण-

मेव वरम् यद्यप्यस्मिन् पक्षे विधेः ज्ञानाचेक्षेपकशक्तिकल्पनारूपं गौरवं भवति तथापि

फलमुखत्वात् न तत् दोषायेति । निषादः ब्राह्मणात् शूद्रा यामुत्पन्नः शूद्रकर्माधिकृतो
 

 
[^
.] मैत्रायणीयसंहितायां "वास्त्वमयं रौद्रं चरुं निर्वपेत् यत्र रुद्रः प्रजाः शामयेत, वास्खोवँ मास्तोर्वै वास्त्वं

जातं वास्त्वमयं खलु वै रुद्रस्य, स्वेनैवेनं भागधेयेन शमयति । तया निषादस्थपति याजयेत्"

इति श्रुतम् । भाष्ये तु वास्तुमध्ये रौद्रं चरुं निर्वपेदिस्त्येव पाठोऽङ्गीकृतः