2023-02-20 11:47:29 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचनी व्याख्यासंवलितः
तस्य प्राणिद्रव्य करन दैक्षविकृतित्वात् । सवनीयाच्चैकादशिनेषु प्राप्तम्,
सुत्याकालत्वसामान्यात् । तेभ्यश्च प्राजापत्येषु प्राप्तम्, गणत्वसामान्यात् ।
प्राजापत्येषु च प्रतिपशु यागभेदाचोदका भिद्यन्ते । मतश्बोदकांत्तत्त
त्पश्वङ्गभूतानामुपाकरणनियोजनादीनां साहित्यमानन्तर्यापरपर्यायं प्राप्तम् ।
श्रत एकस्यु पशोरुपाकरणानन्तरमेव नियोजनं चोदकबलात् कर्तव्य-
स्वेन प्राप्तम् । तत्तु न क्रियते, प्रत्यक्षवचनावगतसर्वपश्वङ्गसाहित्यानुपपत्तेः ।
श्रत एकस्मिन् पशावुपाकरणे कृते तदनन्तरमेव कर्तव्यत्वेन प्राप्त
मपिनियोजनंन क्रियते । प्रत्यक्षवचनबलात्तु पश्चन्तरेषु षोडशसु उपाकरण-
मेव क्रियते । कृते तु तेषूपाकरणे प्रथमपशोर्नियोजनस्य तदीयोपाकर-
गेन व्यवधाने प्रमाणाभावात् प्रथमपशावेव नियोजनं कार्यम् । अतश्च येन
क्रमेणोपा करणं कृतं तेनैव क्रमेण नियोजनं कार्यम् ।
यद्विहितं तदित्यर्थः । चोदकेन प्रतिदेशेन । तत्र कारणमाह - तस्येति ! सवनीय-
स्येत्यर्थः : । प्राणिद्रव्यकत्वेनेति । सवनीयस्यापि पशुद्रव्य कत्वात् अग्नीषोमीयस्यापि तथा-
त्वात् उभयोः सादृश्यसत्वादित्यर्थः । ऐकादशिनेष्विति । "प्राग्नेयः कृष्णप्रीवः,
सारस्वती मेषो, बभ्रुः सौभ्यः, पौष्णः श्यामः, शितिपृष्ठो बार्हस्पत्यः, शिल्पो
वैश्वदेवः, ऐन्द्रोऽरुणः, मारुतः कल्माषः, ऐन्द्राग्न सस हितोऽघोरामः सावित्रः,
वारुणः पेत्वः" इति विहितेषु पशुब्वित्यर्थः । सुत्या कालत्वसामान्यादिति । प्राणि-
द्रव्यकत्वरूपसादृश्येन स्याप्यधिक सादृश्यस्य सत्वादित्यर्थः । तेभ्यः ऐकादशिने-
भ्यः । गणत्वसामान्यादिति । प्राजापत्यानां पशुसमुदाय रूप गणस्वादै कादशिनानामपि
गणत्वात् सादृश्यसद्भावादित्यर्थः । अत्रापि पूर्ववत् सादृश्याधिक्यादित्येव व्याख्येयम् ।
सर्वमेतन्निरूपितमष्टमे ।
ननु प्राजापत्यगणस्य एकत्वात् स्त्रप्रकृतितः एक एव अतिदेश इति तावत्स्वपि प
शुषु सकृदेवोपाकरणादीनामनुष्ठेयतया अनेकेषां तेषामप्रसतत्वात् कथं साहित्यप्राप्तिः ?
- प्राजापत्येध्विति । यागभेदादिति । एवम्ब गणत्वे सत्यपि तत्तद्रव्यदे-
बतासम्बन्धभेदादिना यागभेदस्य द्वितीये निरूपितत्वात् तेषां च पृथक् पृथग्धर्मापेक्षत्वेन
प्रत्येक मतिदेशतो धर्माणां प्राप्तिः स्यादेवेति भावः । उपाकरणमेव क्रियत इति ।
एतेन प्राजापत्यपशुषूपाकरणादीनां पदार्थानुसमय एव, न काण्डानुसमय इति पाश्चमिकः
सिद्धान्तः सूचितः । न च एकस्मिन् पशौ सर्वमुपाकरणाद्यङ्गजातमनुष्ठाय अपरमिन्
पशौ तस्यानुष्ठानेऽपि तावत एवं व्यवधानस्य सम्भवेन अङ्गप्रधानयोस्तुल्यव्यवधानसम्भ-
वात् किमर्थं प्रकृतिप्राप्तमेकस्मिन् पशौ तदीयोपाकरणनियो जनयोरानन्तर्ये बाधित्वा पदा.
र्थानुसमय श्राश्रीयत इति वाच्यम् । "वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ती"ति प्रत्यक्ष-
वचनेन प्रधानानामिव अज्ञप्रधानयोरपि साहित्यबोधनात् एकस्मिन् क्षणे तेषामपि युगप
दुपकर्तव्यतायाः प्राप्तत्वात्। अतश्च यस्मिन् क्षणे एकस्मिन पशावुपाकरणं प्राप्तं तस्मिन्नेव
क्षणे पश्वन्तरेऽपि तत्प्राप्तम् । तत्तु अशक्यानुष्ठानत्वान कियते प्रथमक्षणे । द्वितीय क्षणे-