This page has been fully proofread once and needs a second look.

मोमांसान्यायप्रकाशः
 
[ स्थानक्रम
 
( स्थानक्रम निरूपणम् )
 

 
प्रकृतौ नानादे ([^)] शानां पदार्थानां विकृतौ वचनादै देकस्मिन् देशेऽनु-

ष्ठाने कर्तव्ये यस्य देशेऽनुष्ठीयन्ते तस्य प्रथममनुष्ठान मितरयोस्तु पश्चात् - (--[^)
श्र
]
यं यः क्रमः स स्थानक्रम ।
 
मः ।
 
स्थानं नामोपस्थितिः । यस्य हि देशेऽनुष्ठोठीयते तत्पूर्वतने पदार्थोंथे कृते स

एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुष्ठानम् । अत एव साद्यस्के
क्रे
ग्नीषोमीयसवनीयानुन्ध्यानां सवनीयदेशे सहानुष्ठाने कर्तव्ये आदौ सव-

नीयपशोरनुष्ठानम्; तस्मिन्देशे आश्विनग्रहणानन्तरं सवनीयस्यैव प्रथममुप:
-
स्थिते:तेः ; इतरयोस्तु पश्चात् ।
 

 

 
तथा हि--ज्योतिष्टोमे त्रयः पशुयागाः-- अग्नीषोमीयः, सवनीयः, श्रानु.

बन्ध्यश्चेति । ते च भिन्नदेशाः । अग्नीषोमीय औवसथ्येऽह्नि, सवनीयः सु

त्याकाले, प्रानुबन्ध्यस्त्वन्ते । साद्यस्कोक्रो नाम सोमयागविशेषः । स चाव्य.
-
तत्वात् ज्योतिष्टोमविकारः । श्रुतस्ते त्रयोऽपि पशुयागाः साद्यस्त्क्रे चोद-

कप्राप्ताः । तेषां च ([^)] तत्र साहित्यं श्रुतं - --'सह पशूनालभेत' इति ।

तच्च साहित्यं सवनीयदेशे; तस्य प्रधानप्रत्यासत्तेः, स्थानाति
क्र-
मसाम्याच्च । सवनीयदेगे धशे ह्यनुष्ठाने क्रियमाणे अग्नीषोमीयानुबन्ध्ययोः

स्वस्वस्थानितिक्रममात्रं भवति, अग्नीषोमोयदेशे ह्यनुष्ठाने क्रियमाणे सव
-
नीयस्य स्वस्थानातिकममात्रम्, आनुबन्धस्य तु स्वस्थानातिक्रमः सवनी.
-
यस्थानातिक्रमश्च स्यात् । एवमानुबन्ध्यदेशेऽग्नीषोमीयस्य द्रष्टव्यः ।

 
[commentary]
 
योगकालोच्चरणाभावेन तत्कालिकस्मरणजनकत्वं तेषां दूरापेतमिति भावः ।
 

 
( स्थानक्रमनिरूपणम् )
 

 
क्रमप्राप्तं स्थानक्रममुदाहरति--प्रकृताविति । नानादेशानामिति । बहुव्रीहिरयम् ।
श्रश

अङ्ग
ताबोध कस्थानव्यावृत्तमत्र स्थानपदार्थमाह--स्थानं नामेति । युक्तमिति । उपस्थित्य
-
धीनस्वादनुष्ठानस्येति भावः । उक्तमर्थं क्वचित् सङ्गमयति- -साद्यस्क्र इति । साद्य-

स्क्रः एकदिनानुष्ठेयः सद्यः सोमक्कय रयविशिष्टः सोमयाग विशेषः । मानुबन्ध्यानामिति ।

पशुयागानामिति शेषः ।
 

 
सवनरूपसोमयाग सम्बन्घिरधित्वात्सवनीयः । ते पशुयागाः । भिन्नदेशा इति । भिन्न-

कालानुष्ठेया इत्यर्थः । तदेवोपपादयति- -अग्नोषोमीय इति । न्ते अवभृथानन्तरम् ।

ज्योतिष्टोमविकार इति । श्रमिअग्निष्टोमसंस्थाकज्योतिष्टोम विकृतिभूत इत्यर्थः । साहित्य-

मत्र एककालिकतन्त्रानुष्ठानरूपम् । प्रधानप्रत्यासत्तेरिति । प्रधानस्य सोमयागस्य

"समनन्तरानुष्ठेयत्वेन सन्निहितत्वादित्यर्थः । स्थानातिक्रमसास्म्यादिति । अग्नीषोमी-

यस्य स्वस्थानं परित्यज्य सवनीयदेशे उत्कर्षः । श्रानुबन्ध्यस्यापि स्वस्थानं परित्यज्य

सवनीयदेशे अपकर्ष इत्युभयोरेकैकं स्वं स्वं स्थानं परित्यज्य स्थानान्तरप्राप्तिरूपं साम्यं

भवतीत्यर्थः । तदेवोपपादयति- -सवनीयदेश इति ।
 

 
[^
.] देशस्थानां. [^]. एवं [^]. तत्र साहित्यं सह पशूनालभत इति विहितम् ।
 
-