2023-02-20 11:47:29 by ambuda-bot
This page has not been fully proofread.
१०४
10 मीमांसान्यायप्रकाशः
[ अधिकार विधि-
श्रत एव च शूद्रस्य न यागादावधिकारः । तस्याध्ययनविधिसिद्धज्ञाना-
भावात्, माधानसिद्धाग्मयभावाच्च, अध्ययनस्योपनीताधिकारत्वादुपनयनस्य
चा 'टवर्षं ब्राह्मणमुपनयीते' त्यादिना त्रैवर्णिकाधिकारत्वात् । आधान स्थापि
'वसन्ते ब्राह्मणोऽग्नीनादधोत' इत्यादिना त्रैवर्णिकाधिकारत्वात् ।
यद्यपि च 'वर्षासु रथकारोऽग्नीनादधीते' त्यनेन रथकारस्य सौधन्वना-
परपर्यायस्याघानं विहितम् योगाद्वढेवलीय स्वात्, तथापि नास्योत्तरकर्म-
स्वधिकारः, अध्ययनविधिसिद्धज्ञानाभावात् ।
न च तद्भावे आघानेऽपि कथमधिकार, तदनुष्ठानस्य तत्साध्यत्वादि-
ति वाच्यम्; तस्याध्ययन विधिसिद्धज्ञानाभावेऽपि 'वर्षासु रथकारोऽग्नी-
नादधीत' इत्यनेनैव विधिनाऽऽधानमात्रौषयिकज्ञानाक्षेपणात् । अन्यथा एत-
स्यैव विधेरनुपपत्तेः । अतश्च रथकारस्याधानमात्रेऽधिकारेऽपि नोत्तरकर्म-
स्वधिकारः, विद्याभावात् ।
एवञ्च तदाधानं नाग्निसंस्कारार्थम्। संस्कृताना मग्नीनामुत्तरत्रोपयो-
गाभावात्, किं तु तदाधानं लौकिकाग्निगुणकं विश्वजिमयायेन स्वर्गफल.
षयकत्वादेव । उपनीताधिकारत्वादिति । 'अष्टवर्ष ब्राह्मणमुपनयति' तमध्याप
यीत' इति तच्छ्रब्देन उपनीतस्यैव परामर्शात, उपनयनस्य च 'अष्टवर्षे ब्राह्मणमुपनयीत
एकादशवर्ष राजन्यं, द्वादशवर्ष वैश्यम्' इति त्रैवणिकमात्रं प्रति विहितत्वादित्यर्थः ।
उपनयीतेत्यादिना एकादशवर्ष राजन्यमुपनयीत, 'द्वादशवर्ष वैश्य' मित्यनयोः परि
प्रहः । एवमुत्तरन्नाप्यादिपदेन 'ग्रीष्मे राजन्यः, शरदि वैश्य' इत्यनयोः परिप्रहः ।
.
a
ननु शूद्रस्याप्यस्त्येव यागादावधिकारः, रथकारस्याधानश्रवणात् । न च त्रैवर्णिक
एव यदि कश्चिद्रथं करोति तस्यैष कालविधिः इति कथमनेन त्रैवर्णिकातिरिक्तस्य जाति
विशेषस्याघानं सिध्यति । अत एव आपस्तम्बेनापि "ये त्रयाणां वर्णानामे तत्कर्म
कुर्वन्ति तेषामेष कालः" इति त्रैवर्णिकाधिक रिकत्वमेवोकमिति वाच्यम् । योगा-
पेक्षया रूढेर्बलीयस्त्वात् । न च प्रोक्षण्यधिकरणविरोधः । क्लृप्तस्यैव योगस्य कल्प्य रूढि
बाघकस्वस्य तदधिकरण विषयत्वात् । आपस्तम्बवचनस्य अवयवव्युत्पत्तिरूपहेतुमूल
करन सन्न्यायविरोघे तस्यैव बाण्यत्वात् । अतः कथं त्रैवर्णिक मात्राधिकारिकत्व.
मित्याशङ्कयुनिराकरोति-यद्यपीति । अस्य रथकारस्य । उत्तरकर्मसु श्राधानोत्तर.
कालिकेषु अग्निहोत्रदर्शपूर्णमासादिकर्मसु । ज्ञानाभावादिति । रथकारस्य वर्णत्रय
बहिर्भूतत्वेन तस्योपनयनाभावादनुपनीतस्याध्ययनाभावात् तजन्यज्ञानस्य दूरापास्तत्वादि.
स्यर्थः । अनुपपत्तेरिति । एवञ्च श्राधानविधेः स्वान्यथानुपपत्या स्वमात्रौपयिकज्ञान-
माक्षिप्य रथकारविषये प्रवृत्तावपि नोत्तरक्रतुविधयस्तद्विषये प्रवर्त्तन्त इति भावः ।
नन्वेवं उत्तरक्रतुष्वधिकाराभावे प्रधान संस्कृतानामग्नीनां प्रयोजनाभावात् प्राधा,
नध्यैव वैयर्थ्यो स्यादित्यत आह - एवश्चेति । नाग्निसंस्कारकमिति । यथा त्रैवणि-
ककर्तृकमाधानं उत्तरक्कतूपयोगि गार्हपस्यादितत्तदग्निसंस्कारकं नैवं रथकारकर्तृकमाधान.
मित्यर्थ: । उपयोगाभावादिति । यस्य चोत्तरत्र उपयोग: क्लृप्तः यथा - 'व्रीहिभिर्य-