This page has been fully proofread once and needs a second look.

रूपणम् ]
 
सारविवेचिनी व्याख्यासंवलितः
 
एकप्रसरताङ्गभयेन भक्षानुवादेन क्रममात्रस्य विधातुमशक्यत्वात् ।

 
( श्रुतिप्राबल्यनिरूपणम् )
 

 
सेयं श्रुतिरितरप्रमाणापेक्षया बलवती । तेषां वचन कल्पनद्वारा क्रमप्रमा.
पश्चा
-
णत्वा
त् । अत वाश्विनस्य पाठक्रमात्तृतीय स्थाने ग्रहणप्रसकोक्तौ 'आश्विनो

दशमो गृह्यते' इति वचनाद्दशमस्थाने ग्रहणमित्युक्तम् ॥
 
हें?
 

 
(अर्थक्रम निरूपणम् )
 

 
यत्र प्रयोजनवशेनार्थनिर्णयः स मार्थः क्रमः । यथाऽग्निहोत्रहोमयवागू-

पाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनक्शेन पूर्वमनुष्टीठीयते ।

 
[commentary]
 
भक्षानुवादेन क्रममात्रविधानमस्तु किं विशिष्ट विधिनेत्यत आह - --एकप्रसरतेति । एक.
-
प्रसरता सम्भूय विशिष्टार्थप्रतिपादकत्वं, तस्या भङ्ग इत्यर्थः । पदस्य ह्येकदा एक एव

व्यापारः उद्देश्यत्वेन विधेयत्वेन वा विशिष्टस्य शुद्धस्य वा स्वार्थस्य समर्पणम् । न द्वय
मध्
-
मप्
येकदैकस्य । तदिदानीं भज्येत । किञ्च अत्र भक्षानुवादेन प्राथम्यविधौ भक्षस्योद्देश्य-

त्वेन तस्य विधेयप्राथम्यान्वयात् पूर्वं उद्देश्यत्वेन क्रियान्वयोऽभ्युपगन्तव्यः प्रतश्च

कियान्वयात् पूर्वं भक्षप्राथम्ययोः विशेषणविशेष्यभावानवगमात् एकार्थीभावलक्षण-

सामर्थ्याभावात् समासो न स्यात् अस्ति तु सः । अतः समासबलादुभयोस्सम्भू-

यैकार्थप्रतिपादकत्वंं वक्तव्यम् । ततश्च विशिष्टविधान एव पर्यवध्यतीति भावः ।
 
3
 

 
( श्रुतिप्राबल्यनिरूपणम् )
 
.
 

 
एवं श्रुतिं निरूप्य तद्गतं क्रमबोधकेतरप्रमाणापेक्षया प्राबल्यं निरूपयति-
-
सेयमिति । इतरप्रमाणापेक्षयेति । क्रमबोधकार्थादिप्रमाणापेक्षयेत्यर्थः । तत्र कारण-

माह - --वचन कल्पनद्वारेति । पाठादिस्थलेषु न प्रत्यक्षवचनमस्ति, येन क्रमो विधीयेत ।

पौर्वापर्यरूपेण पाठान्यथानुपपत्या तु 'एतदनन्तर मेतत्कर्त्तव्य' मिति कल्पनीयं क्रमबो-

धकं वचनम् । यावच्च तैः कल्पयितुमारभ्यते ततः पूर्वमेव प्रत्यक्षेण क्लृतेन वचनेन क्रमे

बोषिधिते न तेषां प्रवृत्तिरिति दौर्बल्यं तेषामिति भावः । अत एव इतरापेक्षया प्राबल्या-

देव । श्राश्चिआश्विनस्येति । अश्विदेवताकस्य ग्रहस्येत्यर्थः । पाठक्रमादिति । 'ऐन्द्रवा
-
यवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णाति' इति धाराग्रहेषु तृतीयस्थाने

आश्विनग्रहविधायकवाक्यस्य पाठादिति भावः । यद्यप्यन्त्र प्रथमतः श्रुत्यर्थयोः प्राबल्य -
-
दौर्बल्य निरूपणमेव कर्तुमुचितं तथापि यथाश्रुत्ये प्रयोजनस्य कल्पनीयत्वेन तयोर्विरोध-

स्यैवासम्भवात् तत्परित्यज्य श्रुतिपाठयोः प्राबल्यदौर्बल्योदाहरणमुक्तमिति वेदितव्यम् ।

यथा ह्युक्तम्-
-
 
श्रुत्यर्थयोर्विरोधस्तु नैवं वचनसम्भवे ।
 

यथाश्रुत्येव हि न्याय्यमर्थस्य परिकल्पनम् ॥ इति । इत्युक्तमिति पञ्चम-

चतुर्थप्रथम इति शेषः ।

 
( अर्थक्रम निरूपणम् )
 

 
अर्थक्रमं लक्षयति
— यत्र स्
--यत्र त्विति । होमार्थत्वेनेति । यवाग्वाग्निहोत्रं जुद्दो
 
हो-