This page has been fully proofread once and needs a second look.

तृतीये ।
 
आरादुपकारकाणां तु स्वरूपेऽनुपयोगात् परमापूर्वार्थत्वम् । तत्रोत्पत्य-
पूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवोत्पद्यमानत्वात् सन्निपत्योपकारकाणां पूर्वा-
ङ्गानां तदुत्पत्तावुपयोगः, उत्तराङ्गानां तु तेषां तत्स्थितावुपयोगः । परमापू-
र्वस्य तु साङ्गप्रधाना [^१] नुष्ठानानन्तरमेवोत्पद्यमानत्वात् सर्वेषामारादुपकार-
काणां तदुत्पत्तौ । प्रयोगबहिर्भूतस्य तु तस्य तत्स्थितावुपयोगः । यथा--बृह-
स्पतिसवस्य 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते' ति वाजपेयोत्तरकालमङ्ग-
त्वेन विहितस्य वाजपेयापूर्वस्थितावुपयोगः । तस्य प्रागेवोत्पन्नत्वादित्युक्तं
चतुर्थे । तत्सिद्धं सर्वथाङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः--तदेवं निरू-
पितः संक्षेपतो विनियोगविधिः ॥
 
( प्रयोगविधिनिरूपणम् )
 
प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिः । स चाङ्गवाक्यैकवा-
 
[commentary]
 
डाशयागमात्रस्य । तदर्थत्वाभावातूत् पुरोडाशार्थत्वाभावात् । न च वाच्यमाज्यस्यापि
पुरोड। डाशोपस्तरग्णाभिघारणार्थत्वात्तदर्थत्वमस्त्येवेति तत्राप्यवघातप्राप्तिर्भवेदेवेति । श्रनाअत्रा-
वघातादीनां प्रदेयतत्प्रकृतिद्रव्य संस्कारकत्वेन विधानात् श्राज्यस्य प्रदेयसंस्कारोप-
युक्तत्वेऽपि प्रदेयत्वस्य प्रदेयप्रकृतित्वस्य वा प्रभावात्,
विशेषतश्चायमर्थो नि
निरूपित-
स्तृतीये तेषामर्थाधिकरण इत्याह - --तृतीये इति ।
 
स्वरूपे यागस्वरूपे । द्रव्यदेवतादिसम्बन्धमद्वारीकृत्य साक्षादेव तेषां विधानादिति

भावः । पूर्वाङ्गानामिति । प्रधानयागानुष्ठानतः पूर्वमनुष्ठीयमानानामवघातप्रोक्षणादीना-
ज्ञाङ्गानामित्यर्थः । तदुत्पत्तौ उपत्यपूर्वोत्तौ। उत्तराङ्गानां प्रधानयागानन्तरमनुष्टीठी-
यमानानां स्विष्टकृढिदिडाभक्षणादीनाम् । तत्स्थिताविति । उत्पत्यपूर्वस्य पूर्वमेवोत्पन्नत्वेन
तदुत्पत्तौ उपयोगासम्भवादिति भावः । सर्वेषामिति । पूर्वाङ्गानामुत्तराज्ञाङ्गानाञ्चेत्यर्थः ।
तदुपत्तौ परमापूर्वोत्पत्तौ । सर्वेषामेबावारादुपकारकाणां तदुत्पत्तावेवोपयोगः ? नेत्याह--
प्रयोगबहिर्भूतस्येति । श्रारादुपकारकस्येति शेषः । तत्स्थिताविति । साङ्गप्रयोग-
परिसमाप्तिसमनन्तरमेव तदीयपरमापूर्वस्योत्पत्यवश्यम्भावादिति भावः । एवं चौसत्यपू
त्पत्यपू-
र्व
मुत्पन्नमप्युत्तराज्ञाङ्गाननुष्ठाने, परमापूर्वमुत्न्नमपि प्रयोगबहिर्भूताज्ञाङ्गाननुष्ठाने च विपद्यते
इत्यङ्गविधानबलात् कल्पत इति हृदयम् । वाजपेयोत्तरकालमिति । इष्ट्वेति क्वाप्रत्यत्वाप्रत्य-
येन साङ्गवाजपेयप्रयोगपरिसमाप्त्युत्तरकालिकत्वस्यैव बृहस्पतिसवे बोधनादिति भावः ।
चतुर्थ इति । तृतीयत्रयोदश इति शेषः । विनियोगविधिनिरूपणमुपसंहरति--तदेवमिति ।

( प्रयोगविधिनिरूपणम् )
 
-
 
एवं विनियोगविधिधिं निरूप्य क्रमप्राप्तं प्रयोगविधिनिरूपणमारभते - --प्रयोगेति ।
त्र विनियोग प्रयोगविधिनिरूपणयोः पौर्वापर्यकारणं पूर्वमेवोपपादितम् । प्रयोगेति । प्र.
-
 
[^
.] प्रयोगानुष्ठान
 
a