This page has not been fully proofread.

भोमांसान्यायप्रकाशः
 
[ पाठक्रम-
स चायं पाठक्रमाद्वलवान् । यथापाठं ह्यनुष्ठाने क्लृप्तप्रयोजनबाघोऽदृष्टा-
र्थत्वं च स्यात् । न हि होमानन्तरं क्रियमाणस्य किंचित् दृष्टं प्रयोजनमस्ति ॥
 
(पाठकमनिरूपणम्)
 
पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच्च पदार्थानां क्रम
श्रीयते । येन हि क्रमेण वाक्यानि पठितानि तनैव क्रमेणाधीतान्यर्थप्रत्य
यं जनयन्ति । यथार्थप्रत्ययं च पदार्थानामनुष्ठानोत् ।
 
सच पाठो द्विविधः- मन्त्रपाठो ब्राह्मणपाठश्चेति । तत्राझेयाग्नीषोमीय.
योस्तत्तद्याज्यानुवाक्याक्रमात् यः क्रम माश्रीयते स मन्त्रपाठात् ।
 
स चायं मन्त्रपाठो ब्राह्मणपाठाइलवान्; अनुष्ठाने ब्राह्मणवाक्यापेक्षया
तीति वाक्येन अग्निहोत्रहोमोद्देशेन यवाग्वा विधानादिति भावः । प्रयोजनवशेन
होमनिष्पत्तिप्रयोजन सिध्यर्थम् । यद्यपि पाकस्य यवागृत्पत्तिरूपं दृष्टं प्रयोजनं सम्भवति,
तेच 'यवागूं पचती'ति द्वितीयया पाकस्य यवाग्वर्थत्वमेव, तथापि अनुपयुक्ताया
यवाग्वाः पाकप्रयोजनस्यैवानुपपत्तेः होमापूर्वीययवागूप्रयोजनकत्वमेव पाकस्य वक्तव्य-
मिति तदर्थत्वाभावे
त्वाभावे प्रयोजनबाघोऽस्त्येवेति हृदयम् ।
 
( पाठक्रमनिरूपणम् )
 
पाठक्रमं निरूपयति-पदार्थेति । पदार्थाः (अनुष्ठेयानि ) तत्सम्बन्धीनि वा नि
तद्विघायकानां ज्ञापकानां वा वाक्यानां यः मानुपूर्वीरूपेण यत् पठनं, स इत्यर्थः ।
तस्मात् पाठक्रमात् । वाक्यपाठक्रमानुरोधेन पदार्थानां क्रमाश्रयणे हेतुमाह - येन
होति । यादृशानुपूर्वीको ग्रन्थस्तादृशानुपूर्वी विशिष्टस्यैवाध्ययनम् । यथाध्ययनं चार्थ-
ज्ञानम् । यथार्थज्ञानमनुष्ठानमिति अनुष्ठाने पाठक्रमो नियामक इति । अर्थ प्रत्ययं
जनयन्तीति । अर्थप्रत्ययं अर्थविषयक निश्चयम् । लोके स्नायात्, भुजीत, व्रजेत्
इत्यादौ पाठानुसारेणैव अनुष्ठानप्रतिपत्तेः इद्दापि तथैव भवितुमुचितमिति भावः ।
 
-
 
पाठं विभजते - स चेति । श्रथमुदाहरति-तत्रेति । अत्रायं विषयः- दर्शपू
•र्णमास प्रकरणे मन्त्रकाडे प्रयाजाज्यभागदिमन्त्रपाठानन्तरं (१) 'अग्निर्मूर्द्धा' 'भुवो
यशस्य' इत्याग्नेययाज्यानुवाक्याद्वयमाम्नातम् । ततः उपांशुयाजमन्त्राम्नानानन्तरं
(२) अनीषोमा सवेदसा, 'युवमेतानि' इत्यग्नीषोमीयया ज्यानुवाक्याद्वयमानातम् ।
तत्र ब्राह्मणवाक्योरन्याशत्वेऽपि मन्त्रपाठमनुसृत्यैव प्रथममाझेयानुष्ठानम्, ततः
अग्नीषोमीयानुष्ठानमिति ।
न व्याप्रियत इति । तावतैव
 
मन्त्रपाठस्येतरापेक्षया प्राबल्यमाह - स चेति ।
 
१. अग्निमूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति । इति पुरोनुवाक्या ॥
( तै. ब्रा. ३. ५.१०. १. ) भुवो यशस्य रजसश्च नेता यत्रा नियुँद्भिस्सचसे शिवाभिः । दिवि मूर्षानं
दधिषे सुवर्षी जिह्वामग्ने चकृषे हव्यवाहम् इति याज्या । इति ।
 
२. अग्नीषोमा सवेदसा सहूती वनतंगिरः । सं देवत्रा बभूषथुः । इति पुरोनुवाक्या । युवमेतानि
दिबि रोचनान्यग्निश्च सोम सकतू अधत्तम् । युवँसिन्धू रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ।
इति यान्या ॥