This page has not been fully proofread.

८६
 
मीमांसान्यायप्रकाशः
 
प्रयोगविधि-
तृतीये ।
 

 
आरादुपकारकाणां
तु स्वरूपेऽनुपयोगात् परमा पूर्वार्थत्वम् । तत्रोत्पस्य-
त्य-
पूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवोत्पद्यमानत्वात् सन्निपत्योपकारकाणां पूर्वा
-
ङ्गानां तदुत्पत्तावुपयोगः, उत्तराङ्गानां तु तेषां तत्स्थितावुपयोगः । परमापू-

र्
वस्य तु साङ्गप्रधाना ([^)] नुष्ठानानन्तरमेवोत्पद्यमानत्वात् सर्वेषामारादुपकार-

काणां तदुत्पत्तो । प्रयोगवतौ । प्रयोगबहिर्भूतस्य तु तस्य तत्स्थिताबुवुपयोगः । यथा-वृ-बृ
-
स्पतिसवस्य 'वाजपेयेनेष्टाट्वा बृहस्पतिसवेन यजेते' ति वाजपेयोत्तरकालमङ्ग.
-
त्वेन विहितस्य वाजपेयापूर्वस्थिता बुवुपयोगः । तस्य प्रागेवोत्पन्नत्वादित्युक्तं

चतुर्थे । तत्सिद्धं सर्वथाङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः- -तदेवं निरू-

पितः संक्षेपतो विनियोगविधिः ॥
infos
 

 
( प्रयोगविधि निरूपणम् )
 

 
प्रयोगप्राशुभाव बोधको विधिः प्रयोगविधिः । स चाङ्गवाक्यैकवा.
 
-
 
[commentary]
 
डाशयागमात्रस्य । तदर्थत्वाभावातू पुरोडाशार्थत्वाभावात् । न च वाच्यमाज्यस्यापि

पुरोड। शोपस्तरग्णाभिघारणार्थत्वात्तदर्थत्वमस्त्येवेति तत्राप्यवघातप्राप्तिर्भवेदेवेति । श्रना-

वघातादीनां प्रदेयतत्प्रकृतिद्रव्य संस्कारकत्वेन विधानात् श्राज्यस्य प्रदेयसंस्कारोप-

युक्तत्वेऽपि प्रदेयत्वस्य प्रदेयप्रकृतित्वस्य वा प्रभावात्,

विशेषतश्चायमर्थो नि

निरूपित-

स्तृतीये तेषामर्थाधिकरण इत्याह - तृतीये इति ।
 

 
स्वरूपे यागस्वरूपे । द्रव्यदेवतादिसम्बन्धमद्वारीकृत्य साक्षादेव तेषां विधानादिति



भावः । पूर्वाङ्गानामिति । प्रधानयागानुष्ठानतः पूर्वमनुष्ठीयमानानामवघातप्रोक्षणादीना-

मज्ञानामित्यर्थः । तदुत्पत्तौ उपत्यपूर्वोत्तौ। उत्तराङ्गानां प्रधानयागानन्तरमनुष्टी-

यमानानां स्विष्टकृढिडाभक्षणादीनाम् । तत्स्थिताविति । उत्पत्यपूर्वस्य पूर्वमेवोत्पन्नरवेन

तदुत्पत्तौ उपयोगासम्भवादिति भावः । सर्वेषामिति । पूर्वाङ्गानामुत्तराज्ञानाञ्चेत्यर्थः ।

तदुपत्तौ परमापूर्वोत्पत्तौ । सर्वेषामेबारादुपकारकाणां तदुपत्तावेवोपयोगः १ नेत्याह-

प्रयोगबहिर्भूतस्येति । श्रारादुपकारकस्येति शेषः । तत्स्थिताविति । साङ्गप्रयोग-

परिसमाप्तिसमनन्तरमेव तदीयपरमापूर्वस्योत्पत्यवश्यम्भावादिति भावः । एवं चौसत्यपू

मुत्पन्नमप्युत्तराज्ञाननुष्ठाने, परमापूर्वमुत्सन्नमपि प्रयोगबहिर्भूताज्ञाननुष्ठाने च विपद्यते

इत्यङ्गविधानबलात् कल्पत इति हृदयम् । वाजपेयोत्तरकालमिति । इष्टति क्वाप्रत्य

येन साङ्गवाजपेयप्रयोगपरिसमाप्त्युत्तरकालिकत्वस्यैव बृहस्पतिसवे बोधनादिति भावः ।

चतुर्थ इति । तृतीयत्रयोदश इति शेषः । विनियोगविधिनिरूपणमुपसंहरति-तदेवमिति ।

( प्रयोगविधिनिरूपणम् )
 
-
 

 
-
 
एवं विनियोगविधि निरूप्य क्रमप्राप्तं प्रयोगविधिनिरूपणमारभते - प्रयोगेति ।

त्र विनियोग प्रयोगविधिनिरूपणयोः पौर्वापर्यकारणं पूर्वमेवोपपादितम् । प्रयोगेति । प्र.

१. प्रयोगानुष्ठान
 

 
a