2023-02-20 11:47:27 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ पाठक्रम-
जनयन्तीति युक्तं तेनैव क्रमेण तेषामनुष्ठानमिति । तत्सिद्धं प्रयाजानां ब्राह्मण-
पाठक्रमात् क्रम इति ।
Grut.
ननु - प्रयाजेषु प्रयोगसमवेतार्थस्मारकत्वं विधायकत्वेन कृतार्थानां ब्रा-
ह्मणवाक्यानां किमिति स्वोक्रियते, प्रयोगसमवेतार्थस्मारकाणां याज्यामन्त्रा-
सामाग्नेयादिष्विवात्रापि सत्त्वात् । न च तेषां देवतास्मारकत्वात् कर्मस्मार
कत्वेन ब्राह्मणवाक्यं स्वीक्रियते इति वाच्यम् । माग्नेयादिष्वषि, कर्मस्मार-
कस्वेन तत्स्वीकारापत्तेः ।
न चेष्टापत्तिः । तथा सति ब्राह्मणपाठान्मन्त्रपाठस्य बलोयस्त्वं न स्या.
त् । तडलीयस्त्वे हि मन्त्राणां प्रयोगसमवेतार्थस्मारकत्व मितरस्य तदस्मार.
कत्वं हेतुः । यदि च कर्मस्मारकत्वं ब्राह्मणवाक्यस्य स्वीक्रियते तदा प्रधान.
कम स्मारकत्वेन ब्राह्मणवाक्यस्यान्तरङ्गत्वात् अङ्गभूतदेवतास्मारकत्वेन च म
न्त्राणां बहिरङ्गत्वात् मन्त्रपाठाद्ब्राह्मणपाठस्यैव बलीयस्त्वं । स्यात् । तथा च
(१) 'मन्त्रतस्तु विरोधे स्यात्' इति पाञ्चमिकाधिकरणविरोधः । तत्र हि ब्राह्मण-
पाठान्मन्त्रपाठस्य बलीयस्त्वादादावाग्नेयानुष्ठानं पश्चादग्नीषोमीयस्येत्युक्तम् ।
-
अथ - आग्नेयादिषु याज्यामन्त्रा एव देवताप्रकाशनद्वारा कर्मप्रकाशकाः
त्यज्यमानद्रव्योद्देश्यत्वरूपत्वाद्देवतात्वस्येति--चेत्, तुल्यं प्रयाजेषु, तत्रापि
हि याज्यामन्त्रा देवताप्रकाशकाः । प्रयाजेषु देवताया मान्त्रवर्णिकत्वात् ।
तिसम्भवेनान्तरङ्गत्वात् तेषामेव क्रमबोधकत्वौचित्यात् कथं तान् परित्यज्य ब्राह्मणवाक्या-
नां क्रमबोधकत्वमङ्गीक्रियते इत्याशङ्कामिष्टापत्या परिहरिष्यन्, भाध्यादौ प्रयाजोदाहरण:
ह्य च कृत्वाचिन्तात्वमाविर्भावयिष्यन् प्रथमतः शङ्कामारचयति नन्वित्यादिना । तेषां
प्रयाजीययाज्या मन्त्राणाम् । तत्स्वीकारापत्तेः ब्राह्मणवाक्यस्वीकारापत्तेः । इतरस्य
ब्राह्मणवाक्यस्य । ननु – ब्राह्मणवाक्यानां कर्मस्मारकत्वेऽपि मन्त्राणां कर्मसम्बन्धिदेव
तास्मारकत्वेन प्रयोगसमवेतार्थस्मारकत्वानपायादुभयोरपि प्रयोगसमवेतत्वाविशेषात् कथं
मन्त्रपाठापेक्षया ब्राह्मणपाठस्य प्राबल्यं भवितुमर्हति इत्यता - यदि चेति । अङ्ग
भूतदेवतेति । प्रधानभूतयागायुद्देशेनैव द्रव्यदेवतयोर्विधानात् कर्मणः प्राधान्यम्,
द्रव्यदेवतयोरङ्गत्वम् । तत्रापि द्रव्यांपेक्षया देवताया अङ्गत्वमित्याद्यष्टमे विस्तरः । एवश्च
प्रयोगसमवेतार्थस्मारकत्वाविशेषेऽपि प्रधानस्मारकत्वेनान्तरङ्गत्वात प्राबल्यम्, अङ्गस्मा-
रकत्वेन बहिरङ्गत्वाद्दौर्बल्यमिति युक्तमेवेति भावः । मन्त्रपाठापेक्षया ब्राह्मणपाठस्य बली-
यस्त्वे दोषमाह -तथा चेति । "मन्त्रवस्तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात्
तस्मादुरपत्तिदेशः सः" इति सूत्रम् । अस्यार्थः - विरोधे मन्त्रब्राह्मण कमयोविंशेधे
मन्त्र पाठक्रमादेव पदार्थानुष्ठानकम: स्यात्, प्रयोगरूपसामर्थ्यात् मन्त्रस्य प्रयोज्य
पदार्थहमारणे सामर्थ्यात् तस्मात् सः ब्राह्मणपाठः उत्पत्तिदेशः कर्मोत्पत्तिमात्रबोधकः,
न प्रयोगकाले व्याप्नोतीति । पश्चादग्नीषोमीयस्येति । एतःच निरूपितमधस्तात् ।
'अन्याहशत्वात् विपरीतक्रमत्वात् । तस्यैच मन्त्रपाठबोधितस्यैव ।
१. जै.सू. ५. १. १६.