2023-02-20 11:47:28 by ambuda-bot
This page has not been fully proofread.
१०२
मीमांसान्यायप्रकाशः
[ अधिकार विधि-
एवञ्च तत्तत्पशपाकरणानां स्वस्वनियोजनैस्तुल्यं षोडशक्षणैर्य वधानं
भवति । अन्यथा केषांचिदत्यन्तव्यवधानं केषांचिञ्चाव्यवधानं स्यात् ।
तच्च न युक्तम् । तस्मात् येन क्रमेण प्रथमपदार्थोऽनुष्ठितस्तेनैव द्वितीयो.
अनुष्ठेयः । तत्सिद्धं प्रथमानुष्ठित पदार्थक्रमात् यो द्वितीयपदार्थक्रमः स
प्रवृत्तिक्रम इति ।
तदेवं निरूपितः संचेषतः पडविधक्रमनिरूपयेन प्रयोगविधिव्यापारः ॥
(अधिकारविधिनिरूपणम् )
फलस्वाम्यबोधको विधिरधिकारविधिः । फलस्वाभ्यं च कर्मजन्यफ-
लभोक्तृत्वम् । स च 'यजेत स्वर्गकाम' इत्येवंरूपः । अनेन हि स्वर्गमुद्दिश्य
यागं विदधता स्वर्गकामस्य यागजन्य फलभोक्तृत्वं प्रतिपाद्यते ।
'यस्याहिताग्नेरनिगृहान दहेत् सोऽग्नये क्षामवते पुरोडाशमष्टा-
ऽपि तस्याकरणे प्रयोगविध्यवगतसाहित्यं बाध्येतेति श्रानुमानिकं नैरन्तयें बाधित्वाऽपि
पदार्थानुसमयस्यैवाश्रयणीयत्वात् । तदेतत्सर्वं मनसि निघायाह - श्रत इत्यादिना ।
षोडशच खै रित्युपलक्षणमसम्बन्धिपदार्थान्तरीय क्षणानाम् । केषांचियेति । चका-
रादल्पव्यवधानस्य ग्रहणम् । प्रवृत्तिक्रमनिरूपणमुपसंहरति - तदिति । पञ्चमाध्यायार्थभू•
तप्रयोग विधिनिरूपणमुपसंहरति तदेवमिति ।
-
(विधिनिरूपणम् )
क्रमप्राप्तमधिकारविधि निरूपयति – फलस्वाम्येति । कीदृशमत्र फलस्वाम्यमित्यत
ग्राह- फलस्वाभ्यं चेति । एवञ्च यो यरफलमभिलषति स तत्साधने यागादौ अधिक-
शेतीति अधिकारबोषकत्वादस्य अधिकार विधित्वमित्यर्थः । स च अधिकारविधिश्च ।
स्वर्गमुद्दिश्येति । यद्यप्यत्र पुरुष विशेषणं स्वर्ग कामशब्दः तमेवाभिधातुं शक्नोतीति
न स्वर्गस्योद्देश्यता प्रतीयते तथापि स्वार्थे पुरुषस्य प्रवृत्त्यनुदयात् विधिबलेन भाव
नायाः पुरुषार्थंभाव्यकत्वे अवश्याभ्युपगते तद्विशेषाकाङ्क्षायां स्वर्गकामपदेन विशिष्टफला.
पेक्षिणः पुरुषस्य शेषित्वबोधनात् विशेष्यस्य आख्यातादेव प्राप्तत्वेन विशेषणभूतस्वर्गा-
दिमात्र पर स्वर्गकामादिपदम्, प्रथमा च कर्मत्वपरेत्यभिसन्धायैवमभिहितम् । यागं
विदधतेति । षष्ठाद्यन्यायेन स्वर्गे भाव्यत्वेनान्विते भावार्थाधिकरणन्यानेन धात्वर्थस्य
करणत्वेनान्वयस्य युक्तत्वादिति भावः ।
नन्वेचं सति नित्ये नैमित्तिके च पुंसः अधिकारी न स्यात्, तत्र कर्मजन्यफलस्यै
वाभावेन तद्भोक्तृत्वस्य दूरागस्तत्वात् । न च विश्वजिन्न्यायेन स्वर्ग़ः, रात्रिसत्रन्यायेन
'धर्मेण पापमपनुदती' ति वाक्यशेषश्रवणात् पापक्षयो वा फळत्वेन कल्प्यतामिति
वाच्यम् । निमित्तफलयोः उभयोः एकस्मिन् वाक्ये उद्देश्यत्वाङ्गीकारे वाक्यमेदापत्तेः ।
उक्तं च - "निमित्तफलसम्बन्ध एकवाक्ये न युज्यते ।
उद्देश्यद्वयसम्बन्धे वाक्षभेदः प्रसज्यते" ॥ इति ।
श्रत माह - यस्याहिताग्नेरिति । श्रयं भावः - भावनाया: इष्टभाव्यकत्वस्वाभा-
T