This page has been fully proofread once and needs a second look.

अत एव च शूद्रस्य न यागादावधिकारः । तस्याध्ययनविधिसिद्धज्ञाना-
भावात्, आधानसिद्धाग्न्यभावाच्च, अध्ययनस्योपनीताधिकारत्वादुपनयनस्य
चा 'ष्टवर्षं ब्राह्मणमुपनयीते' त्यादिना त्रैवर्णिकाधिकारत्वात् । आधानस्यापि
'वसन्ते ब्राह्मणोऽग्नीनादधीत' इत्यादिना त्रैवर्णिकाधिकारत्वात् ।
 
यद्यपि च 'वर्षासु रथकारोऽग्नीनादधीते' त्यनेन रथकारस्य सौधन्वना-
परपर्यायस्याधानं विहितम् योगाद्रूढेर्बलीयस्त्वात्, तथापि नास्योत्तरकर्म-
स्वधिकारः, अध्ययनविधिसिद्धज्ञानाभावात् ।
 
न च तद्भावे आधानेऽपि कथमधिकारः, तदनुष्ठानस्य तत्साध्यत्वादि-
ति वाच्यम्; तस्याध्ययनविधिसिद्धज्ञानाभावेऽपि 'वर्षासु रथकारोऽग्नी-
नादधीत' इत्यनेनैव विधिनाऽऽधानमात्रौपयिकज्ञानाक्षेपणात् । अन्यथा एत-
स्यैव विधेरनुपपत्तेः । अतश्च रथकारस्याधानमात्रेऽधिकारेऽपि नोत्तरकर्म-
स्वधिकारः, विद्याभावात् ।
 
एवञ्च तदाधानं नाग्निसंस्कारार्थम्। संस्कृतानामग्नीनामुत्तरत्रोपयो-
गाभावात्, किं तु तदाधानं लौकिकाग्निगुणकं विश्वजिन्न्यायेन स्वर्गफल-
 
[commentary]
 
षयकत्वादेव । उपनीताधिकारत्वादिति । 'अष्टवर्षं ब्राह्मणमुपनयतियीत्' तमध्याप-
यीत' इति तच्छ्ब्देन उपनीतस्यैव परामर्शात्, उपनयनस्य च 'अष्टवर्षं ब्राह्मणमुपनयीत
एकादशवर्षं राजन्यं, द्वादशवर्षं वैश्यम्' इति त्रैवणिकमात्रं प्रति विहितत्वादित्यर्थः ।
उपनयीतेत्यादिना एकादशवर्षं राजन्यमुपनयीत, 'द्वादशवर्षं वैश्य' मित्यनयोः परि-
प्रहः । एवमुत्तरत्राप्यादिपदेन 'ग्रीष्मे राजन्यः, शरदि वैश्य' इत्यनयोः परिप्रहः ।
 
ननु शूद्रस्याप्यस्त्येव यागादावधिकारः, रथकारस्याधानश्रवणात् । न च त्रैवर्णिक
एव यदि कश्चिद्रथं करोति तस्यैष कालविधिः इति कथमनेन त्रैवर्णिकातिरिक्तस्य जाति-
विशेषस्याधानं सिध्यति । अत एव आपस्तम्बेनापि "ये त्रयाणां वर्णानामे तत्कर्म
कुर्वन्ति तेषामेष कालः" इति त्रैवर्णिकाधिकरिकत्वमेवोक्तमिति वाच्यम् । योगा-
पेक्षया रूढेर्बलीयस्त्वात् । न च प्रोक्षण्यधिकरणविरोधः । क्लृप्तस्यैव योगस्य कल्प्यरूढि
बाधकस्वस्य तदधिकरणविषयत्वात् । आपस्तम्बवचनस्य अवयवव्युत्पत्तिरूपहेतुमूल-
कत्वेन सन्न्यायविरोधे तस्यैव बाध्यत्वात् । अतः कथं त्रैवर्णिक मात्राधिकारिकत्व-
मित्याशङ्क्य निराकरोति-यद्यपीति । अस्य रथकारस्य । उत्तरकर्मसु आधानोत्तर-
कालिकेषु अग्निहोत्रदर्शपूर्णमासादिकर्मसु । ज्ञानाभावादिति । रथकारस्य वर्णत्रय-
बहिर्भूतत्वेन तस्योपनयनाभावादनुपनीतस्याध्ययनाभावात् तज्जन्यज्ञानस्य दूरापास्तत्वादि-
त्यर्थः । अनुपपत्तेरिति । एवञ्च आधानविधेः स्वान्यथानुपपत्या स्वमात्रौपयिकज्ञान-
माक्षिप्य रथकारविषये प्रवृत्तावपि नोत्तरक्रतुविधयस्तद्विषये प्रवर्त्तन्त इति भावः ।
 
नन्वेवं उत्तरक्रतुष्वधिकाराभावे आधानसंस्कृतानामग्नीनां प्रयोजनाभावात् आधा-
नस्यैव वैयर्थ्यं स्यादित्यत आह – एवञ्चेति । नाग्निसंस्कारकमिति । यथा त्रैवर्णि-
ककर्तृकमाधानं उत्तरक्रतूपयोगि गार्हपत्यादितत्तदग्निसंस्कारकं नैवं रथकारकर्तृकमाधान-
मित्यर्थ: । उपयोगाभावादिति । यस्य चोत्तरत्र उपयोग: क्लृप्तः यथा-'व्रीहिभिर्य-