2023-02-28 10:02:13 by Veera Raagavan
This page has been fully proofread once and needs a second look.
यथा-प्राजापत्याङ्गेषु । प्राजापत्या हि 'वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्ती'ति
वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः, अत-
स्तेषां तदङ्गानां चोपाकरणनियोजनप्रभृतीनां साहित्यं संपादनीयम् ।
तत्र प्राजापत्यानां संप्रतिपन्नदेवताकत्वेनैकस्मिन् कालेऽनुष्ठानादुप-
पद्यते साहित्यम् । तदङ्गानां चैकस्मिन् कालेऽनुष्ठानमशक्यम् । न ह्यनेकेषां
पशूनामुपाकरणमेकस्मिन् काले कर्तुं शक्यम् । अतस्तेषां साहित्यमव्यव-
धानेनानुष्ठानात् संपाद्यम्-एकस्योपाकरणं कृत्वाऽपरस्योपाकरणमिति ।
अतः प्राजापत्येषु एकं पदार्थं सर्वत्रानुष्टाय द्वितीयः पदार्थोऽनुष्ठेयः । तत्र
प्रथमपदार्थानुष्ठानं कस्माच्चित्पशोरारभ्य कर्तव्यम् । द्वितीयस्तु पदार्थो येन
क्रमेण प्रथमोऽनुष्ठितः तेनैव क्रमेणानुष्ठेयः प्रयोगविध्यवगतस्य मिथोऽ-
ङ्गसाहित्यस्योपपत्तये ।
प्रयोगविधिना हि दैक्षे तदङ्गानामुपाकरणनियोजनादीनां मिथः साहित्य-
मानन्तर्यापरपर्यायं विहितम् । तच्च साहित्यं सवनीयपशौ चोदकेन प्राप्तम्,
[commentary]
स प्रवृत्तिक्रम इत्यर्थः । उदाहरति-प्राजापत्येष्विति । वाजपेये हि 'सप्तदश प्राजा-
पत्यान् पशूनालभते' इति वाक्येन प्रजापतिदेवताका: सप्तदश पशव आम्नातास्ते-
ष्वित्यर्थः । तदेवोपपादयति-प्राजापत्या हीति । सेतिकर्तव्यताका इति । अयमा-
शयः-- यत्र हि तृतीयानिर्देशः तत्र तृतीयाप्रकृत्यर्थस्य करणत्वमवगम्यते, तच्च करणत्वं
फलजनकत्वरूपम्, तच्च न प्रधानमात्रस्य सम्भवतीत्यङ्गविशिष्टस्यैव तद्वाच्यम् । एवञ्च
तत्र साङ्गस्य प्रधानस्य भावनाकरणत्वं, न तु प्रधानमात्रस्य, यथा- 'अप्स्ववभृथेन
चरन्ति" "उच्चैः प्रवर्ग्येणे"त्यादौ, तत्र साङ्ग एव अवभृथे अब्रूपदेशविधानम्, साङ्ग
एव च प्रवर्ग्ये स्वरविधानम्, न तु यत्र द्वितीयानिर्देशस्तत्र । तत्र करणत्वस्याप्रतीयमानत्वेन
प्रधानमात्रस्यैवोद्देश्यत्वात्, यथा-"यज्ञाथर्वणं वै काम्या इष्टयस्ता उपांशु कर्तव्या"
इत्यादौ, प्रकृतेऽपि तृतीयानिर्देशात् साङ्गेष्वेव पशुषु द्वन्द्वोपात्तसाहित्यस्यान्वयो वक्तव्यः ।
एवञ्च प्रधानेष्विव अङ्गेष्वपि एककालानुष्ठेयत्वरूपं साहित्यं प्राप्तमिति तद्यद्यपि प्रधानाना-
मेकदेवताकत्वात् युगपदनुष्ठानं सम्भवति, अङ्गानां तु विभिन्नदेवताकत्वा देककालानुष्ठाना-
सम्भवेन अविलम्बापरपर्यायप्राशुभावे पर्यवस्यति । अतः तत्सिध्यर्थं प्रथममङ्गमुपाकरण-
रूपं यस्मिन् कस्मिंश्चित् पशावारभ्य केनचित् क्रमेणानुष्ठेयम् । द्वितीयं त्वङ्गं नियोजनं
यस्मिन् पशावुपाकरणमारभ्य येन क्रमेण कृतं तस्मिन्नेव पशौ आरभ्य तेनैव क्रमेण
कर्तव्यमित्याह—तत्रेत्यादिना । सम्प्रतिपन्नदेवताकत्वेनेति । एकदेवताकत्वेने-
त्यर्थः । एकस्मिन् कालेऽनुष्ठानादिति । प्रयोगविधिना साङ्गानां प्रधानानां यौग-
पद्यबोधनात् यत्र विभिन्नदेवताकस्थले तदसम्भवः तत्र क्रमापेक्षायां पाठादीनां क्रमनियाम-
कत्वेऽपि यत्रैकदेवताकस्थले यौगपद्यसम्भवस्तत्र तन्त्रानुष्ठानस्यैव उचितत्वादिति भावः ।
'प्रजापतेर्जायमानाः' 'इमं पशुं पशुपते' इति मन्त्रद्वयेन बर्हिर्भ्यां प्लक्षशाखया च
पशोरुपस्पर्शनपूर्वकं देवतार्थत्वेन संकल्पनमुपाकरणम् । यूपे पशोर्बन्धनं नियोजनम् ।
प्राजापश्येषु उपाकरणादिप्राप्तिमुपपादयति-प्रयोगविधिनेति । तच्चेति । दैक्षे