This page has been fully proofread once and needs a second look.

क्यतामापन्नः प्रधानविधिरेव । स हि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमा-
णाभावादविलम्बापरपर्यायं प्रयोगप्राशुभावं विधत्ते । न च विलम्बवदविलम्बेऽ
पि प्रमाणाभाव इति वाच्यम् । विलम्बे हि अङ्गप्रधानविध्येकवाक्यतावगतत-
त्साहित्यानुपपत्तिः प्रसज्येत । न हि विलम्बेन क्रियमाणयोः पदार्थयोः 'सह-
कृत' मिति साहित्यं व्यवहरन्ति ।
 
नचैवं साहित्यानुपपत्त्या समानकालत्वमेव स्यात्, न त्वविलम्बः, अव्य-
वधानेन पूर्वोत्तरकालक्रियमाणपदार्थयोः 'अबिलम्बेन कृत' मिति व्यवहारा-
दिति वाच्यम् । अनेकपदार्थानामेकस्मिन् कालेऽनुष्ठानानुपपत्तेः । न च ताव-
त्कर्तृसंपादनेनानुष्ठानं किं न स्यादिति वाच्यम् । "तस्यैतस्य यज्ञक्रतोश्चत्वा-
र ऋत्विज" इत्यादिना कर्तृणां नियतत्वात् ।
 
तस्माद्वाक्यैकवाक्यतामापन्नः प्रधानविधिः एकवाक्यतावगततत्साहि-
त्यं विदधत् उक्तविधया एककालानुष्ठानानुपपत्तेरविलम्बं विधत्ते इति सिद्धं
प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिरिति ।
 
[commentary]
 
योगः अनुष्ठानं तस्य प्राशुभावः शैघ्र्यं असम्बन्धिपदार्थाव्यवधानरूपं तद्बोधको विधि-
रित्यर्थः । कोऽसौ प्रयोगविधिः ? अत आह--स चेति । प्रधानविधिरेवेति । फलसम्ब-
न्धबोधकः यः प्रधानविधिः अधिकारविध्यपरपर्यायः स एवेत्यर्थः । अनेन प्रधानोत्पत्ति-
विधीनां अङ्गोत्पत्तिविधीनां वा नानुष्ठापकत्वमिति सूचितम् । विधेः प्राशुभावबोधकत्वमुप-
पादयति--स हीति । अङ्गानां प्रधानानां च एकेनैव प्रयोगविधिना विधानस्य, एकवि-
धिविहितानामसति बाधके युगपदनुष्ठेयत्वरूपसाहित्यविवक्षायाश्च एकादशे वक्ष्यमाणत्वात्
तस्यानुपपत्तिः प्रसज्येतेति भावः । विलम्बे हीति । स्वीक्रियमाण इति शेषः । यद्यपि
बिलम्बनिषेधकं प्रातिस्विकं प्रमाणं नास्ति, तथापि प्रयोगविध्यवगतसाहित्यबलादेव
तद्वाधनमिति भावः ।
 
ननु प्रधानविधिना साहित्यस्यैव बोधनात् तस्य च एकक्षणवृत्तित्वरूपत्वात् अङ्गप्र-
धानयोरेकक्षणानुष्ठेयत्वमेवावगम्यत इति कथं विलम्बप्राप्तिरिति शङ्कते--न चैवमिति ।
समानकालत्वं एकक्षणानुष्ठानम्, स्यात् सिध्येत् । अनेकपदार्थेति । सर्वेषां पदा-
र्थानां एकक्षणानुष्ठानासम्भवात् बाधितं सत् साहित्यमविलम्बानुष्ठाने पर्यवस्यतीति भावः ।
तावत्कर्तृसंपादनेनेति । कर्तृपदं क्रयक्रीतपरम् । इदञ्च सम्भवदनाभिप्रायम् ।
अवघातपेषणादीनां पूर्वापरकालभाविनां तावत्कर्तृसम्पादनेनापि युगपदनुष्ठानासम्भवात् ।
यज्ञक्रतोरिति । क्रतुशब्दो मानसोपासनेऽपि वर्तते । स क्रतुं कुर्वीत, मनोमयः
प्राणशरीरः इत्यत्र क्रतुशब्देन ध्यानविधानात् । तद्व्यावृत्तये यज्ञक्रतोरिति इति माधवः ।
कर्तृणां ऋत्विग्रूपाणाम् ।
 
तस्मात् उक्त प्रमाणेनोक्तयुक्त्या च । अङ्गवाक्यैकवाक्यतामापन्न इति । समिधो
यजति, आज्यभागौ यजति, इत्यादिभिरङ्गविधायकवाक्यैः या एकवाक्यता समिदा-
दिभिरूपकृताभ्यां दर्शपूर्णमासाभ्यां स्वर्गे भावयेत् इत्याकारिका तामापन्न इत्यर्थः ।