2023-02-28 09:16:19 by Veera Raagavan
This page has been fully proofread once and needs a second look.
पांशुयाजाज्यनिर्वापो मुख्यक्रमान्न पूर्वमनुष्ठीयते, तस्य दुर्बलस्यात्वात् । पाठ-
क्रमात्तु पश्चादनुष्ठीयते, तस्य प्रबलत्वादिति ।
स चायं मुख्यक्रमः प्रवृत्तिक्रमाद्बलवान् । प्रवृत्तिक्रमे ह्याश्रीयमाणे बहू-
नामङ्गानां प्रधानविप्रकर्षो भवति, अस्मिंस्तु आश्रीयमाणे सन्निकर्षः । तद्यथा–-
दर्शपूर्णमासयोरादावाग्नेयस्यानुष्ठानं, ततः सान्नाय्यस्य । तद्धर्माश्च केचित् पूर्व-
मनुष्ठीयन्ते । तत्र यदि प्रवृत्तिक्रममाश्रित्य तद्धर्माः सर्वे पूर्वमनुष्ठीयेरन्, तत
आग्नेयधर्माः, तत आग्नेयानुष्ठानं, ततः सान्नाय्यानुष्ठानम्, तदा तद्धर्माणां
स्वप्रधानेन सह द्वाभ्यामाग्नेयधर्मतदनुष्ठानाभ्यां विप्रकर्षः स्यात् ।
यदा तु सान्नाय्यधर्माणां केषाञ्चित् पूर्वमनुष्ठानेऽपि अन्ये सर्वे मुख्य-
क्रममाश्रित्याग्नेयधर्मानुष्ठानानन्तरमनुष्ठोयन्ते तदा सर्वेषामाग्नेयधर्मसा-
नाय्यधर्माणामेकैकेन विजातीयेन व्यवधानं भवति;--आग्नेयधर्माणां स्व-
प्रधानेन सह सान्नाय्यधर्मैर्व्यवधानात् सान्नय्यधर्माणां च स्वप्रधानेन
सहाग्नेयानुष्ठानेन व्यवधानात्-इति न विप्रकर्षः । तस्मात् मुख्यक्रमः
प्रवृत्तिक्रमाद्बलवान् ॥
( प्रवृत्तिक्रमनिरूप<error>णा</error> <fix>ण</fix>म् )
सह प्रयुज्यमानेषु प्रधानेषु सन्निपातिनामङ्गानामावृत्त्यानुष्ठाने कर्तव्ये
द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमात् यः क्रमः स प्रवृित्तिक्रमः ।
[commentary]
पुरोडाश:, उपांशुयाजः आज्यहविष्कः, अग्नीषोमीयः पुरोडाशः इति त्रीणि प्रधा-
नानि । तत्र आग्नेयाग्नीषोमीययोः पौर्वापर्यं तु तदीययाज्यानुवाक्याक्रमादित्युक्तं पूर्वम् ।
उपांशुयाजश्च 'उपांशुयाजमन्तरा यजती' ति वाक्येन आग्नेयाग्नीषोमीययोर्मध्ये कर्तव्य-
तया विहित इति तेनैव क्रमेण तेऽनुष्ठीयन्ते । तत्र च तदङ्गभूतहविर्निर्वापाः, अग्नये
जुष्टं निर्वपाम्यग्नीषोमाभ्याम्' इत्यादिना विहिताः । एवं च अत्र मुख्यक्रमानुरोधेन
आग्नेयानन्तरमग्नीषोमीयात्पूर्वं कर्तव्य आज्यनिर्वापः, अथ वा पाठकमानुसारेण अन्त
एवेति सन्देहे मुख्यक्रमापेक्षया पाठक्रमस्य प्राबल्यात्तदनुसारेणान्त एवानुष्ठानमिति ।
एवं मुख्यक्रमस्य पाठक्रमापेक्षया दौर्बल्यं निरूप्य इदानीं तस्य प्रवृत्तिक्रमापेक्षया
प्राबल्यं निरूपयति--स चेति । प्रवृत्तिक्रमस्य दौर्बल्ये कारणमाह--प्रवृत्तीति । त-
द्धर्माः सानाय्यधर्माः । केचिदिति । शाखाच्छेदनवत्सापकरणादय इत्यर्थः । पूर्वमि-
ति । तेषां पूर्वं पठितत्वेन पाठक्रमानुसारेण पूर्वमेवानुष्ठानस्य प्राप्तत्वादिति भावः ।
तद्धर्माणां सानाय्यधर्माणाम् ।
( प्रवृत्तिक्रमनिरूपणम् )
एवं मुख्यक्रमं निरूप्य प्रवृत्तिक्रमं निरूपयति--सहेति । युगपदनुष्ठीयमानेष्वित्य-
र्थः । सन्निपातिनामिति । सन्निपत्योपकारकाणामित्यर्थः । यत्र बहूनां प्रधानानामेकका-
लकर्तव्यता प्राप्ता तत्र तदङ्गानामपि सन्निपत्योपकारकाणां युगपदनुष्ठानं प्राप्तम्त,
तच्चाश
क्यमित्येकैकस्मिन् प्रधानेऽङ्गावृत्यामवश्यं भाविन्यां तत्र यत्प्रधानमारभ्य येन क्रमेण प्रा-
थमिकाङ्गानुष्ठानं कृतं तेनैव क्रमेण तदेव प्रधानमारभ्य द्वितीयाङ्गानुष्ठानमिति यः क्रमः