2023-02-20 11:47:25 by ambuda-bot
This page has not been fully proofread.
रूपणम् ]
सारविवेचिनी व्याख्यासंवलितः
एकप्रसरतामङ्गभयेन भक्षानुवादेन क्रममात्रस्य विधातुमशक्यत्वात् ।
( श्रुतिप्राबल्यनिरूपणम् )
सेयं श्रुतिरितरप्रमाणापेक्षया बलवती । तेषां वचन कल्पनद्वारा क्रमप्रमा.
पश्चात् । अत पवाश्विनस्य पाठक्रमातृतीय स्थाने ग्रहणप्रसको 'आश्विनो
दशमो गृह्यते' इति वचनादशमस्थाने ग्रहणमित्युक्तम् ॥
हें?
(अर्थक्रम निरूपणम् )
यत्र प्रयोजनवशेनार्थनिर्णयः स मार्थः क्रमः । यथाऽग्निहोत्रहोमयवागू-
पाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनक्शेन पूर्वमनुष्टीयते ।
भक्षानुवादेन क्रममात्रविधानमस्तु किं विशिष्ट विधिनेत्यत आह - एकप्रसरतेति । एक.
प्रसरता सम्भूय विशिष्टार्थप्रतिपादकत्वं, तस्या भङ्ग इत्यर्थः । पदस्य ह्येकदा एक एव
व्यापारः उद्देश्यत्वेन विधेयत्वेन वा विशिष्टस्य शुद्धस्य वा स्वार्थस्य समर्पणम् । न द्वय
मध्येकदैकस्य । तदिदानीं भज्येत । किञ्च अत्र भक्षानुवादेन प्राथम्यविधौ भक्षस्योद्देश्य-
त्वेन तस्य विधेयप्राथम्यान्वयात् पूर्वं उद्देश्यत्वेन क्रियान्वयोऽभ्युपगन्तव्यः प्रतश्च
कियान्वयात् पूर्व भक्षप्राथम्ययोः विशेषणविशेष्यभावानवगमात् एकार्थीभावलक्षण-
सामर्थ्याभावात् समासो न स्यात् अस्ति तु सः । अतः समासबलादुभयोएसम्भू-
यैकार्थप्रतिपादकत्वंं वक्तव्यम् । ततश्च विशिष्टविधान एव पर्यवध्यतीति भावः ।
3
( श्रुतिप्राबल्यनिरूपणम् ) ।
.
एवं श्रुतिं निरूप्य तद्गतं क्रमबोधकेतरप्रमाणापेक्षया प्राबल्यं निरूपयति-
सेयमिति । इतरप्रमाणापेक्षयेति । क्रमबोधकार्थादिप्रमाणापेक्षयेत्यर्थः । तत्र कारण-
माह - चचन कल्पनद्वारेति । पाठादिस्थलेषु न प्रत्यक्षवचनमस्ति, येन क्रमो विधीयेत ।
पौर्वापर्यरूपेण पाठान्यथानुपपत्या तु 'एतदनन्तर मेतत्कर्त्तव्य' मिति कल्पनीयं क्रमबो-
धकं वचनम् । यावच्च तैः कल्पयितुमारभ्यते ततः पूर्वमेव प्रत्यक्षेण क्लृतेन वचनेन क्रमे
बोषिते न तेषां प्रवृत्तिरिति दौर्बल्यं तेषामिति भावः । अत एव इतरापेक्षया प्राबल्या-
देव । श्राश्चिनस्येति । अश्विदेवताकस्य ग्रहस्येत्यर्थः । पाठक्रमादिति । 'ऐन्द्रवा
यवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णाति इति धाराग्रहेषु तृतीयस्थाने
आश्विनमहविधायकवाक्यस्य पाठादिति भावः । यद्यप्यन्त्र प्रथमतः श्रुत्यर्थयोः प्राबल्य -
दौर्बल्य निरूपणमेव कर्तुमुचितं तथापि यथाश्रत्येष प्रयोजनस्य कल्पनीयत्वेन तयोविरोध-
स्यैवासम्भवात् तत्परित्यज्य श्रुतिपाठयोः प्राबल्यदौर्बल्योदाहरणमुक्तमिति वेदितव्यम् ।
यथा ह्युक्तम्-
श्रुत्यर्थयोर्विरोधस्तु नैवं वचनसम्भवे ।
यथाश्रुत्येव हि न्याय्यमर्थस्य परिकल्पनम् ॥ इति । इत्युक्तमिति पञ्चम-
चतुर्थप्रथम इति शेषः ।
( अर्थक्रम निरूपणम् )
अर्थक्रमं लक्षयति
— यत्र स्विति । होमार्थत्वेनेति । यवाग्वाग्निहोत्रं जुद्दो