This page has not been fully proofread.

[ ७ ]
 
भ्युदयफले कर्मणि प्रवृत्ति समीहमाना भगवती श्रुतिरेव स्वयं मीमांसामारभत प्रेक्षाव
न्मनस्समाहितये । अत एव तत्र तत्र ब्राह्मण मन्थेषु ब्रह्मवादिभिः क्रियमाणा मीमांसा
संशय पूर्वोत्तरपक्षरूपतयैव दरीदृश्यते । तथा हि चातुर्मास्यान्तर्गत त्र्यम्बकह विविधिमक-
रणे - ( १ ) अभिघार्या३ न्नाभिवार्या३ मिति मीमांसन्ते । यदभिघारयेत् । रुद्रा-
यास्य पशुनपि दश्यात् । तन्न सूर्यम् । अभिघार्या एव । इति श्रूयते । तत्र तदीयं हवि
होंमात्पूर्वमभिघार्ये न वेति संशयः । संशयावद्योतक उभयत्र लुतः । श्रभिधारणं न कर्त-
व्यमिति पूर्वपक्षः । यदभिधारयेदित्यादि पूर्वपक्षे युक्तिः । तन्न सूर्यमिति पूर्वपक्षखण्ड-
नम् । अभिवार्या एवेति सिद्धान्तः । न ह्यनमितमित्यादिः सिद्धान्तयुक्तिः । एवम्-
( २ ) उत्सृज्यां३ नोत्सृज्या ३ मिति मीमांसन्ते ब्रह्मवादिनः । तद्वा हुरुत्सृज्यमेव । श्रमा-
वाक्ष्य(यां च पौर्णमास्यां चोत्सृज्यमित्याहुः । या प्रथमा व्यष्टका तस्यामुत्सृज्य मित्याहुः ।
( ३ ) संस्थाप्यां३ न संस्थाप्या३मिति मीमांसन्तेऽग्निहोत्रम् । ( ४ ) होतव्यं दीक्ष.
तस्याग्निहोत्रा३ न्न होतव्या३मिति मीमांसन्ते । ( ५ ) वासिष्ठो रौहिणो मीमांसां
चक्रे" इत्यादिषूदाहरणेष्वपि द्रष्टव्यम् । मीमांसेयं न केवलं पूर्वकाण्डगतेषु तत्तद्वेदीय
ब्राह्मणभागेषूपलभ्यते, उत्तरकाण्डे उपनिषत्स्वपि समुपलभ्यते बहुत्र । अनेन स्पष्टमिदं
प्रतीयते ब्राह्मणमागेन वेदँ कदेशेन सह्रै वैषापि विचारसरणिमीमांसापदामिघैयाऽऽविभृंता ।
तामेव च परिपाटीमनन्तरकालिका महर्षयः क्रम नियमबद्धां कृत्वा यथावद्वयवश्वन्
कानि वाक्यानि विषयतामापादयन्तः ।
 
वैदि•
 
अतश्च वेदार्थ तदनुयायिस्मृत्यर्थ वा यथायथमवगन्तुकामस्य पुंसो नान्तरीयकं
मीमांसाशास्त्रज्ञानम् । न ह्यमीमांसको वेदार्थ स्मृत्यर्थ वा यथावदवगन्तुमीष्टे ।
धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणाऽनुसन्धत्ते स धर्मे वेद नेतरः" ॥
 
"
 
इति हि मानवं वचनम् । वेदशास्त्राविरोधी तर्कः, मीमांसेति यावत् ।
"विषयो वेदवाक्यानां पदार्थैः प्रतिपाद्यते ।
 
परीक्ष कार्पितैश्शक्यास्तैर्विवेक्तुं न तु स्वतः" (तं. वा. १.३.१ ) इति
( परीक्षका छात्र मीमांसाशास्त्रनिकषघर्षणावतवेदार्थतत्वविमलस्वान्ताः )
"मीमांसाशास्त्रतेजोभिर्विशेषेणोज्ज्वलीकृते ।
वेदार्थज्ञानरत्ने मे तृष्णाऽतीव विजृम्भते ॥"
 
इति च कुमारिलपादाः । वेदतदर्थ रत्नैरेव च संप्रथितत्वात्स्मृतीनां तदर्थनिर्णयाया.
Sपि मीमांसा ज्ञानमनिवार्यम् । अत एवं प्रायेण निबन्धकारास्सर्वेऽपि मीमांसान्यायसार्थ-
सन्हब्धानेव स्वान् निबन्धान् न्यबध्नन् । ते ह्यजानन्-मीमांसान्यायानुप्रहविधुरो निर्णीतो
वेदार्थ: स्मृत्यर्थो वा अपार्थो विपरीतार्थ एव वेति ।
 
( मीमांसाया भज्ञानेन संभावितानर्थपरम्परा )
मीमांसापरिशोधितन्यायज्ञानवैधुर्गादेव चाद्यतनेषु न्यायालयेषु तत्राधिकृताः स्व.
कपोल कल्पिताभिरेव नीतिभिरर्थान् निर्णयन्तस्तदनुकूलमेव च चेष्टयन्तः प्रवर्तयन्त
जनान् मोहान्धकारपूरे निमज्जयन्ति । पारलौकिकं फलं तु दूरे । इहैव लोके न्यायतोऽ-