This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
&
 
पांशुयाजाज्यनिर्वापो मुख्यक्रमान्न पूर्वमनुष्ठीयते, तस्य दुर्बलस्यात् । पाठ.
क्रमात्तु पश्चादनुष्ठीयते, तस्य प्रबलत्वादिति ।
 
स चायं मुख्यक्रमः प्रवृत्तिक्रमादलवान् । प्रवृत्तिकमे ह्याश्रीयमाणे बहू-
नामङ्गानां प्रधानविप्रकर्षो भवति, अस्मिंस्तु माश्रीयमाणे सन्निकर्षः । तद्यथा-
पूर्णग्नेयानुष्ठानं, ततः सान्नाय्यस्य । तद्धर्माश्च केचित् पूर्व-
मनुष्ठीयन्ते । तत्र यदि प्रवृत्तिकममाश्रित्य तद्धर्माः सर्वे पूर्वमनुष्ठीयेरन्, तत
आग्नेयधर्माः, तत आग्नेयानुष्ठानं, ततः सान्नाय्यानुष्ठानम् तदा तद्धर्माणां
स्वप्रधानेन सह द्वाभ्यामाग्नेयधर्म तद्नुष्टानाभ्यां विप्रकर्षः स्यात् ।
 
9
 

 
यदा तु सान्नाय्यधर्माणां केषाश्चित् पूर्वमनुष्ठानेऽपि अन्ये सर्वे मुख्य-
क्रममाथित्याग्नेयधर्मानुष्ठानानन्तरमनुष्ठोयन्ते तदा सर्वेषा नाग्नेयधर्मंसा-
नाथ्यधर्माणामेकैकेन विजातीयेन व्यवधानं भवतिः - श्राग्नेयधर्माणां स्व.
प्रधानेन सह सान्नाय्य धर्मेन्र्यवधानात् सान्नय्यथर्माणां व स्वप्रधानेन
सहाग्नेयानुष्ठानेन व्यवधानात्
इति न विप्रकर्षः । तस्मात् मुख्यक्रमः
प्रवृत्तिक्रमाद्वलवान् ॥
 
( प्रवृत्तिक्रमनिरूपणाम् )
 
सह प्रयुज्यमानेषु प्रथानेषु सन्निपातिनामङ्गानामावृत्त्यानुष्ठाने कर्तव्ये
द्वितीयादिपदार्थानां प्रथमानुष्ठित पदार्थकमात् यः क्रमः स प्रवृित्तिक्रमः ।
 
पुरोडाश:, उपांशुयाजः श्राज्यहविष्क, अग्नीषोमीयः पुरोडाशः इति श्रीणि प्रधा.
नानि । तत्र आग्नेयाग्नीषोमीययोः पौर्वापर्यं तु तदीययाज्यानुवाक्याक्रमादित्युक्तं पूर्वम् ।
उपांशुयाज 'उपांशुयाजमन्तरा यजती' ति वाक्येन आयामोषोमीययोर्मध्ये कर्तव्य-
तया विहित इति तेनैव क्रमेण तेऽनुष्ठीयन्ते । तत्र च तदशभूतहविर्निर्वानाः, अग्नये
जुष्टं निर्वपास्यग्नीषोमाभ्याम्' इत्यादिना विहिताः । एवं च अत्र मुख्यक्रमानुरोधेन
आग्नेयानन्तरमनीषोमी यात्पूर्व कर्तव्य ज्यनिर्वापः अथ वा पाठकमानुसारेण अन्त
एवेति सन्देहै मुख्यक्रमापेक्षया पाठक्रमस्य प्राबल्यात्तदनुसारेणान्त एवानुष्ठानमिति ।
 
}
 
-
 
एवं मुख्यक्रमस्य पाठक्रम । पेक्षया दौर्बल्यं निरूप्य इदानीं तस्य प्रवृत्तिकमापेक्षया
प्राबल्यं निरूपयति - स चेति । प्रवृत्तिक्रमस्य दौर्बल्ये कारणमाह - प्रवृत्तीति । त.
•द्धर्माः सानाय्यधर्माः । केचिदिति । शाखाच्छेदनवरसापाकरणादय इत्यर्थः । पूर्वमि
ति । तेषां पूर्वं पठितरवेन पाठक्रमानुसारेण पूर्व मेवानुष्ठानस्य प्राप्तत्वादिति भावः ।
तद्धर्माणां सानाय्यधर्माणाम् ।
 
107
 
( प्रवृत्तिकम निरूपणम् )
 
एवं मुख्यक्रमं निरूध्य प्रवृत्तिक्रमं निरूपयति - सहेति । युगपदनुष्ठीय मानेण्विस्य.
र्थः । सन्निपातिनामिति । सन्निपत्योपकारकाणामित्यर्थः । यत्र बहूनां प्रधानाना मेकका•
लकर्तव्यता प्राप्ता तत्र तदङ्गानामपि सन्निपत्योपकारकाणां युगपदनुष्ठानं प्राप्तम् तच्चाश•
क्यमित्येकै कस्मिन् प्रधानेऽङ्गावृत्यामवश्यं भाविन्यां तत्र यत्प्रधानमारभ्य येन क्रमेण प्रा.
यमिकाज्ञानुष्ठानं कृतं तेनैव क्रमेण तदेव प्रधानमारभ्य द्वितीयाज्ञानुष्ठानमिति यः क्रमः