2023-02-28 06:50:01 by Veera Raagavan
This page has been fully proofread once and needs a second look.
आग्नेययागैन्द्रयागयोः पौर्वापर्यात् । अत्र हि द्वयोरभिघारणयोः स्वेन
स्वेन प्रधानेन तुल्यमेकान्तरितव्यवधानं भवति, आग्नेयहविरभिघारणा-
ग्नेययागयोः ऐन्द्रयागहविरभिघारणेन व्यवधानात् । ऐन्द्रयागहविरभिघा-
रणैन्द्रयागयोश्चाग्नेययागेन व्यवधानात् । अतश्चादावाग्नेयहविरभिघारणम्,
तत ऐन्द्रस्य हविषः, तत आग्नेययागः, ततश्चैन्द्रो यागः, इत्येवंक्रमो मुख्य-
क्रमात् सिद्धो भवति ।
यदि तु आदावैन्द्रहविषोऽभिघारणं, तत आग्नेयस्य क्रियते, तदा याज्या-
नुवाक्याक्रमवशादादावाग्नेयस्यानुष्ठानादाग्नेययागतदङ्गहविरभिघारणयोर-
त्यन्तमव्यवधानम्, ऐन्द्रयागतदङ्गहविरभिघारणयोरत्यन्तं व्यवधानं स्यात्,
तच्च न युक्तम् । अतो युक्तः प्रयाजशेषाभिघारणस्य मुख्यक्रमात् क्रम इति ॥
स चासौ मुख्यक्रमः पाठक्रमात् दुर्बलः । मुख्यक्रमो हि प्रमाणान्तर-
सापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्बित[^१] प्रतिपत्तिकः, पाठक्रमस्तु
निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति बलवान् ।
अत एव आग्नेयोपांशुयाजाग्नीषोमीयाणां क्रमेणानुष्ठीयमानानामप्यु-
[commentary]
प्रयाजहोमानन्तरं श्रुतम्--प्रयाजशेषेण हवींष्यभिघारयतीति । तेन प्रयाजानिष्ट्वा
तच्छेषेण वेद्यामासादितानां प्रधानहविषामभिघारणं कर्तव्यतया प्राप्तम् । तत्र दर्शे तावत्
त्रीणि हवींषि--आग्नेयः पुरोडाशः, ऐन्द्रं दधि, ऐन्द्रं पयश्चेति । तत्र त्रयाणां मध्ये प्रथमं
कस्य हविषोऽभिघारणमनन्तरं च कस्येत्याकाङ्क्षायामाग्नेयस्यैव प्रथममनुष्ठेयत्वेन तदङ्ग-
हविरभिघारणस्यैव प्रथममनुष्ठानम्, अनन्तरमेव दध्नः, दधियागस्य पश्चादनुष्ठीयमा-
नत्वात् । एवं च प्रयोगविध्यवगतस्य साहित्यस्यानुग्रहो भवतीति । प्रयोगविध्यवगतसा-
हित्यानुग्रहमेवोपपादयति--अत्र होति ।
वैपरीत्येनानुष्ठाने बाधमाह--यदि त्विति । ननु आग्नेययागैन्द्रयागयोः पौर्वापर्ये
किं बीजम् ? अत आह-याज्यानुवाक्याक्रमवशादिति । तैत्तिरीयब्राह्मणे तृतीयाष्टके
पश्चमप्रपाठके सप्तमानुवाके "अग्निर्मूर्धा दिवः" "भुवो यशस्य" इत्याग्नेय्यौ
याज्यानुवाक्ये आम्नाय ततः प्राजापत्याग्नीषोमीयैन्द्राग्नयाज्यानुवाक्याः पठित्वा अनन्तरं
एन्द्र सानसिꣳरयिं" "प्र ससाहिषे" इत्यैन्द्र्यौ याज्यानुवाक्ये आम्नाते । एवं च
प्रथमतः आग्नेययाज्यानुवाक्ययोः अनन्तरमैन्द्रयाज्यानुवाक्ययोश्च पाठात्तत्क्रमानुसा-
रेणेत्यर्थः ।
एवं मुख्यक्रमं निरूप्य तस्य पाठक्रमापेक्षया दौर्बल्यं निरूपयति- स चेति ।
प्रमाणान्तरेति । क्वचिद्ब्राह्मणपाठक्रमात् क्वचिच्च याज्यानुवाक्याक्रमादित्यर्थः । प्रमा-
णान्तरसापेक्षेति । याज्यानुवाक्यापाठादिरूपप्रमाणान्तरसापेक्षः प्रधानक्रमः, तत्प्र-
तिपत्तिमपेक्षते चाङ्गानां क्रम इति विलम्बेन प्रतिपत्तियोग्य इत्यर्थः ।
अत एव मुख्यक्रमस्य पाठकमापेक्षया दौर्बल्यादेव। पौर्णमास्यां हि आग्नेयः
[^१] प्रवृत्तिकः ।