This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
४३
 
मन्त्रवाक्यस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगाद्हिरेव 'इदमेवं कर्तव्य'

मित्येवमवबोध्य कृतार्थमिति न पुनः प्रयोगकाले व्याप्रियते । मन्त्राः पुनरन
-
न्यप्रयोजनाः प्रयोगसमवेतार्थस्मारका इति वक्ष्यामः । तेनानुष्ठानक्रमस्य स्म-

रणक्रमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाघीधीनत्वादन्तरङ्गो मन्त्रपाठ इतरस्मा.
-
दिति बलवान् । अत एवाग्नेयाग्नीषोमीययोर्ब्राह्मण पाठादादावग्नीषोमीयानु-

ष्टाठानं, पश्चादाग्नेयानुष्ठानमित्येवं क्रमं बाधित्वा मन्त्रपाठादादावाग्नेयानुष्ठानं.

पश्चादग्नीषोमीयस्येत्येव क्रम इत्युक्तम् ॥
 

 
प्रयाजानां ( [^ )] "समिधो यजति' तनूनपातं यजति' इत्येवं विधायकवा
-
क्यक्रमात् यः क्रमः स ब्राह्मणपाठक्रमः । अत्र च यद्यपि ब्राह्मणवाक्यान्यर्थं

विधाय कृतार्थानि तथापि प्रयाजानां स्मारकान्तरस्याभावात् तान्येव स्मार-

कत्वेन स्वीक्रियन्ते । तथा च येन क्रमेण तान्यधीतानि तेनैव क्रमेणार्थस्मरणं

 
[commentary]
 
तस्य शान्ताकांक्षत्वादिति भावः । मन्त्राणामस्तु प्रयोगसमवेतार्थस्मारकत्वम् । तावता

प्रकृते किमायातम् ? अत आह--तेनेति । स्मरणक्रमाधीनत्वादिति । अज्ञातस्या-

स्मृतस्य वा अनुष्ठानासम्भवादिति भावः । तत्क्रमस्य स्मरणक्रमस्य । मन्त्रक्रमाधीनत्वा-

दिति । एवञ्च मन्त्रपाठक्रमानुरोधेन स्मरणम्, स्मरणानुरोघेधेनानुष्ठानमिति मन्त्रपाठस्या-

नुष्ठानौपयिकस्त्वात् तदनौपयिकात् ब्राह्मणपाठात् तस्य प्राबल्यमनुष्ठानविषये इत्याशयवा
-
नाइ – ह--अन्तरङ्गो मन्त्रपाठ इत्यादि । तत्रोदाहरणमाह --आग्नेयेति । तैत्तिरीय-

संहितायां द्वितीयकाण्डे पश्ञ्चमप्रपाठके द्वितीयेऽनुवाके "ताभ्यामेतमग्नीषोमीयमेका-

दशकपालं पूर्णमासे प्रायच्छत्" इत्यनेनाग्नीषोमीययागो विहितः । तत्रैव षष्ठप्रपाठ-

के तृतीयांयानुवाके "यदाग्नेयोऽष्टाक पालोऽमावास्यायां पौर्णमास्यां चाच्युतो

भवति" इत्याग्नेययागो विहितः । एवञ्च ब्राह्मणपाठक्रमादादा वग्नीषोमीयानुष्ठानं पश्चा-

दाग्नेयानुष्ठानञ्च प्राप्तम्, तद्वाघिधित्वा मन्त्रपाठक्रमेणैव क्रम आश्रीयत इति ।
 

 
ब्राह्मणपाठक्रममुदाहरति - --प्रयाजानामिति । समिधो यजतीति । अत्र समित्य-
प-
दं तत्प्रख्यन्यायेन कर्मनामधेयम् । समिन्नामकेन यागेन क्रतूपकारं भावयेदिति वाक्या-

र्थः । अनेन वाक्येनैकमेव कर्म विधीयते । बहुवचनं तु 'समिधो अग्न श्राज्यस्य व्यन्तु'

इति मन्त्रवर्णे समिद्देवतागतत्वेन बहुत्वस्य प्राप्तत्वात् बहुत्वसंख्या विशिष्टयागविधौ च

गौरवापत्तेः स्वाश्रयदेवत्ययागवृत्तित्वसम्बन्धेन एकत्वलक्षणार्थमिति ध्येयम् । एवं तनूनपा-

तादिवाक्येष्वपि द्रष्टव्यम् । ननु ब्राह्मणवाक्यानां प्रयोगाद्हिरेव अर्थविधायकत्वेन चारि-

तार्थ्यस्य पूर्वमुक्तत्वात् तेषां प्रयोगकालसम्बन्धस्यैवाभावात् कथं तेषां तत्सम्बन्धिक्रमबो-

धकत्वमित्याशङ्कय परिहरति--अत्र च यद्यपीति । स्मारकान्तरस्याभावादिति ।

एवञ्च यत्र कर्माङ्गभूतो मन्त्रः समस्ति तत्र मन्त्रपाठक्रमादेव क्रमः, यत्र स नास्ति, तत्र

ब्राह्मणपाठस्याप्यगत्या क्रमबोधकत्वमङ्गीकरणीयमिति भावः ।
 

 
ननु तैत्तिरीयशाखायां "समिधो ग्न आाज्यस्य व्यन्तु" "तनूनपाद
श्रा
ग्न
ज्यस्य वेतु" इत्यादीनां प्रयाजयाज्यामन्त्राणां पाठात् तेषां च प्रयोगकाले व्याप-
पृ-
 
[^
.] तै. स. २. १. १.१.
 
-
 
•C