This page has been fully proofread once and needs a second look.

कपालं निर्वपे'दित्यादिभिस्तु गृहदाहादौ निमित्ते कर्म विदधद्भिर्निमित्तवतः
कर्मजन्यपापक्षयरूपफलस्वाम्यं प्रतिपाद्यते ।
 
तच्च फलस्वाम्यं तस्यैव योऽधिकारिविशेषणविशिष्टः । अधिकारिविशे-
षणं च तदेव यत्पुरुषविशेषणत्वेन श्रुतम् । अत एव 'राजा राजसूयेन स्वारा-
ज्यकामो यजेत' इत्यनेन स्वाराज्यमुद्दिश्य राजसूयं विदधतापि न स्वाराज्य-
काममात्रस्य तत्फलभोक्तृत्वं प्रतिपाद्यते, किं तु राज्ञः सतस्तत्कामस्य ।
 
किंचित्तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणं भवति । यथा-अध्य-
यनविधिसिद्धा विद्या, अग्निसाध्येषु च कर्मसु आाधानसिद्धाग्निमत्ता, सामर्थ्यं
च । एतेषां पुरुषविशेषणत्वेनाश्रवणेऽप्यधिकारिविशेषणत्वमस्त्येव । उत्तरक्रतु-
विधीनां ज्ञानाक्षेपशक्तेरभावेनाध्ययनविधिसिद्धज्ञानवन्तं प्रत्येव प्रवृत्तेः । अग्नि-
साध्यकर्मणां चाग्यपेक्षत्वेन तद्विधीनामाधानसिद्धाग्निमन्तं प्रत्येव प्रवृत्तेः ।
 
[commentary]
 
व्येन नैमित्तिकस्थलेऽपि अवश्यं किञ्चित्फलं कल्पनीयम् । तच्च न स्वर्गादिरूपम्, अनुप-
स्थितस्वर्गकल्पने गौरवात् । मुमुक्षोः स्वर्गादीनामनिष्टत्वेन तदुत्पत्तौ शास्त्रस्यानिष्टसाधना-
नुष्ठापकत्वापत्तेश्च । नापि अकरणनिमित्तप्रत्यवायप्रागभावपरिपालनरूपं तत् । तस्याजन्य-
त्वेन फलत्वायोगात्। किन्तु पापक्षय एव आर्थवादिकः कल्प्यते । न च उद्देश्यानेक-
त्वकृतो वाक्यभेदः। उद्देश्यद्वयेन सह विधेयसम्बन्ध एव वाक्यभेदात् । अत्र च कर्मणः
फलेन सह सम्बन्धः । तत्कर्तव्यतायाश्च निमित्तेन इति न वाक्यभेदः । उक्त हि-
"द्वाभ्यां विधेयसम्बन्धे वाक्यभेदः प्रसज्यते ।
उद्देश्येन निमित्तेन विधेयस्य न सङ्गतिः ॥" इति ।
दाहादावित्यादिपदेन "एतामेव निर्वपेद्यस्य हिरण्यं नश्येत्" इति विहिता
हिरण्यनाशेष्टिः परिगृह्यते । कर्मजन्येति । कर्मजन्यं यत्पापक्षयरूपं फलं तत्स्वाग्य-
मित्यर्थः । नन्वेवं बृहस्पतिसवे क्षत्रियवैश्ययोः, राजसूये ब्राह्मणवैश्ययोः, वैश्यस्तोमे च
ब्राह्मणक्षत्रिययोरधिकारापत्तिः । तेषामपि कर्मजन्यफलभोक्तृत्वसम्भवात् । अत आह-
तथेति । नम्वेवमपि स्वर्गकामत्वादेरप्यधिकारिविशेषणत्वसम्भवात्तद्दोषतादवस्थ्यम्,
अत आह-अधिकारीति । स्वर्गकामादिपदानां स्वर्गादिमात्रबोधकत्वेन पुरुषविशेषणत्वं
न सम्भवतीति भावः । अत एव पुरुषविशेषणत्वेन श्रुतस्य अधिकारिविशेषणत्वादेव ।
राज्ञः सत इति । अत्र राजपदं क्षत्रियजातिमात्रवाचकम् । एवञ्च नेतरयोरत्र प्राप्तिः ।
एवं वैश्यस्तोमादावपि द्रष्टव्यमित्याशयः ।
 
नन्वेवं शूद्रस्याप्यधिकारः स्यात् । तस्यापि स्वर्गकामत्वाविशेषात् । अत आह-
किञ्चित्त्विति । विद्या निष्कृष्टवेदवाक्यार्थज्ञानम् । ब्राह्मणवाक्यार्थज्ञानं विना कर्मस्वरू-
पस्यैव ज्ञातुमशक्तेः, मन्त्रार्थज्ञानं विना प्रयोगसमवेतार्थस्मरणासम्भवाच्च । उत्तरक्रतु-
विधीनाम् । आधानानन्तरमनुष्ठीयमानदर्शपूर्णमासज्योतिष्टोमादिक्रतुविधीनाम् । ज्ञाना-
क्षेपशक्तेरभावेनेति । उत्तरक्रतुविधयः स्वविषयानुष्ठानार्थं तद्विषयकं ज्ञानमपेक्षमाणाः
प्रमाणान्तरसिद्धार्थज्ञानवन्तं पुरुषमादाय तेनैव कृतार्था इति न तेषु स्वातन्त्र्येण ज्ञानाक्षे-
पकत्वशक्तिः कल्प्यते, गौरवादिति भावः । अत एव उत्तरक्रतुविधीनामग्निमद्विद्यावद्वि-