This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
GE
 
C
 
क्यतामापन्नः प्रधान विधिरेव । स हि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमा-
णाभावादविलम्वापरपर्यायं प्रयोगप्राशुभावं विधत्ते । न च विलम्बवद् विलम्बेड
पि प्रमाणाभाव इति वाच्यम् । विलम्बे हि अङ्ग प्रधान विध्येकवाक्यताव गतत
त्साहित्यानुपपत्तिः प्रसज्येत । न हि विलम्वेन क्रियमाणयोः पदार्थयोः 'सह
कृत' मिति साहित्यं व्यवहरन्ति ।
 
S
 
UNCAT
 
4
 
नचैवं साहित्यानुपपस्या समानकालत्वमेव स्यात्, न त्वविलम्बः, मव्य-
वधानेन पूर्वोत्तर काल क्रियमाणपदार्थयो: 'अबिलम्बेन कृत' मिति व्यवहारा-
दिति वाच्यम् । अनेक पदार्थाना मेकस्मिन् कालेऽनुष्ठानानुपपत्तेः । न च ताव-
कर्तृसंपादनेनानुष्ठानं किं न स्यादिति वाच्यम् । "तस्यैतस्य यशकतोश्चत्वा-
र ऋत्विज" इत्यादिना कर्तृणां नियतत्वात् ।
 
तस्माद्वाक्यैकवाक्यतामापन्नः प्रधानविधिः एकवाक्यतावगततत्साहि-
त्यं विदधत् उक्तविधया एककालानुष्ठानानुपपत्तेर विलम्वं विधत्ते इति सिद्धं
प्रयोग प्राशुभावबोधको विधिः प्रयोगविधिरिति ।
 
योगः अनुष्ठानं तस्य प्राशुभावः शैव्यं असम्बन्धिपदार्थाव्यवधानरूपं तद्बोधको विधि-
रित्यर्थः । कोऽसौ प्रयोगविधिः १ ताह- स चेति । प्रधान विधिरेवेति । फलसम्द-
न्धबोधकः यः प्रधानविधिः किरवियपर पर्यायः स एवेत्यर्थः । अनेन प्रधानोत्पत्ति-
विधीनां श्रृङ्गोत्पत्तिविधीनां वा नानुष्ठापकत्वमिति सूचितम् । विधेः प्राशुभावबोधकत्वमुप
`पादयति-स हीति । नां प्रधानानां च एकेनैव प्रयोगविधिना विधानस्य, एकवि
घिविहितानामसति बाघ के युगपदनुष्ठेयत्वरूप साहित्यविवक्षायाच एकादशे वक्ष्यमाणत्वात्
तस्यानुपपत्तिः प्रसज्येतेति भावः । विलम्बे हीति । स्वीक्रियमाण इति शेषः । यद्यपि
बिलम्ब निषेधकं प्रातिस्विकं प्रमाणं नास्ति, तथापि प्रयोगविध्यवगतसाहित्यबलादेव
तद्वाघनमिति भावः ।
 
ननु प्रधान विधिना साहित्यस्यैव बोधनात् तस्य च एकक्षण वृत्तित्वरूपस्वात् अप्र-
घानयो रेकक्षणानुष्ठेयत्वमेवावगम्यत इति कथं विलम्बप्राप्तिरिति शङ्कते– न चैवमिति ।
समानकालत्वं एकक्षणानुष्ठानम्, स्यात् सिध्येत् । अनेकपदार्थेति । सर्वेषां पदा-
र्थानां एकक्षणानुष्ठानासम्भवात् बाधितं सत् साहित्यम विलम्बानुष्ठाने पर्यवस्थतीति भावः ।
तावत्कर्तृसंपादनेनेति । कर्तृपदं क्रयकीतग्परम् । इदश्च सम्भवदनाभिप्रायम् ।
अवघातपेषणादीनां पूर्वापरकालभाविनां तावत्कर्तृसम्पादनेनापि युगपदनुष्ठानासम्भवात् ।
यशकतोरिति । क्रतुशब्दो मानसोपासनेऽपि वर्तते । स ऋतुं कुर्वीत, मनोमयः
प्राणशरीरः इत्यत्र ऋतुशब्देन ध्यान विधानात् । तद्वयावृत्तये यज्ञक्रतोरिति इति माधवः ।
 
ऋग्राणाम् ।
 
तस्मात् उतप्रमाणेोकयुक्त्या च । अङ्गवाक्यैकवाक्यतामापन इति । समिधो
यजति, माज्यभागौ यजति, इत्यादिभिरङ्गविधायकवाक्यैः या एकवाक्यता समिदा-
दिभिरूपकृताभ्यां दर्शपूर्णमासाभ्यां स्वर्गे भावयेत् इत्याकारिका तामापन इत्यर्थः ।
१२ मो० न्या०