This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ स्थानक्रम
 
( स्थानक्रम निरूपणम् )
 
प्रकृतौ नानादे (१) शानां पदार्थानां विकृतौ वचनादै कस्मिन् देशेऽनु-
ष्ठाने कर्तव्ये यस्य देशेऽनुष्ठीयन्ते तस्य प्रथममनुष्ठान मितरयोस्तु पश्चात् - (२)
श्रयं यः क्रमः स स्थानक्रम ।
 
● स्थानं नामोपस्थितिः । यस्य हि देशेऽनुष्ठोयते तत्पूर्वतने पदार्थों कृते स
एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुष्ठानम् । अत एव साद्यस्के
मग्नीषोमीयसवनीयानुवन्ध्यानां सवनीयदेशे सहानुष्ठाने कर्तव्ये आदौ सव-
नीयपशोरनुष्ठानम्; तस्मिन्देशे आश्विनग्रहणानन्तरं सवनीयस्यैव प्रथममुप:
स्थिते: ; इतरयोस्तु पश्चात् ।
 

 
तथा हि-ज्योतिष्टोमे त्रयः पशुयागाः-- अग्नीषोमीयः, सवनीयः, श्रानु.
बन्ध्यश्चेति । ते च भिन्नदेशाः । अग्नीषोमीय औषवसथ्येऽह्नि, सवनीयः सु
त्याकाले, प्रानुबन्ध्यस्त्वन्ते । साद्यस्को नाम सोमयागविशेषः । स चाव्य.
तत्वात् ज्योतिष्टोमविकारः । श्रुतस्ते त्रयोऽपि पशुयागाः साद्यस्त्रे चोद-
कप्राप्ताः । तेषां च (३) तत्र साहित्यं श्रुतं - 'सह पशूनालभेत' इति ।
तच्च साहित्यं सवनीयदेशे; तस्य प्रधानप्रत्यासत्तेः, स्थानातिक
मसाम्याच्च । सवनीयदेगे धनुष्ठाने क्रियमाणे अग्नीषोमीयानुबन्ध्ययोः
स्वस्वस्थानितिक्रममात्रं भवति, अग्नीषोमोयदेशे ह्यनुष्ठाने क्रियमाणे सव
नीयस्य स्वस्थानातिकममात्रम्, आनुबन्धस्य तु स्वस्थानातिक्रमः सवनी.
यस्थानातिक्रमश्च स्यात् । एवमानुबन्ध्यदेशेऽग्नीषोमीयस्य द्रष्टव्यः ।
योगकालोचरणाभावेन तत्कालिकस्मरणजनकत्वं तेषां दूरापेतमिति भावः ।
 
( स्थानक्रमनिरूपणम् )
 
क्रमप्राप्तं स्थानक्रममुदाहरति-प्रकृताविति । नानादेशानामिति । बहुव्रीहिरयम् ।
श्रशताबोध कस्थानव्यावृत्तमत्र स्थानपदार्थमाह-स्थानं नामेति । युक्तमिति । उपस्थित्य
धीनस्वादनुष्ठानस्येति भावः । उक्तमर्थ क्वचित सङ्गमयति- साद्यस्क इति । साद्य-
स्क्रः एकदिनानुष्ठेयः सद्यः सोमक्कय विशिष्टः सोमयाग विशेषः । मानुबन्ध्यानामिति ।
पशुयागानामिति शेषः ।
 
सवनरूपसोमयाग सम्बन्घिरवात्सवनीयः । ते पशुयागाः । भिन्नदेशा इति । भिन्न-
कालानुष्ठेया इत्यर्थः । तदेवोपपादयति- अग्नोषोमीय इति । मन्ते अवभृथानन्तरम् ।
ज्योतिष्टोमविकार इति । श्रमिष्टोमसंस्थाकज्योतिष्टोम विकृतिभूत इत्यर्थः । साहित्य-
मत्र एककालिकतन्त्रानुष्ठानरूपम् । प्रधानप्रत्यासत्तेरिति । प्रधानस्य सोमयागस्य
"समनन्तरानुष्ठेयत्वेन सन्निहितत्वादित्यर्थः । स्थानातिक्रमसास्यादिति । अग्नीषोमी-
यस्य स्वस्थानं परित्यज्य सवनीयदेशे उत्कर्षः । श्रानुबन्ध्यस्यापि स्वस्थानं परित्यज्य
सवनीयदेशे अपकर्ष इत्युभयोरेकैकं स्वं एवं स्थानं परित्यज्य स्थानान्तरप्राप्तिरूपं साम्यं
भवतीत्यर्थः । तदेवोपपादयति- सवनीयदेश इति ।
 
१. देशस्थानां. २. एवं ३. तत्र साहित्यं सह पशूनालभत इति विहितम् ।
 
-