This page has been fully proofread once and needs a second look.

स चायमविलम्बो नियते क्रमे आश्रीयमाणे भवति । अन्यथा हि किमे-
तदन [^१] न्तरं कर्तव्यं तदनन्तरं वेति प्रयोगविक्षेपापत्तेः । अतः प्रयोगविधिरे-
व स्वविधेयप्रयोगप्राशुभावसिद्ध्यर्थं नियतं क्रममपि पदार्थविशेषणतया वि-
धत्ते ।
 
(क्रमलक्षणम्)
 
तत्र क्रमो नाम विततिविशेषः पौर्वापर्यरूपो वा । तत्र च षट् प्रमाणानि--
श्रुत्यर्थपाठस्थानमुख्यप्रवृत्याख्यानि ।
 
(श्रुतिनिरूपणम्)
 
प्रमाणानि-
तत्र क्रमपरवचनं श्रुतिः । तच्च द्विविधं--केवलक्रमपरं, तद्विशिष्टपदार्थपरं
चेति । तत्र 'वेदं कृत्वा वेदिं करोती'ति केवलक्रमपरम्; वेदिकरणादेर्वचना-
न्तरेण विहितत्वात् । 'वषट्कर्तुः प्रथमभक्ष' इति तु क्रमविशिष्टपदार्थपरम् ।
 
[commentary]
 
भवति सिध्यति । प्रयोगविक्षेपापत्तेरिति । स्वकपोलकल्पितया कयाचिद्रीत्याऽनु-
ष्ठाने कृते केषांचित् द्विरनुष्ठानं केषांचिदनुष्ठानाभाव इति वैकल्यापत्तेरित्यर्थः । ननु
सत्यामपि क्रमापेक्षायां तद्बोधकशास्त्राभावात् कथं तस्य प्राप्तिः ? अत आह--प्रयोग-
विधिरेवेति । ननु क्रमस्य पदार्थत्वाभावात् कथं विधेयत्वम् ? अत आह--पदार्थ-
विशेषणतयेति । यद्यपि स्वातन्त्र्येण न विधातुं शक्यते, तथापि कालादिवत्पदार्थ-
विशेषणतया तस्य सम्भवत्येष विधिरिति भावः ।
 
विततिविशेष इति । तत्तत्पदार्थानन्तरं तत्तत्पदार्थाः कर्त्तव्या इत्यनेकपदार्थवृ-
त्तिपौर्वापर्यसमुदाय इत्यर्थः । यत्किञ्चित्पदार्थप्रतियोगिकयत्किञ्चित्पदार्थानुयोगिकाव्यवहि-
तोत्तरत्वरूपानन्तर्यस्य क्त्वादिशब्दाभिधेयस्य लघुभूतस्य उत्तरपदार्थोपस्थापकत्वेन दृष्टा-
र्थस्य क्रमत्वे सम्भवति गुरुभूतस्य तावत्प दार्थनिष्ठस्याशाब्दस्य विततिविशेषस्य क्रमस्वा.
जी
त्वा-
ङ्गी
करणं न युक्तिसहमित्याशयवानाह- -पौर्वापर्यरूपो घेवेति । क्त्वाततःशब्दबलात्
पूर्वापरत्वेन प्रतीयमानयोः पदार्थयोः नैरन्तर्यमित्यर्थः । यथाश्रुते मध्ये केषांचित् पदार्था-
नामनुष्ठानेऽपि पौर्वापर्यावाघाबाधात् प्राशुभावभङ्गापत्तेः । वस्तुतस्तु एकपदार्थप्रतियोगिका
-परपदार्थानुयोगिक श्रानन्तर्यविशेष एव क्रमपदार्थः । तस्यैव च उत्तरपदार्थाजस्ङ्गत्वम् ।
तस्य च उत्तरपदार्थस्मारकत्वेन दृष्टार्थताऽपि । एवञ्च वषट्कर्तुः प्रथमभक्ष इत्यत्र प्राथ-
म्यस्य क्रमत्वं भाक्तमिति ध्येयम् ।
 
तत्र षण्यांणां प्रमाणानां मध्ये । क्रमबोधिकायाः श्रुतेः लक्षण माह- -क्रमपरवचन-
मिति । क्रमपरत्वं च वृत्या क्रमबोधकत्वं द्रष्टव्यम् । तेन क्त्वाप्रत्ययादीनामपि क्रमलक्ष-
काणां सङ्ग्रहः । तथ्यच्च क्रमपरवचनं च । आद्यमुदाहरति--वेदमिति । कथं तस्य केवल-
क्रमपरत्वम् अता- त आह--वेदिकरणादेरिति । श्रादिपदेन श्राख्यातोपात्तकर्तृ संख्ययोः
परिग्रहः । द्वितीयमुदाहरति - --वषट्कर्तुरिति । 'याज्याया अघिधि वषट्करोति'
इत्यादिना याज्योत्तरं पठनीयत्वेन यो विहितो वषट्कारस्तत्पठितुर्होत्रादेरित्यर्थः । नन्वत्र
 
?
 
[^.] एतदनन्तरमेतस्त्कर्तव्यमेतदनन्तरं वा
 
-