2023-02-20 11:47:29 by ambuda-bot
This page has not been fully proofread.
निरूपणम्
]] सार
विवेचिनोव्याख्यासंवलितः
१०७
धिकारः । सहाधिकारत्वे च यजमानविद्ययैव परन्या अपि कार्यसिद्धेनं ज्ञानं
विना तस्या अधिकारानुपपत्तिः ।
'पाणिग्रहणात्त सहत्वं कर्मसु तथा पुण्यफलेषु' इति वचनेन स्त्रि
या अधिकार निर्णयाच निषादस्थपतेरिवाध्ययन विधिसिद्धज्ञानविरहिणोऽपि
'एतया निषादस्थपति याजयेत्' इति वचनान्निषादेष्ट्याम् ।
निषादस्थपतिशब्दे हि निषादं स्थपति चेति कर्मधारयो न तु निषादानां
स्थपतिरिति षष्ठीतत्पुरुषः, षष्ठ्यर्थे लक्षणापत्तेः । एतावांस्तु विशेष:- निषा-
दस्याध्ययनसिद्धज्ञानाभावेन एतस्यैव विधेस्तत्कमपयिकज्ञानाक्षेपकत्वम् ।
परन्यास्तु तादृशज्ञानाभावेऽपि यजमानेन सहाधिकारात्तस्य च तादृशज्ञान.
वत्त्वात्तेनैव च तस्याः कार्यसिद्धेनोंत्तरकतुविधीनां ज्ञानाक्षेपकत्वम् ।
अध्ययन निषेधेन तत्सिद्धविद्याभावात् "न ह्यविद्वान् विहितोऽस्ति" इति न्यायेन
विदुष्यास्तस्याः अधिकार निषेधात् अधिकाराभावस्तदवस्थ एवेत्यत श्राह- यजमान
विद्ययैवेति ।
ननु श्राज्यावेक्षणादीनां अन्यथानुपपत्या तावत्स्वेवाङ्गेषु अधिकारकल्पनेऽपि न
सर्वत्राधिकारकल्पने प्रमाणमस्तीत्यत - पाणिग्रहणादिति । कर्मस्वित्यविशेषेण
कर्मपदश्रवणेन सर्वे॰वेवाङ्गप्रघानेषु साहित्यमवगम्यते, नाज्यावेक्षणादिमाने । किञ्च पुण्य-
फलेष्वपि साहित्यं गम्यते । तच्च फलभोक्तृत्वं कर्मस्वधिकारमन्तरान सम्भवतीति सर्वे-
ब्वपि कर्मस्वधिकारस्सिद्ध एवेति । एवञ्च वैतानिके कर्मणि स्त्रीणां सहाधिकारः तद्धर्म•
वत्सु च केषुचित एकाग्निसाध्येषु कर्मसु सहाधिकारः, न तु सन्ध्यावन्दनजपादौ स्वत
न्त्राधिकारिके स्त्रिया अधिकारः नापि सावित्रीव्रतादौ पुंसोऽधिकारः, पूर्तादौ तु स्वात-
न्त्र्येण द्वयोरधिकार इति सिद्धम् । तत्र दृष्टान्तमाह - निषादेति । एवञ्च यथा निषा•
दस्थपते: वचनबलात् निषादेष्ट्यामधिकारोऽङ्गीक्रियते, एवमत्रापि वचनबलादेवाधिका-
राङ्गीकरणमिति भावः ।
-
तदेव निरूपयति – निषादेति । अयं भाव:- "(१) रौद्रं वास्तुमयं चरुं
निर्व॑पे" दितीष्टिं काञ्चन विधाय श्रूयते "एतया निषादस्थपति याजये "दिति । वास्तुमयं
वास्तुशाकप्रकृतिकमित्यर्थः । केचित्तु वास्तुमध्य इति पठन्ति । तदा वास्तुमध्ये गृहमध्य
इत्यर्थः । तत्र निषादस्थपतिशब्दस्य निषादानां स्थपतिरिति तत्पुरुषसमासमाश्रित्य त्रैव
केष्वेव यो निषादानामधिपतिः तदधिकारिकेयमिष्टिः ? उत निषादभासौ स्थपति-
येति कर्मधारयमङ्गीकृत्य निषाद एव सन् यः स्थपतिः, तदधिकारिका ? इति सन्दिह्य
षष्ठीतत्पुरुषाङ्गीकरणे पूर्वपदे लक्षणा भवति । अतो लक्षणानापादक कर्मधारयाङ्गीकरण-
मेव वरम् । यद्यप्यस्मिन् पक्षे विधेः ज्ञानाचेपकशक्तिकल्पनारूपं गौरवं भवति तथापि
फलमुखत्वात् न तत् दोषायेति । निषादः ब्राह्मणात् शूद्रा यामुत्पन्नः शूद्रकर्माधिकृतो
१. मैत्रायणीयसंहितायां "वास्त्वमयं रौद्रं चरुं निर्वपेत् यत्र रुद्रः प्रजाः शामयेत, वास्खोवँ मास्वं
जातं वास्त्वमयं खलु वै रुद्रस्य, स्वेनैवेनं भागधेयेन शमयति । तया निषादस्थपति याजयेत्"
इति श्रुतम् । भाष्ये तु वास्तुमध्ये रौद्रं चरुं निर्वपेदिस्येव पाठोऽङ्गीकृतः ॥